५. उमापुप्फियत्थेरअपदानवण्णना
निब्बुते लोकमहितेतिआदिकं आयस्मतो उमापुप्फियत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो सिद्धत्थस्स भगवतो काले कुलगेहे निब्बत्तो वुद्धिप्पत्तो घरावासं सण्ठपेत्वा वसन्तो निब्बुतस्स भगवतो चेतियमहे वत्तमाने इन्दनीलमणिवण्णं उमापुप्फं गहेत्वा पूजेसि. सो तेन पुञ्ञेन सुगतीसुयेव संसरन्तो दिब्बमानुससम्पत्तियो अनुभवित्वा उप्पन्नुप्पन्नभवे बहुलं नीलवण्णो जातिसम्पन्नो विभवसम्पन्नो अहोसि. सो इमस्मिं बुद्धुप्पादे विभवसम्पन्ने एकस्मिं कुलगेहे निब्बत्तो विञ्ञुतं पत्वा सद्धाजातो पब्बजितो नचिरस्सेव अरहत्तं पापुणि.
२१. सो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो निब्बुते लोकमहितेतिआदि वुत्तं. तत्थ लोकमहितेति लोकेहि महितो पूजितोति लोकमहितो, तस्मिं लोकमहिते सिद्धत्थम्हि भगवति परिनिब्बुतेति सम्बन्धो. आहुतीनंपटिग्गहेति आहुतिनो वुच्चन्ति पूजासक्कारा, तेसं आहुतीनं पटिग्गहेतुं अरहतीति आहुतीनंपटिग्गहो, अलुत्तकितन्तसमासो, तस्मिं आहुतीनंपटिग्गहे भगवति परिनिब्बुतेति अत्थो.
२२. उमापुप्फन्ति उद्धमुद्धं नीलपभं मुञ्चमानं पुप्फति विकसतीति उमापुप्फं, तं उमापुप्फं गहेत्वा चेतिये पूजं अकासिन्ति अत्थो. सेसं उत्तानत्थमेवाति.
उमापुप्फियत्थेरअपदानवण्णना समत्ता.