७. एकदीपियत्थेरअपदानवण्णना

पदुमुत्तरस्स मुनिनोतिआदिकं आयस्मतो एकदीपियत्थेरस्स अपदानं. अयम्पायस्मा पुरिमजिनसेट्ठेसु कतकुसलसम्भारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले गहपतिकुले निब्बत्तो वुद्धिप्पत्तो सद्धो पसन्नो भगवतो सललमहाबोधिम्हि एकपदीपं पूजेसि, थावरं कत्वा निच्चमेकपदीपपूजनत्थाय तेलवट्टं पट्ठपेसि. सो तेन पुञ्ञेन देवमनुस्सेसु संसरन्तो सब्बत्थ जलमानो पसन्नचक्खुको उभयसुखमनुभवित्वा इमस्मिं बुद्धुप्पादे सावत्थियं विभवसम्पन्ने एकस्मिं कुले निब्बत्तो विञ्ञुतं पत्तो रतनत्तये पसन्नो पब्बजित्वा नचिरस्सेव अरहत्तं पत्तो दीपपूजाय लद्धविसेसाधिगमत्ता एकदीपियत्थेरोति पाकटो.

३०. सो अपरभागे अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो पदुमुत्तरस्स मुनिनोतिआदिमाह. तं सब्बं उत्तानत्थमेवाति.

एकदीपियत्थेरअपदानवण्णना समत्ता.