२. सागतत्थेरअपदानवण्णना

सोभितो नाम नामेनातिआदिकं आयस्मतो सागतत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले एकस्मिं ब्राह्मणकुले निब्बत्तो सब्बसिप्पेसु निप्फत्तिं पत्तो नामेन सोभितो नाम हुत्वा तिण्णं वेदानं पारगू सनिघण्डुकेटुभानं साक्खरप्पभेदानं इतिहासपञ्चमानं पदको वेय्याकरणो लोकायतमहापुरिसलक्खणेसु अनवयो. सो एकदिवसं पदुमुत्तरं भगवन्तं द्वत्तिंसमहापुरिसलक्खणसिरिया सोभमानं उय्यानद्वारेन गच्छन्तं दिस्वा अतीव पसन्नमानसो अनेकेहि उपायेहि अनेकेहि गुणवण्णेहि थोमनं अकासि. भगवा तस्स थोमनं सुत्वा ‘‘अनागते गोतमस्स भगवतो सासने सागतो नाम सावको भविस्सती’’ति ब्याकरणं अदासि. सो ततो पट्ठाय पुञ्ञानि करोन्तो यावतायुकं ठत्वा ततो चुतो देवलोके निब्बत्तो. कप्पसतसहस्सदेवमनुस्सेसु उभयसम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे एकस्मिं कुलगेहे निब्बत्तो. तस्स मातापितरो सोमनस्सं वड्ढेन्तो सुजातो आगतोति सागतोति नामं करिंसु. सो सासने पसीदित्वा पब्बजित्वा विपस्सनं वड्ढेत्वा अरहत्तं पत्तो.

१७. एवं सो पुञ्ञसम्भारानुरूपेन पत्तअरहत्तफलो अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो सोभितो नाम नामेनातिआदिमाह. तत्थ तदा पुञ्ञसम्भारस्स परिपूरणसमये नामेन सोभितो नाम ब्राह्मणो अहोसिन्ति सम्बन्धो.

२१. विपथा उद्धरित्वानाति विरुद्धपथा कुमग्गा, उप्पथा वा उद्धरित्वा अपनेत्वा. पथं आचिक्खसेति, भन्ते, सब्बञ्ञु तुवं पथं सप्पुरिसमग्गं निब्बानाधिगमनुपायं आचिक्खसे कथेसि देसेसि विभजि उत्तानिं अकासीति अत्थो. सेसं उत्तानत्थमेवाति.

सागतत्थेरअपदानवण्णना समत्ता.