६. कुसुमासनियत्थेरअपदानवण्णना

नगरे धञ्ञवतियातिआदिकं आयस्मतो कुसुमासनियत्थेरस्स अपदानं. अयम्पि पुरिमजिनवरेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो विपस्सिस्स भगवतो काले ब्राह्मणकुले निब्बत्तो विञ्ञुतं पत्तो महद्धनो महाभोगो तिण्णं वेदानं पारं गतो ब्राह्मणसिप्पेसु कोटिप्पत्तो सकपरसमयकुसलो मातापितरो पूजेतुकामो पञ्च उप्पलकलापे अत्तनो समीपे ठपेत्वा निसिन्नो भिक्खुसङ्घपरिवुतं विपस्सिं भगवन्तं आगच्छन्तं दिस्वा नीलपीतादिघनबुद्धरस्मियो च दिस्वा पसन्नमानसो आसनं पञ्ञापेत्वा तत्थ तानि पुप्फानि सन्थरित्वा भगवन्तं तत्थ निसीदापेत्वा सकघरे मातु अत्थाय पटियत्तानि सब्बानि खादनीयभोजनीयानि गहेत्वा सपरिवारं भगवन्तं सहत्थेन सन्तप्पेन्तो भोजेसि. भोजनावसाने एकं उप्पलहत्थं अदासि. तेन सोमनस्सजातो पत्थनं अकासि. भगवापि अनुमोदनं कत्वा पकामि. सो तेन पुञ्ञेन देवमनुस्सेसु द्वे सम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे सावत्थियं विभवसम्पन्ने एकस्मिं कुले निब्बत्तो विञ्ञुतं पत्तो भोगयसेहि वड्ढितो कामेसु आदीनवं दिस्वा घरावासं पहाय पब्बजितो नचिरस्सेव अरहा अहोसि.

६५. सो अपरभागे पुब्बे कतकुसलं पुब्बेनिवासञाणेन सरित्वा सोमनस्सप्पत्तो पुब्बचरितापदानं पकासेन्तो नगरे धञ्ञवतियातिआदिमाह. धञ्ञानं पुञ्ञवन्तानं खत्तियब्राह्मणगहपतिमहासालानं अनेकेसं कुलानं आकरत्ता धञ्ञवती, अथ वा मुत्तामणिआदिसत्तरतनानं सत्तविधधञ्ञानं उपभोगपरिभोगानं आकरत्ता धञ्ञवती, अथ वा धञ्ञानं बुद्धपच्चेकबुद्धखीणासवानं वसनट्ठानं आरामविहारादीनं आकरत्ता धञ्ञवती, तस्सा धञ्ञवतिया. नगरन्ति पत्थेन्ति एत्थ उपभोगपरिभोगत्थिका जनाति नगरं, न गच्छतीति वा नगं, राजयुवराजमहामत्तादीनं वसनट्ठानं. नगं राति आददाति गण्हातीति नगरं, राजादीनं वसनट्ठानसमूहभूतं पाकारपरिखादीहि परिक्खित्तं परिच्छिन्नट्ठानं नगरं नामाति अत्थो. नगरे यदा अहं विपस्सिस्स भगवतो सन्तिके ब्याकरणं अलभिं, तदा तस्मिं धञ्ञवतिया नगरे ब्राह्मणो अहोसिन्ति सम्बन्धो. सेसं सब्बत्थ उत्तानमेवाति.

कुसुमासनियत्थेरअपदानवण्णना समत्ता.