६. मग्गदत्तिकत्थेरअपदानवण्णना
अनोमदस्सी भगवातिआदिकं आयस्मतो मग्गदत्तिकत्थेरस्स अपदानं. अयम्पायस्मा पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो अनोमदस्सिस्स भगवतो काले कुलगेहे निब्बत्तो वुद्धिमन्वाय घरावासं सण्ठपेत्वा वसन्तो अनोमदस्सिं भगवन्तं आकासे चङ्कमन्तं पादुद्धारे पादुद्धारचङ्कमनट्ठाने पुप्फानं विकिरणं अच्छरियञ्च दिस्वा पसन्नमानसो पुप्फानि आकासे उक्खिपि, तानि वितानं हुत्वा अट्ठंसु.
२६. सो तेन पुञ्ञेन सुगतीसुयेव संसरन्तो सब्बत्थ पूजितो सुखं अनुभवित्वा इमस्मिं बुद्धुप्पादे एकस्मिं कुले निब्बत्तो कमेन योब्बञ्ञं पापुणित्वा सद्धाजातो पब्बजित्वा वत्तसम्पन्नो नचिरस्सेव अरहत्तं पत्तो चङ्कमनस्स पूजितत्ता मग्गदत्तिकत्थेरोति पाकटो. सो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो अनोमदस्सी भगवातिआदिमाह. दिट्ठधम्मसुखत्थायाति इमस्मिं अत्तभावे चङ्कमनेन सरीरसल्लहुकादिसुखं पटिच्चाति अत्थो. अब्भोकासम्हि चङ्कमीति अब्भोकासे अङ्गणट्ठाने चङ्कमि, पदविक्खेपं पदसञ्चारं अकासीति अत्थो.
उद्धते पादे पुप्फानीति चङ्कमन्तेन पादे उद्धते पदुमुप्पलादीनि पुप्फानि पथवितो उग्गन्त्वा चङ्कमे विकिरिंसूति अत्थो. सोभं मुद्धनि तिट्ठरेति बुद्धस्स मुद्धनि सीसे सोभयमाना तानि तिट्ठन्तीति अत्थो. सेसं सुविञ्ञेय्यमेवाति.
मग्गदत्तिकत्थेरअपदानवण्णना समत्ता.