३-५. पुण्णमन्ताणिपुत्तत्थेरअपदानवण्णना
अज्झायको मन्तधरोतिआदिकं आयस्मतो पुण्णस्स मन्ताणिपुत्तत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो उप्पत्तितो पुरेतरमेव हंसवतीनगरे ब्राह्मणमहासालकुले निब्बत्तित्वा अनुक्कमेन विञ्ञुतं पत्तो. अपरभागे पदुमुत्तरे भगवति उप्पज्जित्वा बोधनेय्यानं धम्मं देसेन्ते हेट्ठा वुत्तनयेन महाजनेन सद्धिं विहारं गन्त्वा परिसपरियन्ते निसीदित्वा धम्मं सुणन्तो सत्थारं एकं भिक्खुं धम्मकथिकानं अग्गट्ठाने ठपेन्तं दिस्वा ‘‘मयापि अनागते एवरूपेन भवितुं वट्टती’’ति चिन्तेत्वा देसनावसाने उट्ठिताय परिसाय सत्थारं उपसङ्कमित्वा निमन्तेत्वा हेट्ठा वुत्तनयेन महासक्कारं कत्वा भगवन्तं एवमाह – ‘‘भन्ते, अहं इमिना अधिकारेन न अञ्ञं सम्पत्तिं पत्थेमि, यथा पनेसो भिक्खु सत्तमदिवसमत्थके तुम्हेहि धम्मकथिकानं अग्गट्ठाने ठपितो, एवं अहम्पि अनागते एकस्स बुद्धस्स सासने धम्मकथिकानं अग्गो भवेय्य’’न्ति पत्थनं अकासि. सत्था अनागतं ओलोकेत्वा तस्स पत्थनाय समिज्झनभावं दिस्वा ‘‘अनागते कप्पसतसहस्समत्थके गोतमो नाम बुद्धो उप्पज्जिस्सति, तस्स सासने पब्बजित्वा त्वं धम्मकथिकानं अग्गो भविस्ससी’’ति ब्याकासि.
सो यावतायुकं कल्याणकम्मं कत्वा ततो चुतो कप्पसतसहस्सं पुञ्ञसम्भारं सम्भरन्तो देवमनुस्सेसु संसरित्वा अम्हाकं भगवतो काले कपिलवत्थुनगरस्स अविदूरे दोणवत्थुनामके ब्राह्मणगामे ब्राह्मणमहासालकुले अञ्ञासिकोण्डञ्ञत्थेरस्स भागिनेय्यो हुत्वा निब्बत्ति. तस्स पुण्णोति नामं अकंसु. सो सत्थरि अभिसम्बोधिं पत्वा पवत्तितवरधम्मचक्के अनुक्कमेन राजगहं उपनिस्साय विहरन्ते अञ्ञासिकोण्डञ्ञस्स सन्तिके पब्बजित्वा लद्धूपसम्पदो पधानमनुयुञ्जन्तो सब्बं पब्बजितकिच्चं मत्थकं पापेत्वा ‘‘दसबलस्स सन्तिकं गमिस्सामी’’ति मातुलत्थेरेन सद्धिं सत्थु सन्तिकं आगन्त्वा कपिलवत्थुसामन्तायेव ओहियित्वा योनिसो मनसिकारे कम्मं करोन्तो नचिरस्सेव विपस्सनं उस्सुक्कापेत्वा अरहत्तं पापुणि.
तस्स पन पुण्णत्थेरस्स सन्तिके पब्बजिता कुलपुत्ता पञ्चसता अहेसुं. थेरो ते दसकथावत्थूहि ओवदि. तेपि सब्बे दसकथावत्थूहि ओवदिता तस्स ओवादे ठत्वा अरहत्तं पापुणित्वा अत्तनो पब्बजितकिच्चं मत्थकप्पत्तं ञत्वा उपज्झायं उपसङ्कमित्वा आहंसु – ‘‘भन्ते, मयं पब्बजितकिच्चस्स मत्थकं पत्ता, दसन्नञ्च कथावत्थूनं लाभिनो, समयो दानि नो दसबलं पस्सितु’’न्ति, थेरो तेसं वचनं सुत्वा चिन्तेसि – ‘‘मय्हं दसकथावत्थुलाभितं सत्था जानाति. अहं धम्मं देसेन्तो दसकथावत्थूनि अमुञ्चित्वाव देसेमि, मयि च गच्छन्ते सब्बेपिमे भिक्खू मं परिवारेत्वा गच्छिस्सन्ति, एवं मे गणेन सद्धिं गन्त्वा अयुत्तं दसबलं पस्सितुं, इमे ताव दसबलं पस्सितुं गच्छन्तू’’ति. अथ ते एवमाह – ‘‘आवुसो, तुम्हे पुरतो गन्त्वा दसबलं पस्सथ, मम वचनेन तथागतस्स पादे वन्दथ, अहम्पि तुम्हाकं गतमग्गेन आगच्छिस्सामी’’ति. तेपि थेरा सब्बे दसबलस्स जातिभूमिरट्ठवासिनो सब्बे खीणासवा सब्बे दसकथावत्थुलाभिनो उपज्झायस्स ओवादं अच्छिन्दित्वा थेरं वन्दित्वा अनुपुब्बेन चारिकं चरन्ता सट्ठियोजनमग्गं अतिक्कम्म राजगहे वेळुवनमहाविहारं गन्त्वा दसबलस्स पादे वन्दित्वा एकमन्तं निसीदिंसु. आचिण्णं खो पनेतं बुद्धानं भगवन्तानं आगन्तुकेहि भिक्खूहि सद्धिं पटिसम्मोदितुन्ति भगवा तेहि सद्धिं ‘‘कच्चि, भिक्खवे, खमनीय’’न्तिआदिना नयेन मधुरपटिसन्थारं कत्वा ‘‘कुतो च तुम्हे, भिक्खवे, आगतत्था’’ति पुच्छित्वा पुन तेहि ‘‘जातिभूमितो’’ति वुत्ते ‘‘को नु खो, भिक्खवे, जातिभूमियं जातिभूमकानं भिक्खूनं सब्रह्मचारीनं एवं सम्भावितो ‘अत्तना च अप्पिच्छो अप्पिच्छकथञ्च भिक्खूनं कत्ता’’’ति (म. नि. १.२५२) दसकथावत्थुलाभिं भिक्खुं पुच्छि. तेपि ‘‘पुण्णो नाम, भन्ते, आयस्मा मन्ताणिपुत्तो’’ति आरोचयिंसु.
तेसं कथं सुत्वा आयस्मा सारिपुत्तो थेरं दस्सनकामो अहोसि. अथ सत्था राजगहतो सावत्थिं अगमासि. पुण्णत्थेरोपि दसबलस्स तत्थ आगतभावं सुत्वा ‘‘सत्थारं पस्सिस्सामी’’ति गन्त्वा अन्तोगन्धकुटियंयेव तथागतं सम्पापुणि. सत्था तस्स धम्मं देसेसि. थेरो धम्मं सुत्वा दसबलं वन्दित्वा पटिसल्लानत्थाय अन्धवनं गन्त्वा अञ्ञतरस्मिं रुक्खमूले दिवाविहारं निसीदि. सारिपुत्तत्थेरोपि तस्सागमनं सुत्वा सीसानुलोकिको गन्त्वा ओकासं सल्लक्खेत्वा तस्मिं रुक्खमूले निसिन्नकं उपसङ्कमित्वा थेरेन सद्धिं सम्मोदित्वा तं विसुद्धिक्कमं (म. नि. १.२५७) पुच्छि. सोपिस्स पुच्छितपुच्छितं ब्याकरोन्तो रथविनीतूपमाय अतिविय चित्तं आराधेसि. ते अञ्ञमञ्ञस्स सुभासितं समनुमोदिंसु.
४३४. अथ नं सत्था अपरभागे भिक्खुसङ्घस्स मज्झे निसिन्नो थेरं ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं धम्मकथिकानं यदिदं पुण्णो’’ति (अ. नि. १.१८८, १९६) एतदग्गे ठपेसि. सो पुब्बकम्मं सरित्वा सोमनस्सवसेन पुब्बचरितापदानं विभावेन्तो अज्झायकोतिआदिमाह. तत्थ अज्झायकोति अनेकब्राह्मणानं वाचेता सिक्खापेता. मन्तधरोति मन्तानं धारेताति अत्थो, वेदसङ्खातस्स चतुत्थवेदस्स सज्झायनसवनदानानं वसेन धारेताति वुत्तं होति. तिण्णं वेदानन्ति इरुवेदयजुवेदसामवेदसङ्खातानं तिण्णं वेदानं ञाणेन धारेतब्बता ‘‘वेदो’’ति लद्धनामेसु तीसु वेदगन्थेसु पारं परियोसानं गतोति अत्थो. पुरक्खतोम्हि सिस्सेहीति मम निच्चपरिवारभूतेहि सिस्सेहि परिवुतो अहं अम्हि. उपगच्छिं नरुत्तमन्ति नरानं उत्तमं भगवन्तं उपसङ्कमिं, समीपं गतोति अत्थो. सेसं सुविञ्ञेय्यमेव.
४३८. अभिधम्मनयञ्ञूहन्ति अहं तदा तस्स बुद्धस्स काले अभिधम्मनयकोविदोति अत्थो. कथावत्थुविसुद्धियाति कथावत्थुप्पकरणे विसुद्धिया छेको, अप्पिच्छसन्तुट्ठिकथादीसु दससु कथावत्थूसु वा छेको, ताय कथावत्थुविसुद्धिया सब्बेसं यतिजनानं पण्डितानं विञ्ञापेत्वान बोधेत्वान अनासवो निक्किलेसो विहरामि वासं कप्पेमि.
४३९. इतो पञ्चसते कप्पेति इतो पञ्चबुद्धपटिमण्डिततो भद्दकप्पतो पञ्चसते कप्पे सुप्पकासका सुट्ठु पाकटा चक्करतनादि सत्तहि रतनेहि सम्पन्ना जम्बुदीपादिचतुदीपम्हि इस्सरा पधाना चतुरो चत्तारो चक्कवत्तिराजानो अहेसुन्ति अत्थो. सेसं वुत्तनयमेवाति.
पुण्णमन्ताणिपुत्तत्थेरअपदानवण्णना समत्ता.