७. मग्गदायकत्थेरअपदानवण्णना
उत्तरित्वान नदिकन्तिआदिकं आयस्मतो मग्गदायकत्थेरस्स अपदानं. अयम्पि पुरिमजिनवरेसु कताधिकारो अनेकेसु भवेसु निब्बानाधिगमत्थाय पुञ्ञानि उपचिनन्तो सिद्धत्थस्स भगवतो काले लोकसम्मते कुले निब्बत्तो वुद्धिमन्वाय घरावासं वसन्तो एकदिवसं भगवन्तं एकं नदिं उत्तरित्वा वनन्तरं गच्छन्तं दिस्वा पसन्नमानसो ‘‘इदानि मया भगवतो मग्गं समं कातुं वट्टती’’ति चिन्तेत्वा कुदालञ्च पिटकञ्च आदाय भगवतो गमनमग्गं समं कत्वा वालुकं ओकिरित्वा भगवतो पादे वन्दित्वा, ‘‘भन्ते, इमिना मग्गालङ्कारकरणेन निब्बत्तनिब्बत्तट्ठाने पूजनीयो भवेय्यं, निब्बानञ्च पापुणेय्य’’न्ति पत्थनं अकासि. भगवा ‘‘यथाधिप्पायं समिज्झतू’’ति अनुमोदनं वत्वा पक्कामि.
३२-३. सो तेन पुञ्ञेन देवमनुस्सेसु संसरन्तो सब्बत्थ पूजितो अहोसि. इमस्मिं पन बुद्धुप्पादे पाकटे एकस्मिं कुले निब्बत्तो सत्थरि पसन्नो पब्बजित्वा विपस्सनं वड्ढेत्वा नचिरस्सेव अरहत्तं पत्वा अत्तनो पुब्बकम्मं पच्चक्खतो ञत्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो उत्तरित्वान नदिकन्तिआदिमाह. तत्थ नदति सद्दं करोति गच्छतीति नदी, नदीयेव नदिका, तं नदिकं उत्तरित्वा अतिक्कमित्वाति अत्थो. कुदालपिटकमादायाति कु वुच्चति पथवी, तं विदालने पदालने छिन्दने अलन्ति कुदालं, पिटकं वुच्चति पंसुवालिकादिवाहकं, तालपण्णवेत्तलतादीहि कतभाजनं, कुदालञ्च पिटकञ्च कुदालपिटकं, तं आदाय गहेत्वाति अत्थो. सेसं उत्तानत्थमेवाति.
मग्गदायकत्थेरअपदानवण्णना समत्ता.