४. काळुदायित्थेरअपदानवण्णना

पदुमुत्तरबुद्धस्सातिआदिकं आयस्मतो काळुदायित्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले हंसवतीनगरे कुलगेहे निब्बत्तो सत्थु धम्मदेसनं सुणन्तो सत्थारं एकं भिक्खुं कुलप्पसादकानं भिक्खूनं अग्गट्ठाने ठपेन्तं दिस्वा तज्जं अभिनीहारं कत्वा तं ठानन्तरं पत्थेसि.

सो यावजीवं कुसलं कत्वा देवमनुस्सेसु संसरन्तो अम्हाकं बोधिसत्तस्स मातुकुच्छियं पटिसन्धिग्गहणदिवसे कपिलवत्थुस्मिंयेव अमच्चगेहे पटिसन्धिं गण्हि, बोधिसत्तेन सद्धिं एकदिवसंयेव जातोति तं दिवसंयेव नं दुकूलचुम्बटके निपज्जापेत्वा बोधिसत्तस्स उपट्ठानत्थाय नयिंसु. बोधिसत्तेन हि सद्धिं बोधिरुक्खो, राहुलमाता, चत्तारो निधी, आरोहनहत्थी, अस्सकण्डको, आनन्दो, छन्नो, काळुदायीति इमे सत्त एकदिवसे जातत्ता सहजाता नाम अहेसुं. अथस्स नामग्गहणदिवसे सकलनगरस्स उदग्गचित्तदिवसे जातत्ता उदायित्वेव नामं अकंसु. थोकं काळधातुकत्ता पन काळुदायीति पञ्ञायित्थ. सो बोधिसत्तेन सद्धिं कुमारकीळं कीळन्तो वुद्धिं अगमासि.

अपरभागे लोकनाथे महाभिनिक्खमनं निक्खमित्वा अनुक्कमेन सब्बञ्ञुतं पत्वा पवत्तितवरधम्मचक्के राजगहं उपनिस्साय वेळुवने विहरन्ते सुद्धोदनमहाराजा तं पवत्तिं सुत्वा पुरिससहस्सपरिवारं एकं अमच्चं ‘‘पुत्तं मे इधानेही’’ति पेसेसि. सो धम्मदेसनावेलायं सत्थु सन्तिकं गन्त्वा परिसपरियन्ते ठितो धम्मं सुत्वा सपरिवारो अरहत्तं पापुणि. अथ ने सत्था ‘‘एथ, भिक्खवो’’ति हत्थं पसारेसि. सब्बे तङ्खणञ्ञेव इद्धिमयपत्तचीवरधरा वस्ससट्ठिकत्थेरा विय अहेसुं. अरहत्तप्पत्तितो पट्ठाय पन अरिया मज्झत्ताव होन्ति. तस्मा रञ्ञा पहितसासनं दसबलस्स न कथेसि. राजा ‘‘नेव गतो आगच्छति, न सासनं सुय्यती’’ति अपरं अमच्चं पुरिससहस्सेहि पेसेसि. तस्मिम्पि तथा पटिपन्ने अपरम्पि पेसेसीति एवं नवहि पुरिससहस्सेहि सद्धिं नव अमच्चे पेसेसि. सब्बे अरहत्तं पत्वा तुण्ही अहेसुं.

अथ राजा चिन्तेसि – ‘‘एत्तका जना मयि सिनेहाभावेन दसबलस्स इधागमनत्थाय न किञ्चि कथयिंसु, अयं खो उदायि दसबलेन समवयो, सहपंसुकीळिको, मयि च सिनेहो अत्थि, इमं पेसेस्सामी’’ति तं पक्कोसापेत्वा, ‘‘तात, त्वं पुरिससहस्सपरिवारो राजगहं गन्त्वा दसबलं इधानेही’’ति वत्वा पेसेसि. सो पन गच्छन्तो ‘‘सचाहं, देव, पब्बजितुं लभिस्सामि, एवाहं भगवन्तं इधानेस्सामी’’ति वत्वा ‘‘यं किञ्चि कत्वा मम पुत्तं दस्सेही’’ति वुत्तो राजगहं गन्त्वा सत्थु धम्मदेसनवेलायं परिसपरियन्ते ठितो धम्मं सुत्वा सपरिवारो अरहत्तं पत्वा एहिभिक्खुभावे पतिट्ठासि. अरहत्तं पन पत्वा ‘‘न तावायं दसबलस्स कुलनगरं गन्तुं कालो, वसन्ते पन उपगते पुप्फिते वनसण्डे हरिततिणसञ्छन्नाय भूमिया गमनकालो भविस्सती’’ति कालं पटिमानेन्तो वसन्ते सम्पत्ते सत्थु कुलनगरं गन्तुं गमनमग्गवण्णं संवण्णेन्तो –

‘‘अङ्गारिनो दानि दुमा भदन्ते, फलेसिनो छदनं विप्पहाय;

ते अच्चिमन्तोव पभासयन्ति, समयो महावीर भागी रथानं.

‘‘दुमानि फुल्लानि मनोरमानि, समन्ततो सब्बदिसा पवन्ति;

पत्तं पहाय फलमाससाना, कालो इतो पक्कमनाय वीर.

‘‘नेवातिसीतं न पनातिउण्हं, सुखा उतु अद्धनिया भदन्ते;

पस्सन्तु तं साकिया कोळिया च, पच्छामुखं रोहिनियं तरन्तं.

‘‘आसाय कसते खेत्तं, बीजं आसाय वप्पति;

आसाय वाणिजा यन्ति, समुद्दं धनहारका;

याय आसाय तिट्ठामि, सा मे आसा समिज्झतु. (थेरगा. ५२७-५३०);

‘‘नातिसीतं नातिउण्हं, नातिदुब्भिक्खछातकं;

सद्दला हरिता भूमि, एस कालो महामुनि. (अ. नि. अट्ठ. १.१.२२५);

‘‘पुनप्पुनञ्चेव वपन्ति बीजं, पुनप्पुनं वस्सति देवराजा;

पुनप्पुनं खेत्तं कसन्ति कस्सका, पुनप्पुनं धञ्ञमुपेति रट्ठं.

‘‘पुनप्पुनं याचनका चरन्ति, पुनप्पुनं दानप्पती ददन्ति;

पुनप्पुनं दानप्पती ददित्वा, पुनप्पुनं सग्गमुपेन्ति ठानं.

‘‘वीरो हवे सत्तयुगं पुनेति, यस्मिं कुले जायति भूरिपञ्ञो;

मञ्ञामहं सक्कति देवदेवो, तया हि जातो मुनि सच्चनामो.

‘‘सुद्धोदनो नाम पिता महेसिनो, बुद्धस्स माता पन मायनामा;

या बोधिसत्तं परिहरिय कुच्छिना, कायस्स भेदा तिदिवम्हि मोदति.

‘‘सा गोतमी कालकता इतो चुता, दिब्बेहि कामेहि समङ्गिभूता;

सा मोदति कामगुणेहि पञ्चहि, परिवारिता देवगणेहि तेही’’ति. (थेरगा. ५३१-५३५);

इमा गाथा अभासि. तत्थ अङ्गारिनोति अङ्गारानि वियाति अङ्गारानि. अङ्गारानि रत्तपवाळवण्णानि रुक्खानं पुप्फफलानि, तानि एतेसं सन्तीति अङ्गारिनो, अभिलोहितकुसुमकिसलयेहि अङ्गारवुट्ठिसम्परिकिण्णा वियाति अत्थो. दानीति इमस्मिं काले. दुमाति रुक्खा. भदन्तेति भद्दं अन्ते एतस्साति, ‘‘भदन्ते’’ति एकस्स द-कारस्स लोपं कत्वा वुच्चति. गुणविसेसयुत्तो, गुणविसेसयुत्तानञ्च अग्गभूतो सत्था. तस्मा, भदन्तेति सत्थु आलपनमेव, पच्चत्तवचनञ्चेतं एकारन्तं ‘‘सुगते पटिकम्मे सुखे दुक्खे जीवे’’तिआदीसु विय. इध पन सम्बोधनट्ठे दट्ठब्बं. तेन वुत्तं, ‘‘भदन्तेति आलपन’’न्ति. ‘‘भद्दसद्देन समानत्थं पदन्तरमेक’’न्ति केचि. फलानि एसन्तीति फलेसिनो. अचेतनेपि हि सचेतनकिरियं आह. एवं थेरेन याचितो भगवा तत्थ गमने बहूनं विसेसाधिगमनं दिस्वा वीसतिसहस्सखीणासवपरिवुतो राजगहतो अतुरितचारिकावसेन कपिलवत्थुगामिमग्गं पटिपज्जि. थेरो इद्धिया कपिलवत्थुं गन्त्वा रञ्ञो पुरतो आकासे ठितोव अदिट्ठपुब्बवेसं दिस्वा रञ्ञा ‘‘कोसि त्व’’न्ति पुच्छितो ‘‘अमच्चपुत्तं तया भगवतो सन्तिकं पेसितं मं न जानासि, त्वं एवं पन जानाही’’ति दस्सेन्तो –

‘‘बुद्धस्स पुत्तोम्हि असय्हसाहिनो, अङ्गीरसस्सप्पटिमस्स तादिनो;

पितुपिता मय्हं तुवंसि सक्क, धम्मेन मे गोतम अय्यकोसी’’ति. (थेरगा. ५३६) –

गाथमाह.

तत्थ बुद्धस्स पुत्तोम्हीति सब्बञ्ञुबुद्धस्स ओरस्स पुत्तो अम्हि. असय्हसाहिनोति अभिसम्बोधितो पुब्बे ठपेत्वा महाबोधिसत्तं अञ्ञेहि सहितुं वहितुं असक्कुणेय्यत्ता असय्हस्स सकलस्स बोधिसम्भारस्स महाकारुणिकाधिकारस्स च सहनतो वहनतो, ततो परम्पि अञ्ञेहि सहितुं अभिभवितुं असक्कुणेय्यत्ता असय्हानं पञ्चन्नं मारानं सहनतो अभिभवनतो, आसयानुसयचरिताधिमुत्तिआदिविभागावबोधनेन यथारहं वेनेय्यानं दिट्ठधम्मिकसम्परायिकपरमत्थेहि अनुसासनीसङ्खातस्स अञ्ञेहि असय्हस्स बुद्धकिच्चस्स सहनतो, तत्थ वा साधुकारिभावतो असय्हसाहिनो. अङ्गीरसस्साति अङ्गीकतसीलादिसम्पत्तिकस्स. अङ्गमङ्गेहि निच्छरणकओभासस्साति अपरे. केचि पन ‘‘अङ्गीरसो, सिद्धत्थोति द्वे नामानि पितरायेव गहितानी’’ति वदन्ति. अप्पटिमस्साति अनूपमस्स. इट्ठानिट्ठेसु तादिलक्खणप्पत्तिया तादिनो. पितुपिता मय्हं तुवंसीति अरियजातिवसेन मय्हं पितु सम्मासम्बुद्धस्स लोकवोहारेन त्वं पिता असि. सक्काति जातिवसेन राजानं आलपति. धम्मेनाति सभावेन अरियजाति लोकियजातीति द्विन्नं जातीनं सभावसमोधानेन. गोतमाति राजानं गोत्तेन आलपति. अय्यकोसीति पितामहो असि. एत्थ च ‘‘बुद्धस्स पुत्तोम्ही’’तिआदिं वदन्तो थेरो अञ्ञं ब्याकासि.

एवं पन अत्तानं जानापेत्वा हट्ठतुट्ठेन रञ्ञा महारहे पल्लङ्के निसीदापेत्वा अत्तनो पटियादितस्स नानग्गरसभोजनस्स पत्तं पूरेत्वा दिन्ने गमनाकारं दस्सेसि. ‘‘कस्मा, भन्ते, गन्तुकामत्थ, भुञ्जथा’’ति च वुत्ते, ‘‘सत्थु सन्तिकं गन्त्वा भुञ्जिस्सामी’’ति. ‘‘कहं पन सत्था’’ति? ‘‘वीसतिसहस्सभिक्खुपरिवारो तुम्हाकं दस्सनत्थाय मग्गं पटिपन्नो’’ति. ‘‘तुम्हे इमं पिण्डपातं भुञ्जथ, अञ्ञं भगवतो हरिस्सथ. याव च मम पुत्तो इमं नगरं सम्पापुणाति, तावस्स इतो पिण्डपातं हरथा’’ति वुत्ते थेरो भत्तकिच्चं कत्वा रञ्ञो परिसाय च धम्मं कथेत्वा सत्थु आगमनतो पुरेतरमेव सकलराजनिवेसनं रतनत्तये अभिप्पसन्नं करोन्तो सब्बेसं पस्सन्तानंयेव सत्थु आहरितब्बभत्तपुण्णं पत्तं आकासे विस्सज्जेत्वा सयम्पि वेहासं अब्भुग्गन्त्वा पिण्डपातं उपनामेत्वा सत्थु हत्थे ठपेसि. सत्था तं पिण्डपातं परिभुञ्जि. एवं सट्ठियोजनमग्गे दिवसे दिवसे योजनं गच्छन्तस्स भगवतो राजगेहतोयेव पिण्डपातं आहरित्वा अदासि. अथ नं भगवा ‘‘अयं मय्हं पितुनो सकलनिवेसनं पसादेती’’ति ‘‘एतदग्गं, भिक्खवे, मम सावकानं कुलप्पसादकानं भिक्खूनं यदिदं काळुदायी’’ति (अ. नि. १.२१९, २२५) कुलप्पसादकानं अग्गट्ठाने ठपेसि.

४८-९. एवं सो कतपुञ्ञसम्भारानुरूपेन अरहत्तं पत्वा पत्तएतदग्गट्ठानो अत्तनो पुब्बकम्मं सरित्वा सोमनस्सवसेन पुब्बचरितापदानं पकासेन्तो पदुमुत्तरस्स बुद्धस्सातिआदिमाह. अद्धानं पटिपन्नस्साति अपररट्ठं गमनत्थाय दूरमग्गं पटिपज्जन्तस्स. चरतो चारिकं तदाति अन्तोमण्डलं मज्झेमण्डलं बहिमण्डलन्ति तीणि मण्डलानि तदा चारिकं चरतो चरन्तस्स पदुमुत्तरबुद्धस्स भगवतो सुफुल्लं सुट्ठु फुल्लं पबोधितं गय्ह गहेत्वा न केवलमेव पदुमं, उप्पलञ्च मल्लिकं विकसितं अहं गय्ह उभोहि हत्थेहि गहेत्वा पूरेसिन्ति सम्बन्धो. परमन्नं गहेत्वानाति परमं उत्तमं सेट्ठं मधुरं सब्बसुपक्कं सालिओदनं गहेत्वा सत्थुनो अदासिं भोजेसिन्ति अत्थो.

९७. सक्यानं नन्दिजननोति सक्यराजकुलानं भगवतो ञातीनं आरोहपरिणाहरूपयोब्बनवचनालपनसम्पत्तिया नन्दं तुट्ठिं जनेन्तो उप्पादेन्तो. ञातिबन्धु भविस्सतीति ञातो पाकटो बन्धु भविस्सति. सेसं सुविञ्ञेय्यमेवाति.

काळुदायित्थेरअपदानवण्णना समत्ता.