१. कुण्डधानत्थेरअपदानवण्णना
सत्ताहं पटिसल्लीनन्तिआदिकं आयस्मतो कुण्डधानत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले हंसवतीनगरे कुलगेहे निब्बत्तो वुत्तनयेन भगवन्तं उपसङ्कमित्वा धम्मं सुणन्तो सत्थारं एकं भिक्खुं पठमं सलाकं गण्हन्तानं अग्गट्ठाने ठपेन्तं दिस्वा तं ठानन्तरं पत्थेत्वा तदनुरूपं पुञ्ञं करोन्तो विचरि. सो एकदिवसं पदुमुत्तरस्स भगवतो निरोधसमापत्तितो वुट्ठाय निसिन्नस्स मनोसिलाचुण्णपिञ्जरं महन्तं कदलिफलकण्णिकं उपनेसि, तं भगवा पटिग्गहेत्वा परिभुञ्जि. सो तेन पुञ्ञकम्मेन एकादसक्खत्तुं देवेसु देवरज्जं कारेसि. चतुवीसतिवारे च राजा अहोसि चक्कवत्ती.
सो एवं अपरापरं पुञ्ञानि कत्वा देवमनुस्सेसु संसरन्तो कस्सपबुद्धकाले भुम्मदेवता हुत्वा निब्बत्ति. दीघायुकबुद्धानञ्च नाम न अन्वद्धमासिको उपोसथो होति. तथा हि विपस्सिस्स भगवतो छब्बस्सन्तरे छब्बस्सन्तरे उपोसथो अहोसि, कस्सपदसबलो पन छट्ठे छट्ठे मासे पातिमोक्खं ओसारेसि, तस्स पातिमोक्खस्स ओसारणकाले दिसावासिका द्वे सहायका भिक्खू ‘‘उपोसथं करिस्सामा’’ति गच्छन्ति. अयं भुम्मदेवता चिन्तेसि – ‘‘इमेसं द्विन्नं भिक्खूनं मेत्ति अतिविय दळ्हा, किं नु खो भेदके सति भिज्जेय्य, न भिज्जेय्या’’ति. तेसं ओकासं ओलोकयमाना तेसं अविदूरे गच्छति.
अथेको थेरो एकस्स हत्थे पत्तचीवरं दत्वा सरीरवळञ्जनत्थं उदकफासुकट्ठानं गन्त्वा धोतहत्थपादो हुत्वा गुम्बसमीपतो निक्खमति. भुम्मदेवता तस्स थेरस्स पच्छतो पच्छतो उत्तमरूपा इत्थी हुत्वा केसे विधुनित्वा संविधाय बन्धन्ती विय पिट्ठियं पंसुं पुञ्छमाना विय साटकं संविधाय निवासयमाना विय च हुत्वा थेरस्स पदानुपदिका हुत्वा गुम्बतो निक्खन्ता. एकमन्ते ठितो सहायकत्थेरो तं कारणं दिस्वाव दोमनस्सजातो ‘‘नट्ठो दानि मे इमिना भिक्खुना सद्धिं दीघरत्तानुगतो सिनेहो, सचाहं एवंविधभावं जानेय्यं, एत्तकं कालं इमिना सद्धिं विस्सासं न करेय्य’’न्ति चिन्तेत्वा आगच्छन्तंयेव नं ‘‘गण्हाहावुसो, तुय्हं पत्तचीवरं, तादिसेन पापेन सद्धिं एकमग्गेन न गच्छामी’’ति आह. तं कथं सुत्वा तस्स लज्जिभिक्खुनो हदयं तिखिणसत्तिं गहेत्वा विद्धं विय अहोसि. ततो नं आह – ‘‘आवुसो, किन्नामेतं वदसि, अहं एत्तकं कालं दुक्कटमत्तम्पि आपत्तिं न जानामि, त्वं पन मं अज्ज ‘पापो’ति वदसि, किं ते दिट्ठन्ति, किं अञ्ञेन दिट्ठेन, किं त्वं एवंविधेन अलङ्कतपटियत्तेन मातुगामेन सद्धिं एकट्ठाने हुत्वा निक्खन्तो’’ति? ‘‘नत्थेतं, आवुसो, मय्हं, नाहं एवरूपं मातुगामं पस्सामी’’ति तस्स यावततियं कथेन्तस्सापि इतरो थेरो कथं असद्दहित्वा अत्तना दिट्ठकारणंयेव भूतत्तं कत्वा गण्हन्तो तेन सद्धिं एकमग्गेन अगन्त्वा अञ्ञेन मग्गेन सत्थु सन्तिकं गतो. इतरोपि भिक्खु अञ्ञेन मग्गेन सत्थु सन्तिकंयेव गतो.
ततो भिक्खुसङ्घस्स उपोसथागारं पविसनवेलाय सो भिक्खु तं भिक्खुं उपोसथग्गे दिस्वा सञ्जानित्वा ‘‘इमस्मिं उपोसथग्गे एवरूपो नाम पापभिक्खु अत्थि, नाहं तेन सद्धिं उपोसथं करिस्सामी’’ति निक्खमित्वा बहि अट्ठासि. अथ भुम्मदेवता ‘‘भारियं मया कम्मं कत’’न्ति महल्लकउपासकवण्णेन तस्स सन्तिकं गन्त्वा – ‘‘कस्मा, भन्ते, अय्यो इमस्मिं ठाने ठितो’’ति आह. ‘‘उपासक, इमं उपोसथग्गं एको पापभिक्खु पविट्ठो, ‘अहं तेन सद्धिं उपोसथं न करोमी’ति बहि ठितोम्ही’’ति. ‘‘भन्ते, मा एवं गण्हथ, परिसुद्धसीलो एस भिक्खु, तुम्हेहि दिट्ठमातुगामो नाम अहं. मया तुम्हाकं वीमंसनत्थाय ‘दळ्हा नु खो इमेसं थेरानं मेत्ति, नो दळ्हा’ति भिज्जनाभिज्जनभावं ओलोकेन्तेन तं कम्मं कत’’न्ति. ‘‘को पन त्वं, सप्पुरिसा’’ति? ‘‘अहं एका भुम्मदेवता, भन्ते’’ति. देवपुत्तो कथेन्तोयेव दिब्बानुभावेन ठत्वा थेरस्स पादमूले पतित्वा ‘‘मय्हं, भन्ते, खमथ, थेरस्स एसो दोसो नत्थि, उपोसथं करोथा’’ति थेरं याचित्वा उपोसथग्गं पवेसेसि. सो थेरो उपोसथं ताव एकट्ठाने अकासि. मित्तसन्थववसेन पन पुन तेन सद्धिं न एकट्ठाने वसि. इमस्स थेरस्स दोसं न कथेसि. अपरभागे चुदितकत्थेरो पन विपस्सनाय कम्मं करोन्तो अरहत्तं पापुणि.
भुम्मदेवता तस्स कम्मस्स निस्सन्देन एकं बुद्धन्तरं अपायतो न मुच्चित्थ. सचे पन कालेन कालं मनुस्सत्तं आगच्छति, अञ्ञेन येन केनचि कतो दोसो तस्सेव उपरि पतति. सो अम्हाकं भगवतो उप्पन्नकाले सावत्थियं ब्राह्मणकुले निब्बत्ति, धानमाणवोतिस्स नामं अकंसु. सो वयप्पत्तो तयो वेदे उग्गण्हित्वा महल्लककाले सत्थु धम्मदेसनं सुत्वा पटिलद्धसद्धो सासने पब्बजि. तस्स उपसम्पन्नदिवसतो पट्ठाय एका अलङ्कतपटियत्ता इत्थी तस्मिं गामं पविसन्ते सद्धिंयेव पविसति, निक्खमन्ते निक्खमति, विहारं पविसन्तेपि सद्धिं पविसति, तिट्ठन्तेपि तिट्ठतीति एवं निच्चानुबन्धा पञ्ञायति. थेरो तं न पस्सति. तस्स पन पुरिमकम्मस्स निस्सन्देन सा अञ्ञेसं उपट्ठासि.
गामे यागुभिक्खं ददमाना इत्थियो, ‘‘भन्ते, अयं एको यागुउळुङ्को तुम्हाकं, एको इमिस्सा अम्हाकं सहायिकाया’’ति परिहासं करोन्ति. थेरस्स महती विहेसा होति. विहारगतम्पि नं सामणेरा चेव दहरभिक्खू च परिवारेत्वा ‘‘धानो कोण्डो जातो’’ति परिहासं करोन्ति. अथस्स तेनेव कारणेन कुण्डधानो थेरोति नामं जातं. सो उट्ठाय समुट्ठाय तेहि करियमानं केळिं सहितुं असक्कोन्तो उम्मादं गहेत्वा ‘‘तुम्हे कोण्डा, तुम्हाकं उपज्झायो कोण्डो, आचरियो कोण्डो’’ति वदति. अथ नं सत्थु आरोचेसुं – ‘‘कुण्डधानो, भन्ते, दहरसामणेरेहि सद्धिं एवं फरुसवाचं वदती’’ति. सत्था तं पक्कोसापेत्वा ‘‘सच्चं किर त्वं, धान, दहरसामणेरेहि सद्धिं फरुसवाचं वदसी’’ति पुच्छि. तेन ‘‘सच्चं भगवा’’ति वुत्ते – ‘‘कस्मा एवं वदसी’’ति आह. ‘‘भन्ते, निबद्धं विहेसं सहितुं असक्कोन्तो एवं कथेमी’’ति. ‘‘त्वं पुब्बे कतकम्मं यावज्जदिवसा जीरापेतुं न सक्कोसि, पुन एवं फरुसवाचं मा वद भिक्खू’’ति वत्वा आह –
‘‘मावोच फरुसं कञ्चि, वुत्ता पटिवदेय्यु तं;
दुक्खा हि सारम्भकथा, पटिदण्डा फुसेय्यु तं.
‘‘सचे नेरेसि अत्तानं, कंसो उपहतो यथा;
एस पत्तोसि निब्बानं, सारम्भो ते न विज्जती’’ति. (ध. प. १३३-१३४) –
इमञ्च पन तस्स थेरस्स मातुगामेन सद्धिं विचरणभावं कोसलरञ्ञोपि कथयिंसु. राजा ‘‘गच्छथ, भणे, नं वीमंसथा’’ति पेसेत्वा सयम्पि मन्देनेव परिवारेन सद्धिं थेरस्स सन्तिकं गन्त्वा एकमन्ते ओलोकेन्तो अट्ठासि. तस्मिं खणे थेरो सूचिकम्मं करोन्तो निसिन्नो होति. सापि इत्थी अविदूरे ठाने ठिता विय पञ्ञायति.
राजा तं दिस्वा ‘‘अत्थि तं कारण’’न्ति तस्सा ठितट्ठानं अगमासि. सा तस्मिं आगच्छन्ते थेरस्स वसनपण्णसालं पविट्ठा विय अहोसि. राजापि ताय सद्धिं एव पण्णसालायं पविसित्वा सब्बत्थ ओलोकेन्तो अदिस्वा ‘‘नायं मातुगामो, थेरस्स एको कम्मविपाको’’ति सञ्ञं कत्वा पठमं थेरस्स समीपेन गच्छन्तोपि थेरं अवन्दित्वा तस्स कारणस्स अभूतभावं ञत्वा पण्णसालतो निक्खमित्वा थेरं वन्दित्वा एकमन्ते निसिन्नो ‘‘कच्चि, भन्ते, पिण्डकेन न किलमथा’’ति पुच्छि. थेरो ‘‘वट्टति, महाराजा’’ति आह. ‘‘जानामहं, भन्ते, अय्यस्स कथं, एवरूपेनुपक्किलेसेन सद्धिं चरन्तानं तुम्हाकं के नाम पसीदिस्सन्ति, इतो पट्ठाय वो कत्थचि गमनकिच्चं नत्थि. अहं चतूहि पच्चयेहि उपट्ठहिस्सामि, तुम्हे योनिसोमनसिकारे मा पमज्जित्था’’ति वत्वा निबद्धभिक्खं पट्ठपेसि. थेरो राजानं उपत्थम्भकं लभित्वा भोजनसप्पायेन एकग्गचित्तो हुत्वा विपस्सनं वड्ढेत्वा अरहत्तं पापुणि. ततो पट्ठाय सा इत्थी अन्तरधायि.
तदा महासुभद्दा उग्गनगरे मिच्छादिट्ठिकुले वसमाना ‘‘सत्था मं अनुकम्पतू’’ति उपोसथङ्गं अधिट्ठाय निरामगन्धा हुत्वा उपरिपासादतले ठिता ‘‘इमानि पुप्फानि अन्तरे अट्ठत्वा दसबलस्स मत्थके वितानं हुत्वा तिट्ठन्तु, दसबलो इमाय सञ्ञाय स्वे पञ्चहि भिक्खुसतेहि सद्धिं मय्हं भिक्खं गण्हतू’’ति सच्चकिरियं कत्वा अट्ठ सुमनपुप्फमुट्ठियो विस्सज्जेसि. पुप्फानि गन्त्वा धम्मदेसनावेलाय सत्थु मत्थके वितानं हुत्वा अट्ठंसु. सत्था तं सुमनपुप्फवितानं दिस्वा चित्तेनेव सुभद्दाय भिक्खं अधिवासेत्वा पुनदिवसे अरुणे उट्ठिते आनन्दत्थेरं आह – ‘‘आनन्द, मयं अज्ज दूरं भिक्खाचारं गमिस्साम, पुथुज्जनानं अदत्वा अरियानंयेव सलाकं देही’’ति. थेरो भिक्खूनं आरोचेसि – ‘‘आवुसो, सत्था अज्ज दूरं भिक्खाचारं गमिस्सति. पुथुज्जना मा गण्हन्तु, अरियाव सलाकं गण्हन्तू’’ति. कुण्डधानत्थेरो – ‘‘आहरावुसो, सलाक’’न्ति पठमंयेव हत्थं पसारेसि. आनन्दो ‘‘सत्था तादिसानं भिक्खूनं सलाकं न दापेति, अरियानंयेव दापेती’’ति वितक्कं उप्पादेत्वा गन्त्वा सत्थु आरोचेसि. सत्था ‘‘आहरापेन्तस्स सलाकं देही’’ति आह. थेरो चिन्तेसि – ‘‘सचे कुण्डधानस्स सलाका दातुं न युत्ता, अथ सत्था पटिबाहेय्य, भविस्सति एत्थ कारण’’न्ति ‘‘कुण्डधानस्स सलाकं दस्सामी’’ति गमनं अभिनीहरि. कुण्डधानो तस्स पुरागमना एव अभिञ्ञापादकं चतुत्थज्झानं समापज्जित्वा इद्धिया आकासे ठत्वा ‘‘आहरावुसो आनन्द, सत्था मं जानाति, मादिसं भिक्खुं पठमं सलाकं गण्हन्तं न सत्था वारेती’’ति हत्थं पसारेत्वा सलाकं गण्हि. सत्था तं अट्ठुप्पत्तिं कत्वा थेरं इमस्मिं सासने पठमं सलाकं गण्हन्तानं अग्गट्ठाने ठपेसि. यस्मा अयं थेरो राजानं उपत्थम्भं लभित्वा सप्पायाहारपटिलाभेन समाहितचित्तो विपस्सनाय कम्मं करोन्तो उपनिस्सयसम्पन्नताय छळभिञ्ञो अहोसि. एवंभूतस्सापि इमस्स थेरस्स गुणे अजानन्ता ये पुथुज्जना भिक्खू ‘‘अयं पठमं सलाकं गण्हति, किं नु खो एत’’न्ति विमतिं उप्पादेन्ति. तेसं तं विमतिविधमनत्थं थेरो आकासं अब्भुग्गन्त्वा इद्धिपाटिहारियं दस्सेत्वा अञ्ञापदेसेन अञ्ञं ब्याकरोन्तो ‘‘पञ्च छिन्दे’’ति गाथं अभासि.
१. एवं सो पूरितपुञ्ञसम्भारानुरूपेन अरहा हुत्वा पत्तएतदग्गट्ठानो अत्तनो पुब्बकम्मं सरित्वा सोमनस्सवसेन पुब्बचरितापदानं पकासेन्तो सत्ताहं पटिसल्लीनन्तिआदिमाह. तत्थ सत्थाहं सत्तदिवसं निरोधसमापत्तिविहारेन पटिसल्लीनं विवेकभूतन्ति अत्थो. सेसं उत्तानत्थमेवाति.
कुण्डधानत्थेरअपदानवण्णना समत्ता.