७. फलदायकत्थेरअपदानवण्णना
अज्झायको मन्तधरोतिआदिकं आयस्मतो फलदायकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो अनेकेसु भवेसु विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले ब्राह्मणकुले निब्बत्तो विञ्ञुतं पत्वा वेदत्तयादिसकसिप्पेसु पारप्पत्तो अनेकेसं ब्राह्मणसहस्सानिं पामोक्खो आचरियो सकसिप्पानं परियोसानं अदिस्वा तत्थ च सारं अपस्सन्तो घरावासं पहाय इसिपब्बज्जं पब्बजित्वा हिमवन्तस्स अविदूरे अस्समं कारेत्वा सह सिस्सेहि वासं कप्पेसि, तस्मिं समये पदुमुत्तरो भगवा भिक्खाय चरमानो तस्सानुकम्पाय तं पदेसं सम्पापुणि. तापसो भगवन्तं दिस्वा पसन्नमानसो अत्तनो अत्थाय पुटके निक्खिपित्वा रुक्खग्गे लग्गितानि मधुरानि पदुमफलानि मधुना सह अदासि. भगवा तस्स सोमनस्सुप्पादनत्थं पस्सन्तस्सेव परिभुञ्जित्वा आकासे ठितो फलदानानिसंसं कथेत्वा पक्कामि.
७५. सो तेन पुञ्ञेन देवमनुस्सेसु संसरन्तो उभयसम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे विभवसम्पन्ने एकस्मिं कुलगेहे निब्बत्तो सत्तवस्सिकोयेव अरहत्तं पत्वा पुब्बे कतकुसलकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो अज्झायको मन्तधरोतिआदिमाह. तत्थ अज्झेति चिन्तेतीति अज्झायि, अज्झायियेव अज्झायको. एत्थ हि अकारो ‘‘पटिसेधे वुद्धितब्भावे…पे… अकारो विरहप्पके’’ति एवं वुत्तेसु दससु अत्थेसु तब्भावे वत्तति. सिस्सानं सवनधारणादिवसेन हितं अज्झेति चिन्तेति सज्झायं करोतीति अज्झायको, चिन्तकोति अत्थो. आचरियस्स सन्तिके उग्गहितं सब्बं मन्तं मनेन धारेति पवत्तेतीति मन्तधरो. तिण्णं वेदान पारगूति वेदं वुच्चति ञाणं, वेदेन वेदितब्बा बुज्झितब्बाति वेदा, इरुवेदयजुवेदसामवेदसङ्खाता तयो गन्था, तेसं वेदानं पारं परियोसानं कोटिं गतो पत्तोति पारगू. सेसं पाकटमेवाति
फलदायकत्थेरअपदानवण्णना समत्ता.