२. पुप्फथूपियत्थेरअपदानवण्णना
हिमवन्तस्साविदूरेतिआदिकं आयस्मतो पुप्फथूपियत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो विपस्सिबुद्धस्स भगवतो काले ब्राह्मणकुले निब्बत्तो विञ्ञुतं पत्वा सकसिप्पे निप्फत्तिं पत्तो तत्थ सारं अपस्सन्तो गेहं पहाय हिमवन्तं पविसित्वा अत्तना सहगतेहि पञ्चसिस्ससहस्सेहि सद्धिं पञ्चाभिञ्ञा अट्ठ समापत्तियो निब्बत्तेत्वा कुक्कुरनामपब्बतसमीपे पण्णसालं कारेत्वा पटिवसति. तदा बुद्धुप्पादभावं सुत्वा सिस्सेहि सह बुद्धस्स सन्तिकं गन्तुकामो केनचि ब्याधिना पीळितो पण्णसालं पविसित्वा सिस्ससन्तिका बुद्धस्सानुभावं लक्खणञ्च सुत्वा पसन्नमानसो हिमवन्ततो चम्पकासोकतिलककेटकाद्यनेके पुप्फे आहरापेत्वा थूपं कत्वा बुद्धं विय पूजेत्वा कालं कत्वा ब्रह्मलोकूपगो अहोसि. अथ ते सिस्सा तस्स आळहनं कत्वा बुद्धसन्तिकं गन्त्वा तं पवत्तिं आरोचेसुं. अथ भगवा बुद्धचक्खुना ओलोकेत्वा अनागतंसञाणेन पाकटीकरणमकासि. सो अपरभागे इमस्मिं बुद्धुप्पादे सावत्थियं कुलगेहे निब्बत्तो विञ्ञुतं पत्तो पुब्बवासनाबलेन सत्थरि पसन्नो पब्बजित्वा नचिरस्सेव अरहा अहोसि.
१०. अथ सो अत्तनो पुब्बकुसलं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो हिमवन्तस्साविदूरेतिआदिमाह. तं हेट्ठा वुत्तत्थमेव. कुक्कुरो नाम पब्बतोति पब्बतस्स सिखरं कुक्कुराकारेन सुनखाकारेन सण्ठितत्ता ‘‘कुक्कुरपब्बतो’’ति सङ्ख्यं गतो, तस्स समीपे पण्णसालं कत्वा पञ्चतापससहस्सेहि सह वसमानोति अत्थो. नयानुसारेन सेसं सब्बं उत्तानत्थमेवाति.
पुप्फथूपियत्थेरअपदानवण्णना समत्ता.