८. आयागदायकत्थेरअपदानवण्णना

निब्बुते लोकनाथम्हीतिआदिकं आयस्मतो आयागदायकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो सिखिस्स भगवतो परिनिब्बुतकाले एकस्मिं कुलगेहे निब्बत्तो सासने पसन्नो वड्ढकीनं मूलं दत्वा अतिमनोहरं दीघं भोजनसालं कारापेत्वा भिक्खुसङ्घं निमन्तेत्वा पणीतेनाहारेन भोजेत्वा महादानं दत्वा चित्तं पसादेसि. सो यावतायुकं पुञ्ञानि कत्वा देवमनुस्सेसुयेव संसरन्तो उभयसम्पत्तिं अनुभवित्वा इमस्मिं बुद्धुप्पादे कुलगेहे निब्बत्तो पटिलद्धसद्धो पब्बजित्वा घटेन्तो वायमन्तो विपस्सनं वड्ढेत्वा न चिरस्सेव अरहत्तं पापुणि. पुब्बे कतपुञ्ञवसेन आयागत्थेरोति पाकटो.

९४. एवं सो कतपुञ्ञसम्भारवसेन अरहत्तं पत्वा अत्तना पुब्बे कतकुसलकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो निब्बुते लोकनाथम्हीतिआदिमाह. तत्थ निब्बुतेति वदतं ‘‘मयं बुद्धा’’ति वदन्तानं अन्तरे वरे उत्तमे सिखिम्हि भगवति परिनिब्बुतेति अत्थो. हट्ठो हट्ठेन चित्तेनाति सद्धताय हट्ठपहट्ठो सोमनस्सयुत्तचित्तताय पहट्ठेन चित्तेन उत्तमं थूपं सेट्ठं चेतियं अवन्दिं पणामयिन्ति अत्थो.

९५. वड्ढकीहि कथापेत्वाति ‘‘भोजनसालाय पमाणं कित्तक’’न्ति पमाणं कथापेत्वाति अत्थो. मूलं दत्वानहं तदाति तदा तस्मिं काले अहं कम्मकरणत्थाय तेसं वड्ढकीनं मूलं दत्वा आयागं आयतं दीघं भोजनसालं अहं सन्तुट्ठो सोमनस्सचित्तेन कारपेसहं कारापेसिं अहन्ति अत्थो. सेसं सुविञ्ञेय्यमेवाति.

९७. आयागस्स इदं फलन्ति भोजनसालदानस्स इदं विपाकन्ति अत्थो.

आयागदायकत्थेरअपदानवण्णना समत्ता.