८. ञाणसञ्ञिकत्थेरअपदानवण्णना
पब्बते हिमवन्तम्हीतिआदिकं आयस्मतो ञाणसञ्ञिकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तस्मिं तस्मिं उप्पन्नुप्पन्ने भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो विपस्सिस्स भगवतो काले कुलगेहे निब्बत्तो वुद्धिप्पत्तो घरावासं पहाय तापसपब्बज्जं पब्बजित्वा हिमवन्तस्स अविदूरे पब्बतन्तरे पण्णसालं कारेत्वा पञ्चाभिञ्ञाअट्ठसमापत्तियो निब्बत्तेत्वा वसन्तो एकदिवसं परिसुद्धं पण्डरं पुलिनतलं दिस्वा ‘‘ईदिसा परिसुद्धा बुद्धा, ईदिसंव परिसुद्धं बुद्धञाण’’न्ति बुद्धञ्च तस्स ञाणञ्च अनुस्सरि थोमेसि च.
८४. सो तेन पुञ्ञेन देवमनुस्सेसु संसरन्तो उभयसम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे एकस्मिं कुलगेहे निब्बत्तो विञ्ञुतं पत्वा सासने पब्बजित्वा नचिरस्सेव अरहत्तं पत्तो पुब्बे कतपुञ्ञं अनुस्सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो ‘‘पब्बते हिमवन्तम्ही’’तिआदिमाह. पुलिनं सोभनं दिस्वाति परिपुण्णकतं विय पुलाकारेन परिसोधिताकारेन पवत्तं ठितन्ति पुलिनं, सोभनं वालुकं दिस्वा सेट्ठं बुद्धं अनुस्सरिन्ति अत्थो. सेसं सुविञ्ञेय्यमेवाति.
ञाणसञ्ञिकत्थेरअपदानवण्णना समत्ता.