४. सपरिवारियत्थेरअपदानवण्णना

पदुमुत्तरो नाम जिनोतिआदिकं आयस्मतो सपरिवारियत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो अनेकासु जातीसु विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले कुलगेहे निब्बत्तो विञ्ञुतं पत्तो महद्धनो महाभोगो अहोसि. अथ पदुमुत्तरे भगवति परिनिब्बुते महाजनो तस्स धातुं निदहित्वा महन्तं चेतियं कारेत्वा पूजेसि. तस्मिं काले अयं उपासको तस्सुपरि चन्दनसारेन चेतियघरं करित्वा महापूजं अकासि. सो तेनेव पुञ्ञेन देवमनुस्सेसु संसरन्तो उभयसम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे एकस्मिं कुलगेहे निब्बत्तो वुद्धिमन्वाय कुसलं कत्वा सद्धाय सासने पब्बजित्वा नचिरस्सेव अरहा अहोसि.

१५-८. सो अपरभागे अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो पदुमुत्तरो नाम जिनोतिआदिमाह. तत्थ ओमत्तन्ति लामकभावं नीचभावं दुक्खितभावं वा न पस्सामि न जानामि, न दिट्ठपुब्बो मया नीचभावोति अत्थो. सेसं पाकटमेवाति.

सपरिवारियत्थेरअपदानवण्णना समत्ता.