८. फलकदायकत्थेरअपदानवण्णना
यानकारो पुरे आसिन्तिआदिकं आयस्मतो फलकदायकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो अनेकेसु अत्तभावेसु कतपुञ्ञसम्भारो सिद्धत्थस्स भगवतो काले वड्ढकिकुले निब्बत्तो रतनत्तये पसन्नो चन्दनेन आलम्बनफलकं कत्वा भगवतो अदासि. भगवा तस्सानुमोदनं अकासि.
३७. सो तेन पुञ्ञेन देवमनुस्सेसु संसरन्तो सब्बत्थ काले चित्तसुखपीणितो उभयसम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे कुलगेहे निब्बत्तो विञ्ञुतं पत्वा सत्थु धम्मदेसनं सुत्वा सञ्जातप्पसादो पब्बजित्वा वायमन्तो नचिरस्सेव सह पटिसम्भिदाहि अरहत्तं पत्वा अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो यानकारो पुरे आसिन्तिआदिमाह. तत्थ यानकारोति यन्ति एतेन इच्छितिच्छितट्ठानन्ति यानं, तं करोतीति यानकारो, पुरे बुद्धदस्सनसमये अहं यानकारो आसिं अहोसिन्ति अत्थो. चन्दनं फलकं कत्वाति चन्दति परिळाहं वूपसमेतीति चन्दनं. अथ वा चन्दन्ति सुगन्धवासनत्थं सरीरं विलिम्पन्ति एतेनाति चन्दनं, तं आलम्बनफलकं कत्वा. लोकबन्धुनोति सकललोकस्स बन्धु ञातिभूतोति लोकबन्धु, तस्स लोकबन्धुनो सत्थुस्स अदासिन्ति अत्थो. सेसं सुविञ्ञेय्यमेवाति.
फलकदायकत्थेरअपदानवण्णना समत्ता.