१. सेरेय्यकत्थेरअपदानवण्णना

अज्झायको मन्तधरोतिआदिकं आयस्मतो सेरेय्यकत्थेरस्स अपदानं. अयम्पि पुरिमजिनवरेसु कताधिकारो ततो परेसु अत्तभावसहस्सेसु विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो विपस्सिस्स भगवतो काले ब्राह्मणकुले निब्बत्तो विञ्ञुतं पत्वा तिण्णं वेदानं पारं गन्त्वा इतिहासादिसकलब्राह्मणधम्मेसु कोटिप्पत्तो एकस्मिं दिवसे अब्भोकासे सपरिवारो ठितो भगवन्तं दिस्वा पसन्नमानसो सेरेय्यपुप्फं गहेत्वा आकासे खिपन्तो पूजेसि. तानि पुप्फानि आकासे वितानं हुत्वा सत्ताहं ठत्वा पच्छा अन्तरधायिंसु. सो तं अच्छरियं दिस्वा अतीव पसन्नमानसो तेनेव पीतिसोमनस्सेन कालं कत्वा तुसितादीसु निब्बत्तो तत्थ दिब्बसुखमनुभवित्वा ततो मनुस्ससुखमनुभवित्वा इमस्मिं बुद्धुप्पादे एकस्मिं कुलगेहे निब्बत्तो विञ्ञुतं पापुणित्वा पुब्बवासनाबलेन सत्थरि पसन्नो पब्बजित्वा नचिरस्सेव अरहा अहोसि.

१. सो अपरभागे पुराकतकुसलं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो अज्झायको मन्तधरोतिआदिमाह. तं हेट्ठा वुत्तत्थमेव.

३. सेरेय्यकं गहेत्वानाति सिरिसे भवं जातिपुप्फं सेरेय्यं, सेरेय्यमेव सेरेय्यकं, तं सेरेय्यकं गहेत्वानाति सम्बन्धो. भगवति पसन्नो जातिसुमनमकुळचम्पकादीनि पुप्फानि पतिट्ठपेत्वा पूजेतुं कालं नत्थिताय तत्थ सम्पत्तं तं सेरेय्यकं पुप्फं गहेत्वा पूजेसिन्ति अत्थो. सेसं सब्बत्थ उत्तानमेवाति.

सेरेय्यकत्थेरअपदानवण्णना समत्ता.