४. पञ्चसीलसमादानियत्थेरअपदानवण्णना
नगरे चन्दवतियातिआदिकं आयस्मतो पञ्चसीलसमादानियत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो अनोमदस्सिस्स भगवतो काले एकस्मिं कुले निब्बत्तो पुरिमभवे कताकुसलकम्मानुरूपेन दलिद्दो हुत्वा अप्पन्नपानभोजनो परेसं भतिं कत्वा जीवन्तो संसारे आदीनवं ञत्वा पब्बजितुकामोपि पब्बज्जं अलभमानो अनोमदस्सिस्स भगवतो सावकस्स निसभत्थेरस्स सन्तिके पञ्च सिक्खापदानि समादियि. दीघायुककाले उप्पन्नत्ता वस्ससतसहस्सानि सीलं परिपालेसि. तेन कम्मेन सो देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे वेसालियं महाभोगकुले निब्बत्तो. मातापितरो सीलं समादियन्ते दिस्वा अत्तनो सीलं सरित्वा विपस्सनं वड्ढेत्वा अरहत्तं पत्वा पब्बजि.
१३४. सो अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो उदानवसेन पुब्बचरितापदानं पकासेन्तो नगरे चन्दवतियातिआदिमाह. भतको आसहं तदाति तदा मम पुञ्ञकरणकाले अहं भतको भतिया कम्मकारको आसिं अहोसिं. परकम्मायने युत्तोति भतिया परेसं कम्मकरणे आयुत्तो योजितो ओकासाभावेन संसारतो मुच्चनत्थाय अहं पब्बज्जं न लभामि.
१३५. महन्धकारपिहिताति महन्तेहि किलेसन्धकारेहि पिहिता संवुता थकिता. तिविधग्गीहि डय्हरेति नरकग्गिपेतग्गिसंसारग्गिसङ्खातेहि तीहि अग्गीहि डय्हन्ति. अहं पन केन उपायेन केन कारणेन विसंयुत्तो भवेय्यन्ति अत्थो.
१३६. देय्यधम्मो अन्नपानादिदातब्बयुत्तकं वत्थु मय्हं नत्थि, तस्साभावेन अहं वराको दुक्खितो भतको भतिया जीवनको यंनूनाहं पञ्चसीलं रक्खेय्यं परिपूरयन्ति पञ्चसीलं समादियित्वा परिपूरेन्तो यंनून रक्खेय्यं साधुकं भद्दकं सुन्दरं कत्वा परिपालेय्यन्ति अत्थो.
१४८. स्वाहं यसमनुभविन्ति सो अहं देवमनुस्सेसु महन्तं यसं अनुभविं तेसं सीलानं वाहसा आनुभावेनाति अत्थो. कप्पकोटिम्पि तेसं सीलानं फलं कित्तेन्तो एककोट्ठासमेव कित्तये पाकटं करेय्यन्ति अत्थो. सेसं सुविञ्ञेय्यमेवाति.
पञ्चसीलसमादानियत्थेरअपदानवण्णना समत्ता.