३. सन्तिकेनिदानकथा
‘‘सन्तिकेनिदानं पन ‘एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे’. ‘वेसालियं विहरति महावने कूटागारसालाय’न्ति च एवं तस्मिं तस्मिं ठानेयेव लब्भती’’ति वुत्तं. किञ्चापि एवं वुत्तं, अथ खो पन तम्पि आदितो पट्ठाय एवं वेदितब्बं – उदानञ्हि उदानेत्वा जयपल्लङ्के निसिन्नस्स भगवतो एतदहोसि – ‘‘अहं कप्पसतसहस्साधिकानि चत्तारि असङ्ख्येय्यानि इमस्स पल्लङ्कस्स कारणा सन्धाविं, एत्तकं मे कालं इमस्सेव पल्लङ्कस्स कारणा अलङ्कतसीसं गीवाय छिन्दित्वा दिन्नं, सुअञ्जितानि अक्खीनि हदयमंसञ्च उप्पाटेवा दिन्नं, जालीकुमारसदिसा पुत्ता, कण्हाजिनकुमारिसदिसा धीतरो, मद्दीदेविसदिसा भरियायो च परेसं दासत्थाय दिन्ना. अयं मे पल्लङ्को जयपल्लङ्को थिरपल्लङ्को, एत्थ मे निसिन्नस्स सङ्कप्पा परिपुण्णा, न ताव इतो वुट्ठहिस्सामी’’ति अनेककोटिसतसहस्ससमापत्तियो समापज्जन्तो सत्ताहं तत्थेव निसीदि. यं सन्धाय वुत्तं – ‘‘अथ खो भगवा सत्ताहं एकपल्लङ्केन निसीदि विमुत्तिसुखपटिसंवेदी’’ति (महाव. १; उदा. १).
अथ एकच्चानं देवतानं ‘‘अज्जापि नून सिद्धत्थस्स कत्तब्बकिच्चं अत्थि, पल्लङ्कस्मिञ्हि आलयं न विजहती’’ति परिवितक्को उदपादि. सत्था देवतानं परिवितक्कं ञत्वा तासं वितक्कवूपसमत्थं वेहासं अब्भुग्गन्त्वा यमकपाटिहारियं दस्सेसि. महाबोधिमण्डे हि कतपाटिहारियञ्च ञातिसमागमे कतपाटिहारियञ्च पाथिकपुत्तसमागमे कतपाटिहारियञ्च सब्बं कण्डम्बरुक्खमूले कतयमकपाटिहारियसदिसं अहोसि.
एवं सत्था इमिना पाटिहारियेन देवतानं वितक्कं वूपसमेत्वा पल्लङ्कतो ईसकं पाचीननिस्सिते उत्तरदिसाभागे ठत्वा ‘‘इमस्मिं वत मे पल्लङ्के सब्बञ्ञुतं पटिविद्ध’’न्ति चत्तारि असङ्ख्येय्यानि कप्पसतसहस्सञ्च पूरितानं पारमीनं बलाधिगमट्ठानं पल्लङ्कं बोधिरुक्खञ्च अनिमिसेहि अक्खीहि ओलोकयमानो सत्ताहं वीतिनामेसि, तं ठानं अनिमिसचेतियं नाम जातं. अथ सत्था पल्लङ्कस्स च ठितट्ठानस्स च अन्तरा चङ्कमं मापेत्वा पुरत्थिमपच्छिमतो आयते रतनचङ्कमे चङ्कमन्तो सत्ताहं वीतिनामेसि. तं ठानं रतनचङ्कमचेतियं नाम जातं.
चतुत्थे पन सत्ताहे बोधितो पच्छिमुत्तरदिसाभागे देवता रतनघरं मापयिंसु. तत्थ भगवा पल्लङ्केन निसीदित्वा अभिधम्मपिटकं विसेसतो चेत्थ अनन्तनयसमन्तपट्ठानं विचिनन्तो सत्ताहं वीतिनामेसि. आभिधम्मिका पनाहु – ‘‘रतनघरं नाम न सत्तरतनमयं गेहं, सत्तन्नं पन पकरणानं सम्मसितट्ठानं ‘रतनघर’न्ति वुच्चती’’ति. यस्मा पनेत्थ उभोपेते परियायेन युज्जन्ति, तस्मा उभयम्पेतं गहेतब्बमेव. ततो पट्ठाय पन तं ठानं रतनघरचेतियं नाम जातं. एवं सत्था बोधिसमीपेयेव चत्तारि सत्ताहानि वीतिनामेत्वा पञ्चमे सत्ताहे बोधिरुक्खमूला येन अजपालनिग्रोधो तेनुपसङ्कमि. तत्रापि धम्मं विचिनन्तो विमुत्तिसुखञ्च पटिसंवेदेन्तो निसीदि.
तस्मिं समये मारो पापिमा ‘‘एत्तकं कालं अनुबन्धन्तो ओतारापेक्खोपि इमस्स न किञ्चि खलितं अद्दसं, अतिक्कन्तोदानि एस मम वस’’न्ति दोमनस्सप्पत्तो महामग्गे निसीदित्वा सोळस कारणानि चिन्तेन्तो भूमियं सोळस लेखा आकड्ढि – ‘‘अहं एसो विय दानपारमिं न पूरेसिं, तेनम्हि इमिना सदिसो न जातो’’ति एकं लेखं आकड्ढि. तथा ‘‘अहं एसो विय सीलपारमिं…पे… नेक्खम्मपारमिं, पञ्ञापारमिं, वीरियपारमिं, खन्तिपारमिं, सच्चपारमिं, अधिट्ठानपारमिं, मेत्तापारमिं, उपेक्खापारमिं न पूरेसिं, तेनम्हि इमिना सदिसो न जातो’’ति दसमं लेखं आकड्ढि. तथा ‘‘अहं एसो विय असाधारणस्स इन्द्रियपरोपरियत्तञाणस्स पटिवेधाय उपनिस्सयभूता दस पारमियो न पूरेसिं, तेनम्हि इमिना सदिसो न जातो’’ति एकादसमं लेखं आकड्ढि. तथा ‘‘अहं एसो विय असाधारणस्स आसयानुसयञाणस्स…पे… महाकरुणासमापत्तिञाणस्स, यमकपाटिहारियञाणस्स, अनावरणञाणस्स, सब्बञ्ञुतञ्ञाणस्स पटिवेधाय उपनिस्सयभूता दस पारमियो न पूरेसिं, तेनम्हि इमिना सदिसो न जातो’’ति सोळसमं लेखं आकड्ढि. एवं मारो इमेहि कारणेहि महामग्गे सोळस लेखा आकड्ढित्वा निसीदि.
तस्मिञ्च समये तण्हा, अरति, रगा चाति तिस्सो मारधीतरो (सं. नि. १.१६१) ‘‘पिता नो न पञ्ञायति, कहं नु खो एतरही’’ति ओलोकयमाना तं दोमनस्सप्पत्तं भूमिं लेखमानं निसिन्नं दिस्वा पितु सन्तिकं गन्त्वा ‘‘कस्मा, तात, त्वं दुक्खी दुम्मनो’’ति पुच्छिंसु. ‘‘अम्मा, अयं महासमणो मय्हं वसं अतिक्कन्तो, एत्तकं कालं ओलोकेन्तो ओतारमस्स दट्ठुं नासक्खिं, तेनम्हि दुक्खी दुम्मनो’’ति. ‘‘यदि एवं मा चिन्तयित्थ, मयमेतं अत्तनो वसे कत्वा आदाय आगमिस्सामा’’ति आहंसु. ‘‘न सक्का, अम्मा, एस केनचि वसे कातुं, अचलाय सद्धाय पतिट्ठितो एस पुरिसो’’ति. ‘‘तात, मयं इत्थियो नाम, इदानेव नं रागपासादीहि बन्धित्वा आनेस्साम, तुम्हे मा चिन्तयित्था’’ति वत्वा भगवन्तं उपसङ्कमित्वा ‘‘पादे ते, समण, परिचारेमा’’ति आहंसु. भगवा नेव तासं वचनं मनसि अकासि, न अक्खीनि उम्मीलेत्वा ओलोकेसि, अनुत्तरे उपधिसङ्खये विमुत्तिया विवेकसुखञ्ञेव अनुभवन्तो निसीदि.
पुन मारधीतरो ‘‘उच्चावचा खो पुरिसानं अधिप्पाया, केसञ्चि कुमारिकासु पेमं होति, केसञ्चि पठमवये ठितासु, केसञ्चि मज्झिमवये ठितासु, केसञ्चि पच्छिमवये ठितासु, यंनून मयं नानप्पकारेहि रूपेहि पलोभेत्वा गण्हेय्यामा’’ति एकमेका कुमारिकवण्णादिवसेन सकं सकं अत्तभावं अभिनिम्मिनित्वा कुमारिका, अविजाता, सकिंविजाता, दुविजाता, मज्झिमित्थियो, महित्थियो च हुत्वा छक्खत्तुं भगवन्तं उपसङ्कमित्वा ‘‘पादे ते, समण, परिचारेमा’’ति आहंसु. तम्पि भगवा न मनसाकासि, यथा तं अनुत्तरे उपधिसङ्खये विमुत्तो. केचि पनाचरिया वदन्ति – ‘‘ता महित्थिभावेन उपगता दिस्वा भगवा – ‘एता खण्डदन्ता पलितकेसा होन्तू’ति अधिट्ठासी’’ति. तं न गहेतब्बं. न हि भगवा एवरूपं अधिट्ठानं अकासि. भगवा पन ‘‘अपेथ तुम्हे, किं दिस्वा एवं वायमथ, एवरूपं नाम अवीतरागादीनं पुरतो कातुं वट्टति. तथागतस्स पन रागो पहीनो, दोसो पहीनो, मोहो पहीनो’’ति अत्तनो किलेसप्पहानं आरब्भ –
‘‘यस्स जितं नावजीयति, जितमस्स नोयाति कोचि लोके;
तं बुद्धमनन्तगोचरं, अपदं केन पदेन नेस्सथ.
‘‘यस्स जालिनी विसत्तिका, तण्हा नत्थि कुहिञ्चि नेतवे;
तं बुद्धमनन्तगोचरं, अपदं केन पदेन नेस्सथा’’ति. (ध. प. १७९-१८०) –
इमा धम्मपदे बुद्धवग्गे द्वे गाथा वदन्तो धम्मं देसेसि. ता ‘‘सच्चं किर नो पिता अवोच, ‘अरहं सुगतो लोके, न रागेन सुवानयो’’’तिआदीनि (सं. नि. १.१६१) वत्वा पितु सन्तिकं आगमिंसु.
भगवापि तत्थेव सत्ताहं वीतिनामेत्वा ततो मुचलिन्दमूलं अगमासि. तत्थ सत्ताहवद्दलिकाय उप्पन्नाय सीतादिपटिबाहनत्थं मुचलिन्देन नाम नागराजेन सत्तक्खत्तुं भोगेहि परिक्खित्तो असम्बाधाय गन्धकुटियं विहरन्तो विय विमुत्तिसुखं पटिसंवेदियमानो सत्ताहं वीतिनामेत्वा राजायतनं उपसङ्कमित्वा तत्थपि विमुत्तिसुखं पटिसंवेदियमानोयेव सत्ताहं वीतिनामेसि. एत्तावता सत्त सत्ताहानि परिपुण्णानि. एत्थन्तरे नेव मुखधोवनं, न सरीरपटिजग्गनं, न आहारकिच्चं अहोसि, झानसुखफलसुखेनेव च वीतिनामेसि.
अथस्स तस्मिं सत्तसत्ताहमत्थके एकूनपञ्ञासतिमे दिवसे तत्थ निसिन्नस्स ‘‘मुखं धोविस्सामी’’ति चित्तं उदपादि. सक्को देवानमिन्दो अगदहरीतकं आहरित्वा अदासि, सत्था तं परिभुञ्जि, तेनस्स सरीरवळञ्जो अहोसि. अथस्स सक्कोयेव नागलतादन्तकट्ठञ्चेव मुखधोवनोदकञ्च अदासि. सत्था तं दन्तकट्ठं खादित्वाव अनोतत्तदहोदकेन मुखं धोवित्वा तत्थेव राजायतनमूले निसीदि.
तस्मिं समये तपुस्स भल्लिका नाम द्वे वाणिजा पञ्चहि सकटसतेहि उक्कला जनपदा मज्झिमदेसं गच्छन्ता पुब्बे अत्तनो ञातिसालोहिताय देवताय सकटानि सन्निरुम्भित्वा सत्थु आहारसम्पादने उस्साहिता मन्थञ्च मधुपिण्डिकञ्च आदाय – ‘‘पटिग्गण्हातु नो, भन्ते, भगवा इमं आहारं अनुकम्पं उपादाया’’ति सत्थारं उपनामेत्वा अट्ठंसु. भगवा पायासपटिग्गहणदिवसेयेव पत्तस्स अन्तरहितत्ता ‘‘न खो तथागता हत्थेसु पटिग्गण्हन्ति, किम्हि नु खो अहं पटिग्गण्हेय्य’’न्ति चिन्तेसि. अथस्स चित्तं ञत्वा चतूहि दिसाहि चत्तारो महाराजानो इन्दनीलमणिमये पत्ते उपनामेसुं, भगवा ते पटिक्खिपि. पुन मुग्गवण्णसेलमये चत्तारो पत्ते उपनामेसुं. भगवा चतुन्नम्पि महाराजानं सद्धानुरक्खणत्थाय चत्तारोपि पत्ते पटिग्गहेत्वा उपरूपरि ठपेत्वा ‘‘एको होतू’’ति अधिट्ठासि. चत्तारोपि मुखवट्टियं पञ्ञायमानलेखा हुत्वा मज्झिमप्पमाणेन एकत्तं उपगमिंसु. भगवा तस्मिं पच्चग्घे सेलमये पत्ते आहारं पटिग्गहेत्वा परिभुञ्जित्वा अनुमोदनं अकासि. ते द्वे भातरो वाणिजा बुद्धञ्च धम्मञ्च सरणं गन्त्वा द्वेवाचिका उपासका अहेसुं. अथ नेसं ‘‘एकं नो, भन्ते, परिचरितब्बट्ठानं देथा’’ति वदन्तानं दक्खिणहत्थेन अत्तनो सीसं परामसित्वा केसधातुयो अदासि. ते अत्तनो नगरे ता धातुयो सुवण्णसमुग्गस्स अन्तो पक्खिपित्वा चेतियं पतिट्ठापेसुं.
सम्मासम्बुद्धो पन ततो वुट्ठाय पुन अजपालनिग्रोधमेव गन्त्वा निग्रोधमूले निसीदि. अथस्स तत्थ निसिन्नमत्तस्सेव अत्तना अधिगतधम्मस्स गम्भीरतं पच्चवेक्खन्तस्स सब्बबुद्धानं आचिण्णो – ‘‘किच्छेन अधिगतो खो म्यायं धम्मो’’ति परेसं अदेसेतुकामताकारप्पत्तो वितक्को उदपादि. अथ खो ब्रह्मा सहम्पति ‘‘नस्सति वत भो लोको, विनस्सति वत भो लोको’’ति दसहि चक्कवाळसहस्सेहि सक्कसुयामसन्तुसितनिम्मानरतिवसवत्तिमहाब्रह्मानो आदाय सत्थु सन्तिकं आगन्त्वा ‘‘देसेतु, भन्ते, भगवा धम्म’’न्तिआदिना नयेन धम्मदेसनं आयाचि.
सत्था तस्स पटिञ्ञं दत्वा ‘‘कस्स नु खो अहं पठमं धम्मं देसेय्य’’न्ति चिन्तेन्तो ‘‘आळारो पण्डितो, सो इमं धम्मं खिप्पं आजानिस्सती’’ति चित्तं उप्पादेत्वा पुन ओलोकेन्तो तस्स सत्ताहकालङ्कतभावं ञत्वा उदकं आवज्जेसि. तस्सापि अभिदोसकालङ्कतभावं ञत्वा ‘‘बहूपकारा खो मे पञ्चवग्गिया भिक्खू’’ति पञ्चवग्गिये आरब्भ मनसि कत्वा ‘‘कहं नु खो ते एतरहि विहरन्ती’’ति आवज्जेन्तो ‘‘बाराणसियं इसिपतने मिगदाये’’ति ञत्वा कतिपाहं बोधिमण्डसामन्तायेव पिण्डाय चरन्तो विहरित्वा ‘‘आसाळ्हिपुण्णमायं बाराणसिं गन्त्वा धम्मचक्कं पवत्तेस्सामी’’ति पक्खस्स चातुद्दसियं पच्चूससमये पच्चुट्ठाय पभाताय रत्तिया कालस्सेव पत्तचीवरमादाय अट्ठारसयोजनमग्गं पटिपन्नो अन्तरामग्गे उपकं नाम आजीवकं दिस्वा तस्स अत्तनो बुद्धभावं आचिक्खित्वा तं दिवसमेव सायन्हसमये इसिपतनं सम्पापुणि.
पञ्चवग्गिया तथागतं दूरतोव आगच्छन्तं दिस्वा ‘‘अयं आवुसो, समणो गोतमो पच्चयबाहुल्लाय आवत्तित्वा परिपुण्णकायो पीणिन्द्रियो सुवण्णवण्णो हुत्वा आगच्छति. इमस्स वन्दनादीनि न करिस्साम, महाकुलप्पसुतो खो पनेस आसनाभिहारं अरहति, तेनस्स आसनमत्तं पञ्ञापेस्सामा’’ति कतिकं अकंसु. भगवा सदेवकस्स लोकस्स चित्ताचारजाननसमत्थेन ञाणेन ‘‘किं नु खो इमे चिन्तयिंसू’’ति आवज्जेत्वा चित्तं अञ्ञासि. अथ तेसु सब्बदेवमनुस्सेसु अनोदिस्सकवसेन फरणसमत्थं मेत्तचित्तं सङ्खिपित्वा ओदिस्सकवसेन मेत्तचित्तेन फरि. ते भगवता मेत्तचित्तेन संफुट्ठा तथागते उपसङ्कमन्ते सकाय कतिकाय सण्ठातुं असक्कोन्ता पच्चुग्गन्त्वा अभिवादनादीनि सब्बकिच्चानि अकंसु. सम्मासम्बुद्धभावं पनस्स अजानन्ता केवलं नामेन च आवुसोवादेन च समुदाचरिंसु.
अथ ने भगवा – ‘‘मा, भिक्खवे, तथागतं नामेन च आवुसोवादेन च समुदाचरथ. अरहं, भिक्खवे, तथागतो सम्मासम्बुद्धो’’ति अत्तनो बुद्धभावं ञापेत्वा पञ्ञत्तवरबुद्धासने निसिन्नो उत्तरासाळ्हनक्खत्तयोगे वत्तमाने अट्ठारसहि ब्रह्मकोटीहि परिवुतो पञ्चवग्गियत्थेरे आमन्तेत्वा तिपरिवट्टं द्वादसाकारं छञाणविजम्भनं अनुत्तरं धम्मचक्कप्पवत्तनसुत्तन्तं (महाव. १३ आदयो; सं. नि. ५.१०८१) देसेसि. तेसु कोण्डञ्ञत्थेरो देसनानुसारेन ञाणं पेसेन्तो सुत्तपरियोसाने अट्ठारसहि ब्रह्मकोटीहि सद्धिं सोतापत्तिफले पतिट्ठासि. सत्था तत्थेव वस्सं उपगन्त्वा पुनदिवसे वप्पत्थेरं ओवदन्तो विहारेयेव निसीदि, सेसा चत्तारोपि पिण्डाय चरिंसु. वप्पत्थेरो पुब्बण्हेयेव सोतापत्तिफलं पापुणि. एतेनेवुपायेन पुनदिवसे भद्दियत्थेरं, पुनदिवसे महानामत्थेरं, पुनदिवसे अस्सजित्थेरन्ति सब्बे सोतापत्तिफले पतिट्ठापेत्वा पञ्चमियं पक्खस्स पञ्चपि थेरे सन्निपातेत्वा अनत्तलक्खणसुत्तन्तं (महाव. २० आदयो; सं. नि. ३.५९) देसेसि. देसनापरियोसाने पञ्चपि थेरा अरहत्ते पतिट्ठहिंसु. अथ सत्था यसस्स कुलपुत्तस्स उपनिस्सयं दिस्वा तं रत्तिभागे निब्बिज्जित्वा गेहं पहाय निक्खन्तं ‘‘एहि यसा’’ति पक्कोसित्वा तस्मिंयेव रत्तिभागे सोतापत्तिफले, पुनदिवसे अरहत्ते पतिट्ठापेत्वा, अपरेपि तस्स सहायके चतुपञ्ञासजने एहिभिक्खुपब्बज्जाय पब्बाजेत्वा अरहत्तं पापेसि.
एवं लोके एकसट्ठिया अरहन्तेसु जातेसु सत्था वुट्ठवस्सो पवारेत्वा ‘‘चरथ भिक्खवे चारिक’’न्ति सट्ठिभिक्खू दिसासु पेसेत्वा सयं उरुवेलं गच्छन्तो अन्तरामग्गे कप्पासिकवनसण्डे तिंसभद्दवग्गियकुमारे विनेसि. तेसु सब्बपच्छिमको सोतापन्नो, सब्बुत्तमो अनागामी अहोसि. तेपि सब्बे एहिभिक्खुभावेनेव पब्बाजेत्वा दिसासु पेसेत्वा उरुवेलं गन्त्वा अड्ढुड्ढपाटिहारियसहस्सानि दस्सेत्वा उरुवेलकस्सपादयो सहस्सजटिलपरिवारे तेभातिकजटिले विनेत्वा एहिभिक्खुभावेन पब्बाजेत्वा गयासीसे निसीदापेत्वा आदित्तपरियायदेसनाय (महाव. ५४) अरहत्ते पतिट्ठापेत्वा तेन अरहन्तसहस्सेन परिवुतो ‘‘बिम्बिसाररञ्ञो दिन्नपटिञ्ञं मोचेस्सामी’’ति राजगहनगरूपचारे लट्ठिवनुय्यानं अगमासि. राजा उय्यानपालस्स सन्तिका ‘‘सत्था आगतो’’ति सुत्वा द्वादसनहुतेहि ब्राह्मणगहपतिकेहि परिवुतो सत्थारं उपसङ्कमित्वा चक्कविचित्ततलेसु सुवण्णपट्टवितानं विय पभासमुदयं विस्सज्जेन्तेसु तथागतस्स पादेसु सिरसा निपतित्वा एकमन्तं निसीदि सद्धिं परिसाय.
अथ खो तेसं ब्राह्मणगहपतिकानं एतदहोसि – ‘‘किं नु खो महासमणो उरुवेलकस्सपे ब्रह्मचरियं चरति, उदाहु उरुवेलकस्सपो महासमणे’’ति. भगवा तेसं चेतस्सा चेतोपरिवितक्कमञ्ञाय उरुवेलकस्सपं गाथाय अज्झभासि –
‘‘किमेव दिस्वा उरुवेलवासि, पहासि अग्गिं किसकोवदानो;
पुच्छामि तं कस्सप एतमत्थं, कथं पहीनं तव अग्गिहुत्त’’न्ति. –
थेरोपि भगवतो अधिप्पायं विदित्वा –
‘‘रूपे च सद्दे च अथो रसे च, कामित्थियो चाभिवदन्ति यञ्ञा;
एतं मलन्ती उपधीसु ञत्वा, तस्मा न यिट्ठे न हुते अरञ्जि’’न्ति. (महाव. ५५) –
इमं गाथं वत्वा अत्तनो सावकभावप्पकासनत्थं तथागतस्स पादपिट्ठे सीसं ठपेत्वा ‘‘सत्था मे, भन्ते भगवा, सावकोहमस्मी’’ति वत्वा एकतालं द्वितालं तितालन्ति याव सत्ततालप्पमाणं सत्तक्खत्तुं वेहासं अब्भुग्गन्त्वा ओरुय्ह तथागतं वन्दित्वा एकमन्तं निसीदि. तं पाटिहारियं दिस्वा महाजनो ‘‘अहो महानुभावा बुद्धा, एवञ्हि थामगतदिट्ठिको नाम ‘अरहा’ति मञ्ञमानो उरुवेलकस्सपोपि दिट्ठिजालं भिन्दित्वा तथागतेन दमितो’’ति सत्थु गुणकथंयेव कथेसि. भगवा ‘‘नाहं इदानियेव उरुवेलकस्सपं दमेमि, अतीतेपि एस मया दमितो’’ति वत्वा इमिस्सा अट्ठुप्पत्तिया महानारदकस्सपजातकं (जा. २.२२.११५३ आदयो) कथेत्वा चत्तारि सच्चानि पकासेसि. राजा एकादसहि नहुतेहि सद्धिं सोतापत्तिफले पतिट्ठासि, एकनहुतं उपासकत्तं पटिवेदेसि. राजा सत्थु सन्तिके निसिन्नोयेव पञ्च अस्सासके पवेदेत्वा सरणं गन्त्वा स्वातनाय निमन्तेत्वा उट्ठायासना भगवन्तं पदक्खिणं कत्वा पक्कमि.
पुनदिवसे येहि च भगवा हिय्यो दिट्ठो, येहि च अदिट्ठो, ते सब्बेपि राजगहवासिनो अट्ठारसकोटिसङ्खा मनुस्सा तथागतं दट्ठुकामा पातोव राजगहतो लट्ठिवनुय्यानं अगमंसु. तिगावुतो मग्गो नप्पहोसि, सकललट्ठिवनुय्यानं निरन्तरं फुटं अहोसि. महाजनो दसबलस्स रूपसोभग्गप्पत्तं अत्तभावं पस्सन्तोपि तित्तिं कातुं नासक्खि. वण्णभूमि नामेसा. एवरूपेसु हि ठानेसु भगवतो लक्खणानुब्यञ्जनादिप्पभेदा सब्बापि रूपकायसिरी वण्णेतब्बा. एवं रूपसोभग्गप्पत्तं दसबलस्स सरीरं पस्समानेन महाजनेन निरन्तरं फुटे उय्याने च गमनमग्गे च एकभिक्खुस्सपि निक्खमनोकासो नाहोसि. तं दिवसं किर भगवतो भत्तं छिन्नं भवेय्य, तस्मा ‘‘तं मा अहोसी’’ति सक्कस्स निसिन्नासनं उण्हाकारं दस्सेसि. सो आवज्जमानो तं कारणं ञत्वा माणवकवण्णं अभिनिम्मिनित्वा बुद्धधम्मसङ्घपटिसंयुत्ता थुतियो वदमानो दसबलस्स पुरतो ओतरित्वा देवानुभावेन ओकासं कत्वा –
‘‘दन्तो दन्तेहि सह पुराणजटिलेहि, विप्पमुत्तो विप्पमुत्तेहि;
सिङ्गीनिक्खसवण्णो, राजगहं पाविसि भगवा.
‘‘मुत्तो मुत्तेहि…पे….
‘‘तिण्णो तिण्णेहि…पे….
‘‘सन्तो सन्तेहि…पे… राजगहं पाविसि भगवा.
‘‘दसवासो दसबलो, दसधम्मविदू दसभि चुपेतो;
सो दससतपरिवारो, राजगहं पाविसि भगवा’’ति. (महाव. ५८) –
इमाहि गाथाहि सत्थु वण्णं वदमानो पुरतो पायासि. तदा महाजनो माणवकस्स रूपसिरिं दिस्वा ‘‘अतिविय अभिरूपो वतायं माणवको, न खो पन अम्हेहि दिट्ठपुब्बो’’ति चिन्तेत्वा ‘‘कुतो अयं माणवको, कस्स वा अय’’न्ति आह. तं सुत्वा माणवो –
‘‘यो धीरो सब्बधि दन्तो, सुद्धो अप्पटिपुग्गलो;
अरहं सुगतो लोके, तस्साहं परिचारको’’ति. – गाथमाह;
सत्था सक्केन कतोकासं मग्गं पटिपज्जित्वा भिक्खुसहस्सपरिवुतो राजगहं पाविसि. राजा बुद्धप्पमुखस्स सङ्घस्स महादानं दत्वा ‘‘अहं, भन्ते, तीणि रतनानि विना वसितुं न सक्खिस्सामि, वेलाय वा अवेलाय वा भगवतो सन्तिकं आगमिस्सामि, लट्ठिवनुय्यानञ्च नाम अतिदूरे, इदं पन अम्हाकं वेळुवनुय्यानं नातिदूरं नच्चासन्नं गमनागमनसम्पन्नं बुद्धारहं सेनासनं. इदं मे, भन्ते, भगवा पटिग्गण्हातू’’ति सुवण्णभिङ्गारेन पुप्फगन्धवासितं मणिवण्णं उदकमादाय वेळुवनुय्यानं परिच्चजन्तो दसबलस्स हत्थे उदकं पातेसि. तस्मिं आरामे पटिग्गहितेयेव ‘‘बुद्धसासनस्स मूलानि ओतिण्णानी’’ति महापथवी कम्पि. जम्बुदीपतलस्मिञ्हि ठपेत्वा वेळुवनं अञ्ञं महापथविं कम्पेत्वा गहितसेनासनं नाम नत्थि. तम्बपण्णिदीपेपि ठपेत्वा महाविहारं अञ्ञं पथविं कम्पेत्वा गहितसेनासनं नाम नत्थि. सत्था वेळुवनारामं पटिग्गहेत्वा रञ्ञो अनुमोदनं कत्वा उट्ठायासना भिक्खुसङ्घपरिवुतो वेळुवनं अगमासि.
तस्मिं खो पन समये सारिपुत्तो च मोग्गल्लानो चाति द्वे परिब्बाजका राजगहं उपनिस्साय विहरन्ति अमतं परियेसमाना. तेसु सारिपुत्तो अस्सजित्थेरं पिण्डाय पविट्ठं दिस्वा पसन्नचित्तो पयिरुपासित्वा ‘‘ये धम्मा हेतुप्पभवा’’तिआदिगाथं (महाव. ६०; अप. थेर १.१.२८६) सुत्वा सोतापत्तिफले पतिट्ठाय अत्तनो सहायकस्स मोग्गल्लानस्सपि तमेव गाथं अभासि. सोपि सोतापत्तिफले पतिट्ठहि. ते उभोपि सञ्चयं ओलोकेत्वा अत्तनो परिसाय सद्धिं भगवतो सन्तिके पब्बजिंसु. तेसु मोग्गल्लानो सत्ताहेन अरहत्तं पापुणि, सारिपुत्तो अड्ढमासेन. उभोपि ते सत्था अग्गसावकट्ठाने ठपेसि. सारिपुत्तत्थेरेन च अरहत्तं पत्तदिवसेयेव सन्निपातं अकासि.
तथागते पन तस्मिञ्ञेव वेळुवनुय्याने विहरन्ते सुद्धोदनमहाराजा ‘‘पुत्तो किर मे छब्बस्सानि दुक्करकारिकं चरित्वा परमाभिसम्बोधिं पत्वा पवत्तवरधम्मचक्को राजगहं उपनिस्साय वेळुवने विहरती’’ति सुत्वा अञ्ञतरं अमच्चं आमन्तेसि – ‘‘एहि भणे, त्वं पुरिससहस्सपरिवारो राजगहं गन्त्वा मम वचनेन ‘पिता ते सुद्धोदनमहाराजा दट्ठुकामो’ति वत्वा मम पुत्तं गण्हित्वा एही’’ति आह. सो ‘‘एवं, देवा’’ति रञ्ञो वचनं सिरसा सम्पटिच्छित्वा पुरिससहस्सपरिवारो खिप्पमेव सट्ठियोजनमग्गं गन्त्वा दसबलस्स चतुपरिसमज्झे निसीदित्वा धम्मदेसनावेलायं विहारं पाविसि. सो ‘‘तिट्ठतु ताव रञ्ञा पहितसासन’’न्ति परिसपरियन्ते ठितो सत्थु धम्मदेसनं सुत्वा यथाठितोव सद्धिं पुरिससहस्सेन अरहत्तं पत्वा पब्बज्जं याचि. भगवा ‘‘एथ भिक्खवो’’ति हत्थं पसारेसि. सब्बे तङ्खणञ्ञेव इद्धिमयपत्तचीवरधरा सट्ठिवस्सिकत्थेरा विय अहेसुं. अरहत्तं पत्तकालतो पट्ठाय पन अरिया नाम मज्झत्ताव होन्तीति, सो रञ्ञा पहितसासनं दसबलस्स न कथेसि. राजा – ‘‘नेव गतो आगच्छति, न सासनं सुय्यती’’ति ‘‘एहि भणे, त्वं गच्छा’’ति एतेनेव नियामेन अञ्ञं अमच्चं पेसेसि. सोपि गन्त्वा पुरिमनयेनेव सद्धिं परिसाय अरहत्तं पत्वा तुण्ही अहोसि. पुन राजा ‘‘एहि भणे, त्वं गच्छ, त्वं गच्छा’’ति एतेनेव नियामेन अपरेपि सत्त अमच्चे पेसेसि. ते सब्बे नव पुरिससहस्सपरिवारा नव अमच्चा अत्तनो किच्चं निट्ठापेत्वा तुण्हीभूता तत्थेव विहरिंसु.
राजा सासनमत्तम्पि आहरित्वा आचिक्खन्तं अलभित्वा चिन्तेसि – ‘‘एत्तकापि जना मयि सिनेहाभावेन सासनमत्तम्पि न पच्चाहरिंसु, को नु खो मे सासनं करिस्सती’’ति सब्बं राजबलं ओलोकेन्तो काळुदायिं अद्दस. सो किर रञ्ञो सब्बत्थसाधको अब्भन्तरिको अतिविय विस्सासिको अमच्चो बोधिसत्तेन सद्धिं एकदिवसे जातो सहपंसुकीळको सहायो. अथ नं राजा आमन्तेसि – ‘‘तात काळुदायि, अहं मम पुत्तं दट्ठुकामो नवपुरिससहस्सपरिवारेन नव अमच्चे पेसेसिं, तेसु एकोपि आगन्त्वा सासनमत्तं आरोचेन्तो नाम नत्थि. दुज्जानो खो पन मे जीवितन्तरायो, जीवमानोयेवाहं पुत्तं दट्ठुकामो. सक्खिस्ससि नु खो मे पुत्तं दस्सेतु’’न्ति? ‘‘सक्खिस्सामि, देव, सचे पब्बजितुं लभिस्सामी’’ति. ‘‘तात, त्वं पब्बजितो वा अपब्बजितो वा मय्हं पुत्तं दस्सेही’’ति. सो ‘‘साधु, देवा’’ति रञ्ञो सासनं आदाय राजगहं गन्त्वा सत्थु धम्मदेसनावेलाय परिसपरियन्ते ठितो धम्मं सुत्वा सपरिवारो अरहत्तं पत्वा एहिभिक्खुभावेन पब्बजित्वा विहासि.
सत्था बुद्धो हुत्वा पठमं अन्तोवस्सं इसिपतने वसित्वा वुट्ठवस्सो पवारेत्वा उरुवेलं गन्त्वा तत्थ तयो मासे वसन्तो तेभातिकजटिले विनेत्वा भिक्खुसहस्सपरिवारो फुस्समासपुण्णमायं राजगहं गन्त्वा द्वे मासे वसि. एत्तावता बाराणसितो निक्खन्तस्स पञ्च मासा जाता, सकलो हेमन्तो अतिक्कन्तो. काळुदायित्थेरस्स आगतदिवसतो सत्तट्ठदिवसा वीतिवत्ता. थेरो फग्गुणमासपुण्णमायं चिन्तेसि – ‘‘अतिक्कन्तो दानि हेमन्तो, वसन्तसमयो अनुप्पत्तो, मनुस्सेहि सस्सादीनि उद्धरित्वा सम्मुखसम्मुखट्ठानेहि मग्गा दिन्ना, हरिततिणसञ्छन्ना पथवी, सुपुप्फिता वनसण्डा, पटिपज्जनक्खमा मग्गा, कालो दसबलस्स ञातिसङ्गहं कातु’’न्ति. अथ भगवन्तं उपसङ्कमित्वा –
‘‘अङ्गारिनो दानि दुमा भदन्ते, फलेसिनो छदनं विप्पहाय;
ते अच्चिमन्तोव पभासयन्ति, समयो महावीर भागी रसानं…पे…. (थेरगा. ५२७);
‘‘नातिसीतं नातिउण्हं, नातिदुब्भिक्खछातकं;
सद्दला हरिता भूमि, एस कालो महामुनी’’ति. –
सट्ठिमत्ताहि गाथाहि दसबलस्स कुलनगरगमनवण्णं वण्णेसि. अथ नं सत्था – ‘‘किं नु खो, उदायि, मधुरस्सरेन गमनवण्णं वण्णेसी’’ति आह. ‘‘तुम्हाकं, भन्ते, पिता सुद्धोदनमहाराजा तुम्हे पस्सितुकामो, करोथ ञातकानं सङ्गह’’न्ति. ‘‘साधु, उदायि, करिस्सामि ञातकानं सङ्गहं, भिक्खुसङ्घस्स आरोचेहि, गमियवत्तं परिपूरेस्सन्ती’’ति. ‘‘साधु, भन्ते’’ति थेरो तेसं आरोचेसि.
भगवा अङ्गमगधवासीनं कुलपुत्तानं दसहि सहस्सेहि, कपिलवत्थुवासीनं दसहि सहस्सेहीति सब्बेहेव वीसतिसहस्सेहि खीणासवभिक्खूहि परिवुतो राजगहा निक्खमित्वा दिवसे दिवसे योजनं गच्छति. ‘‘राजगहतो सट्ठियोजनं कपिलवत्थुं द्वीहि मासेहि पापुणिस्सामी’’ति अतुरितचारिकं पक्कामि. थेरोपि ‘‘भगवतो निक्खन्तभावं रञ्ञो आरोचेस्सामी’’ति वेहासं अब्भुग्गन्त्वा रञ्ञो निवेसने पातुरहोसि. राजा थेरं दिस्वा तुट्ठचित्तो महारहे पल्लङ्के निसीदापेत्वा अत्तनो पटियादितस्स नानग्गरसभोजनस्स पत्तं पूरेत्वा अदासि. थेरो उट्ठाय गमनाकारं दस्सेसि. ‘‘निसीदित्वा भुञ्ज, ताता’’ति. ‘‘सत्थु सन्तिकं गन्त्वा भुञ्जिस्सामि, महाराजा’’ति. ‘‘कहं पन, तात, सत्था’’ति? ‘‘वीसतिसहस्सभिक्खुपरिवारो तुम्हाकं दस्सनत्थाय चारिकं निक्खन्तो, महाराजा’’ति. राजा तुट्ठमानसो आह – ‘‘तुम्हे इमं परिभुञ्जित्वा याव मम पुत्तो इमं नगरं पापुणाति, तावस्स इतोव पिण्डपातं परिहरथा’’ति. थेरो अधिवासेसि. राजा थेरं परिविसित्वा पत्तं गन्धचुण्णेन उब्बट्टेत्वा उत्तमस्स भोजनस्स पूरेत्वा ‘‘तथागतस्स देथा’’ति थेरस्स हत्थे पतिट्ठापेसि. थेरो सब्बेसं पस्सन्तानंयेव पत्तं आकासे खिपित्वा सयम्पि वेहासं अब्भुग्गन्त्वा पिण्डपातं आहरित्वा सत्थु हत्थे ठपेसि. सत्था तं परिभुञ्जि. एतेनेव उपायेन थेरो दिवसे दिवसे पिण्डपातं आहरि. सत्थापि अन्तरामग्गे रञ्ञोयेव पिण्डपातं परिभुञ्जि. थेरोपि भत्तकिच्चावसाने दिवसे दिवसे ‘‘अज्ज भगवा एत्तकं आगतो, अज्ज एत्तक’’न्ति बुद्धगुणपटिसंयुत्ताय च कथाय सकलं राजकुलं सत्थुदस्सनं विनायेव सत्थरि सञ्जातप्पसादं अकासि. तेनेव नं भगवा ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं कुलप्पसादकानं यदिदं काळुदायी’’ति (अ. नि. १.२१९, २२५) एतदग्गे ठपेसि.
साकियापि खो अनुप्पत्ते भगवति ‘‘अम्हाकं ञातिसेट्ठं पस्सिस्सामा’’ति सन्निपतित्वा भगवतो वसनट्ठानं वीमंसमाना ‘‘निग्रोधसक्कस्स आरामो रमणीयो’’ति सल्लक्खेत्वा तत्थ सब्बं पटिजग्गनविधिं कारेत्वा गन्धपुप्फहत्था पच्चुग्गमनं करोन्ता सब्बालङ्कारपटिमण्डिते दहरदहरे नागरदारके च नागरदारिकायो च पठमं पहिणिंसु, ततो राजकुमारे च राजकुमारिकायो च, तेसं अनन्तरा सामं गन्धपुप्फादीहि पूजयमाना भगवन्तं गहेत्वा निग्रोधाराममेव अगमंसु. तत्थ भगवा वीसतिसहस्सखीणासवपरिवुतो पञ्ञत्तवरबुद्धासने निसीदि. साकिया नाम मानजातिका मानत्थद्धा, ते ‘‘सिद्धत्थकुमारो अम्हेहि दहरतरो, अम्हाकं कनिट्ठो, भागिनेय्यो, पुत्तो, नत्ता’’ति चिन्तेत्वा दहरदहरे राजकुमारे आहंसु – ‘‘तुम्हे वन्दथ, मयं तुम्हाकं पिट्ठितो निसीदिस्सामा’’ति.
तेसु एवं अवन्दित्वा निसिन्नेसु भगवा तेसं अज्झासयं ओलोकेत्वा ‘‘न मं ञातयो वन्दन्ति, हन्द दानि ते वन्दापेस्सामी’’ति अभिञ्ञापादकं चतुत्थं झानं समापज्जित्वा ततो वुट्ठाय आकासं अब्भुग्गन्त्वा तेसं सीसे पादपंसुं ओकिरमानो विय कण्डम्बरुक्खमूले यमकपाटिहारियसदिसं पाटिहारियं अकासि. राजा तं अच्छरियं दिस्वा आह – ‘‘भन्ते, तुम्हाकं जातदिवसे कालदेवलस्स वन्दनत्थं उपनीतानं वोपादे परिवत्तेत्वा ब्राह्मणस्स मत्थके पतिट्ठिते दिस्वापि अहं तुम्हाकं पादे वन्दिं, अयं मे पठमवन्दना. वप्पमङ्गलदिवसे च जम्बुच्छायाय सिरिसयने निपन्नानं वोजम्बुच्छायाय अपरिवत्तनं दिस्वापि पादे वन्दिं, अयं मे दुतियवन्दना. इदानि पन इमं अदिट्ठपुब्बं पाटिहारियं दिस्वापि अहं तुम्हाकं पादे वन्दामि, अयं मे ततियवन्दना’’ति. रञ्ञा पन वन्दिते भगवन्तं अवन्दित्वा ठातुं समत्थो नाम एकसाकियोपि नाहोसि, सब्बे वन्दिंसुयेव.
इति भगवा ञातयो वन्दापेत्वा आकासतो ओतरित्वा पञ्ञत्तासने निसीदि. निसिन्ने भगवति सिखापत्तो ञातिसमागमो अहोसि, सब्बे एकग्गचित्ता हुत्वा निसीदिंसु. ततो महामेघो पोक्खरवस्सं वस्सि. तम्बवण्णं उदकं हेट्ठा विरवन्तं गच्छति, तेमितुकामोव तेमेति, अतेमितुकामस्स सरीरे एकबिन्दुमत्तम्पि न पतति. तं दिस्वा सब्बे अच्छरियब्भुतचित्ता जाता ‘‘अहो अच्छरियं, अहो अब्भुत’’न्ति कथं समुट्ठापेसुं. सत्था ‘‘न इदानेव मय्हं ञातिसमागमे पोक्खरवस्सं वस्सति, अतीतेपि वस्सी’’ति इमिस्सा अट्ठुप्पत्तिया वेस्सन्तरजातकं (जा. २.२२.१६५५ आदयो) कथेसि. धम्मकथं सुत्वा सब्बे उट्ठाय वन्दित्वा पक्कमिंसु. एकोपि राजा वा राजमहामत्तो वा ‘‘स्वे अम्हाकं भिक्खं गण्हथा’’ति वत्वा गतो नाम नत्थि.
सत्था पुनदिवसे वीसतिभिक्खुसहस्सपरिवुतो कपिलवत्थुं पिण्डाय पाविसि. तं न कोचि गन्त्वा निमन्तेसि, न पत्तं वा अग्गहेसि. भगवा इन्दखीले ठितोव आवज्जेसि – ‘‘कथं नु खो पुब्बबुद्धा कुलनगरे पिण्डाय चरिंसु, किं उप्पटिपाटिया इस्सरजनानं घरानि अगमंसु, उदाहु सपदानचारिकं चरिंसू’’ति? ततो एकबुद्धस्सपि उप्पटिपाटिया गमनं अदिस्वा ‘‘मयापि दानि अयमेव तेसं वंसो पग्गहेतब्बो, आयतिञ्च मम सावका ममञ्ञेव अनुसिक्खन्ता पिण्डचारिकवत्तं परिपूरेस्सन्ती’’ति कोटियं निविट्ठगेहतो पट्ठाय सपदानं पिण्डाय चरि. ‘‘अय्यो किर सिद्धत्थकुमारो पिण्डाय चरती’’ति द्विभूमिकतिभूमिकादीसु पासादेसु सीहपञ्जरं विवरित्वा महाजनो दस्सनब्यावटो अहोसि.
राहुलमातापि देवी – ‘‘अय्यपुत्तो किर इमस्मिंयेव नगरे महन्तेन राजानुभावेन सुवण्णसिविकादीहि विचरित्वा इदानि केसमस्सुं ओहारेत्वा कासायवत्थनिवासनो कपालहत्थो पिण्डाय चरति, सोभति नु खो’’ति सीहपञ्जरं विवरित्वा ओलोकयमाना भगवन्तं नानाविरागसमुज्जलाय सरीरप्पभाय नगरवीथियो ओभासेत्वा ब्यामप्पभापरिक्खेपसमुपब्यूळ्हाय असीतानुब्यञ्जनप्पभासिताय द्वत्तिंसमहापुरिसलक्खणपटिमण्डिताय अनोपमाय बुद्धसिरिया विरोचमानं दिस्वा उण्हीसतो पट्ठाय याव पादतला –
‘‘सिनिद्धनीलमुदुकुञ्चितकेसो, सूरियनिम्मलतलाभिनलाटो;
युत्ततुङ्गमुदुकायतनासो, रंसिजालविकसितो नरसीहो’’ति. –
एवमादिकाहि दसहि नरसीहगाथाहि अभित्थवित्वा ‘‘तुम्हाकं पुत्तो पिण्डाय चरती’’ति रञ्ञो आरोचेसि. राजा संविग्गहदयो हत्थेन साटकं सण्डपेन्तो तुरिततुरितो निक्खमित्वा वेगेन गन्त्वा भगवतो पुरतो ठत्वा आह – ‘‘किन्नु खो, भन्ते, अम्हे लज्जापेथ, किमत्थं पिण्डाय चरथ, किं ‘एत्तकानं भिक्खूनं न सक्का भत्तं लद्धु’न्ति सञ्ञं करित्था’’ति? ‘‘वंसचारित्तमेतं, महाराज, अम्हाक’’न्ति. ‘‘ननु, भन्ते, अम्हाकं वंसो नाम महासम्मतखत्तियवंसो, एत्थ च एकखत्तियोपि भिक्खाचरको नाम नत्थी’’ति. ‘‘अयं, महाराज, खत्तियवंसो नाम तव वंसो. अम्हाकं पन ‘दीपङ्करो कोण्डञ्ञो…पे… कस्सपो’ति अयं बुद्धवंसो नाम. एते च अञ्ञे च अनेकसहस्ससङ्खा बुद्धा भिक्खाचारेनेव जीविकं कप्पेसु’’न्ति अन्तरवीथियं ठितोव –
‘‘उत्तिट्ठे नप्पमज्जेय्य, धम्मं सुचरितं चरे;
धम्मचारी सुखं सेति, अस्मिं लोके परम्हि चा’’ति. (ध. प. १६८) –
इमं गाथमाह. गाथापरियोसाने राजा सोतापत्तिफले पतिट्ठासि.
‘‘धम्मञ्चरे सुचरितं, न नं दुच्चरितं चरे;
धम्मचारी सुखं सेति, अस्मिं लोके परम्हि चा’’ति. (ध. प. १६९) –
इमं गाथं सुत्वा सकदागामिफले पतिट्ठासि, महाधम्मपालजातकं (जा. १.१०.९२ आदयो) सुत्वा अनागामिफले पतिट्ठासि, मरणसमये सेतच्छत्तस्स हेट्ठा सिरिसयने निपन्नोयेव अरहत्तं पापुणि. अरञ्ञवासेन पधानानुयोगकिच्चं रञ्ञो नाहोसि. सो सोतापत्तिफलं सच्छिकत्वायेव पन भगवतो पत्तं गहेत्वा सपरिसं भगवन्तं महापासादं आरोपेत्वा पणीतेन खादनीयेन भोजनीयेन परिविसि. भत्तकिच्चपरियोसाने सब्बं इत्थागारं आगन्त्वा भगवन्तं वन्दि ठपेत्वा राहुलमातरं. सा पन ‘‘गच्छ, अय्यपुत्तं वन्दाही’’ति परिजनेन वुच्चमानापि ‘‘सचे मय्हं गुणो अत्थि, सयमेव मम सन्तिकं अय्यपुत्तो आगमिस्सति, आगतमेव नं वन्दिस्सामी’’ति वत्वा न अगमासि.
भगवा राजानं पत्तं गाहापेत्वा द्वीहि अग्गसावकेहि सद्धिं राजधीताय सिरिगब्भं गन्त्वा ‘‘राजधीता यथारुचि वन्दमाना न किञ्चि वत्तब्बा’’ति वत्वा पञ्ञत्तासने निसीदि. सा वेगेनागन्त्वा गोप्फकेसु गहेत्वा पादपिट्ठियं सीसं परिवत्तेत्वा यथाज्झासयं वन्दि. राजा राजधीताय भगवति सिनेहबहुमानादिगुणसम्पत्तिं कथेसि – ‘‘भन्ते, मम धीता ‘तुम्हेहि कासायानि वत्थानि निवासितानी’ति सुत्वा ततो पट्ठाय कासायवत्थनिवत्था जाता, तुम्हाकं एकभत्तिकभावं सुत्वा एकभत्तिकाव जाता, तुम्हेहि महासयनस्स छड्डितभावं सुत्वा पट्टिकामञ्चकेयेव निपन्ना, तुम्हाकं मालागन्धादीहि विरतभावं ञत्वा विरतमालागन्धाव जाता, अत्तनो ञातकेहि ‘मयं पटिजग्गिस्सामा’ति सासने पेसितेपि तेसु एकञातकम्पि न ओलोकेसि, एवं गुणसम्पन्ना मे, भन्ते, धीता’’ति. ‘‘अनच्छरियं, महाराज, अयं इदानि तया रक्खियमाना राजधीता परिपक्के ञाणे अत्तानं रक्खेय्य, एसा पुब्बे अनारक्खा पब्बतपादे विचरमाना अपरिपक्केपि ञाणे अत्तानं रक्खी’’ति वत्वा चन्दकिन्नरीजातकं (जा. १.१४.१८ आदयो) कथेत्वा उट्ठायासना पक्कामि.
पुनदिवसे पन नन्दस्स राजकुमारस्स अभिसेकगेहप्पवेसनविवाहमङ्गलेसु वत्तमानेसु तस्स गेहं गन्त्वा कुमारं पत्तं गाहापेत्वा पब्बाजेतुकामो मङ्गलं वत्वा उट्ठायासना पक्कामि. जनपदकल्याणी कुमारं गच्छन्तं दिस्वा ‘‘तुवटं खो, अय्यपुत्त, आगच्छेय्यासी’’ति वत्वा गीवं पसारेत्वा ओलोकेसि. सो भगवन्तं ‘‘पत्तं गण्हथा’’ति वत्तुं अविसहमानो विहारंयेव अगमासि. तं अनिच्छमानंयेव भगवा पब्बाजेसि. इति भगवा कपिलवत्थुं गन्त्वा ततियदिवसे नन्दं पब्बाजेसि.
सत्तमे दिवसे राहुलमातापि कुमारं अलङ्करित्वा भगवतो सन्तिकं पेसेसि – ‘‘पस्स, तात, एतं वीसतिसहस्ससमणपरिवुतं सुवण्णवण्णं ब्रह्मरूपवण्णं समणं, अयं ते पिता, एतस्स महन्ता निधयो अहेसुं त्यस्स निक्खमनकालतो पट्ठाय न पस्साम, गच्छ, नं दायज्जं याचाहि – ‘अहं, तात, कुमारो अभिसेकं पत्वा चक्कवत्ती भविस्सामि, धनेन मे अत्थो, धनं मे देहि. सामिको हि पुत्तो पितुसन्तकस्सा’’’ति. कुमारो च भगवतो सन्तिकं गन्त्वाव पितुसिनेहं लभित्वा हट्ठचित्तो ‘‘सुखा ते, समण, छाया’’ति वत्वा अञ्ञञ्च बहुं अत्तनो अनुरूपं वदन्तो अट्ठासि. भगवा कतभत्तकिच्चो अनुमोदनं वत्वा उट्ठायासना पक्कामि. कुमारोपि ‘‘दायज्जं मे, समण, देहि, दायज्जं मे, समण, देही’’ति भगवन्तं अनुबन्धि. न भगवा कुमारं निवत्तापेसि, परिजनोपि भगवता सद्धिं गच्छन्तं निवत्तेतुं नासक्खि. इति सो भगवता सद्धिं आराममेव अगमासि.
ततो भगवा चिन्तेसि – ‘‘यं अयं पितुसन्तकं धनं इच्छति, तं वट्टानुगतं सविघातं, हन्दस्स मे बोधिमण्डे पटिलद्धं सत्तविधं अरियधनं देमि, लोकुत्तरदायज्जस्स नं सामिकं करोमी’’ति आयस्मन्तं सारिपुत्तं आमन्तेसि – ‘‘तेन हि, सारिपुत्त, राहुलं पब्बाजेही’’ति. थेरो तं पब्बाजेसि. पब्बजिते च पन कुमारे रञ्ञो अधिमत्तं दुक्खं उप्पज्जि, तं अधिवासेतुं असक्कोन्तो भगवन्तं उपसङ्कमित्वा ‘‘साधु, भन्ते, अय्या मातापितूहि अननुञ्ञातं पुत्तं न पब्बाजेय्यु’’न्ति वरं याचि. भगवा च तस्स वरं दत्वा पुनेकदिवसे राजनिवेसने कतभत्तकिच्चो एकमन्तं निसिन्नेन रञ्ञा ‘‘भन्ते, तुम्हाकं दुक्करकारिककाले एका देवता मं उपसङ्कमित्वा ‘पुत्तो ते कालङ्कतो’ति आह, तस्सा वचनं असद्दहन्तो ‘न मय्हं पुत्तो सम्बोधिं अप्पत्वा कालं करोती’ति तं पटिक्खिपि’’न्ति वुत्ते ‘‘तुम्हे इदानि किं सद्दहिस्सथ, ये तुम्हे पुब्बेपि अट्ठिकानि दस्सेत्वा ‘पुत्तो ते मतो’ति वुत्ते न सद्दहित्था’’ति इमिस्सा अट्ठुप्पत्तिया महाधम्मपालजातकं कथेसि. कथापरियोसाने राजा अनागामिफले पतिट्ठहि.
इति भगवा पितरं तीसु फलेसु पतिट्ठापेत्वा भिक्खुसङ्घपरिवुतो पुनदेव राजगहं गन्त्वा सीतवने विहासि. तस्मिं समये अनाथपिण्डिको गहपति पञ्चहि सकटसतेहि भण्डं आदाय राजगहं गन्त्वा अत्तनो पियसहायकस्स सेट्ठिनो गेहं गन्त्वा तत्थ बुद्धस्स भगवतो उप्पन्नभावं सुत्वा बलवपच्चूसे देवतानुभावेन विवटेन द्वारेन सत्थारं उपसङ्कमित्वा धम्मं सुत्वा सोतापत्तिफले पतिट्ठाय, दुतिये दिवसे बुद्धप्पमुखस्स सङ्घस्स महादानं दत्वा सावत्थिं आगमनत्थाय सत्थु पटिञ्ञं गहेत्वा अन्तरामग्गे पञ्चचत्तालीसयोजनट्ठाने सतसहस्सं दत्वा योजनिके योजनिके विहारं कारेत्वा जेतवनं कोटिसन्थारेन अट्ठारसहि हिरञ्ञकोटीहि किणित्वा नवकम्मं पट्ठपेसि. सो मज्झे दसबलस्स गन्धकुटिं कारेसि, तं परिवारेत्वा असीतिया महाथेरानं पाटियेक्कं एकसन्निवेसने आवासे एककुटिकद्विकुटिकहंसवट्टकदीघरस्ससालामण्डपादिवसेन सेससेनासनानि पोक्खरणिचङ्कमनरत्तिट्ठानदिवाट्ठानानि चाति अट्ठारसकोटिपरिच्चागेन रमणीये भूमिभागे मनोरमं विहारं कारेत्वा दसबलस्स आगमनत्थाय दूतं पाहेसि. सत्था तस्स वचनं सुत्वा महाभिक्खुसङ्घपरिवारो राजगहा निक्खमित्वा अनुपुब्बेन सावत्थिनगरं पापुणि.
महासेट्ठिपि खो विहारमहं सज्जेत्वा तथागतस्स जेतवनं पविसनदिवसे पुत्तं सब्बालङ्कारपटिमण्डितं कत्वा अलङ्कतपटियत्तेहेव पञ्चहि कुमारसतेहि सद्धिं पेसेसि. सो सपरिवारो पञ्चवण्णवत्थसमुज्जलानि पञ्च धजसतानि गहेत्वा दसबलस्स पुरतो अहोसि, तेसं पच्छतो महासुभद्दा चूळसुभद्दाति द्वे सेट्ठिधीतरो पञ्चहि कुमारिकासतेहि सद्धिं पुण्णघटे गहेत्वा निक्खमिंसु, तासं पच्छतो सेट्ठिभरिया सब्बालङ्कारपटिमण्डिता पञ्चहि मातुगामसतेहि सद्धिं पुण्णपातियो गहेत्वा निक्खमि, सब्बेसं पच्छतो महासेट्ठि अहतवत्थनिवत्थो अहतवत्थनिवत्थेहेव पञ्चहि सेट्ठिसतेहि सद्धिं भगवन्तं अब्भुग्गञ्छि. भगवा इमं उपासकपरिसं पुरतो कत्वा महाभिक्खुसङ्घपरिवुतो अत्तनो सरीरप्पभाय सुवण्णरससेकसिञ्चनानि विय वनन्तरानि कुरुमानो अनन्ताय बुद्धलीलाय अपरिमाणाय बुद्धसिरिया जेतवनविहारं पाविसि.
अथ नं अनाथपिण्डिको आपुच्छि – ‘‘कथाहं, भन्ते, इमस्मिं विहारे पटिपज्जामी’’ति? ‘‘तेन हि, गहपति, इमं विहारं आगतानागतस्स चातुद्दिसस्स भिक्खुसङ्घस्स पतिट्ठापेही’’ति. ‘‘साधु, भन्ते’’ति महासेट्ठि सुवण्णभिङ्गारं आदाय दसबलस्स हत्थे उदकं पातेत्वा ‘‘इमं जेतवनविहारं आगतानागतस्स चातुद्दिसस्स बुद्धप्पमुखस्स भिक्खुसङ्घस्स दम्मी’’ति अदासि. सत्था विहारं पटिग्गहेत्वा अनुमोदनं करोन्तो –
‘‘सीतं उण्हं पटिहन्ति, ततो वाळमिगानि च;
सरीसपे च मकसे, सिसिरे चापि वुट्ठियो.
‘‘ततो वातातपो घोरो, सञ्जातो पटिहञ्ञति;
लेणत्थञ्च सुखत्थञ्च, झायितुञ्च विपस्सितुं.
‘‘विहारदानं सङ्घस्स, अग्गं बुद्धेन वण्णितं;
तस्मा हि पण्डितो पोसो, सम्पस्सं अत्थमत्तनो.
‘‘विहारे कारये रम्मे, वासयेत्थ बहुस्सुते;
तेसं अन्नञ्च पानञ्च, वत्थसेनासनानि च.
‘‘ददेय्य उजुभूतेसु, विप्पसन्नेन चेतसा;
ते तस्स धम्मं देसेन्ति, सब्बदुक्खापनूदनं;
यं सो धम्मं इधञ्ञाय, परिनिब्बाति अनासवो’’ति. (चूळव. २९५) –
विहारानिसंसं कथेसि. अनाथपिण्डिको दुतियदिवसतो पट्ठाय विहारमहं आरभि. विसाखाय विहारमहो चतूहि मासेहि निट्ठितो, अनाथपिण्डिकस्स पन विहारमहो नवहि मासेहि निट्ठासि. विहारमहेपि अट्ठारसेव कोटियो परिच्चागं अगमंसु. इति एकस्मिंयेव विहारे चतुपण्णासकोटिसङ्खं धनं परिच्चजि.
अतीते पन विपस्सिस्स भगवतो काले पुनब्बसुमित्तो नाम सेट्ठि सुवण्णिट्ठकासन्थारेन किणित्वा तस्मिंयेव ठाने योजनप्पमाणं सङ्घारामं कारेसि. सिखिस्स पन भगवतो काले सिरिवड्ढो नाम सेट्ठि सुवण्णफालसन्थारेन किणित्वा तस्मिंयेव ठाने तिगावुतप्पमाणं सङ्घारामं कारेसि. वेस्सभुस्स भगवतो काले सोत्थियो नाम सेट्ठि सुवण्णहत्थिपदसन्थारेन किणित्वा तस्मिंयेव ठाने अड्ढयोजनप्पमाणं सङ्घारामं कारेसि. ककुसन्धस्स भगवतो काले अच्चुतो नाम सेट्ठि सुवण्णिट्ठकासन्थारेन किणित्वा तस्मिंयेव ठाने गावुतप्पमाणं सङ्घारामं कारेसि. कोणागमनस्स भगवतो काले उग्गो नाम सेट्ठि सुवण्णकच्छपसन्थारेन किणित्वा तस्मिंयेव ठाने अड्ढगावुतप्पमाणं सङ्घारामं कारेसि. कस्सपस्स भगवतो काले सुमङ्गलो नाम सेट्ठि सुवण्णयट्ठिसन्थारेन किणित्वा तस्मिंयेव ठाने सोळसकरीसप्पमाणं सङ्घारामं कारेसि. अम्हाकं पन भगवतो काले अनाथपिण्डिको नाम सेट्ठि कहापणकोटिसन्थारेन किणित्वा तस्मिंयेव ठाने अट्ठकरीसप्पमाणं सङ्घारामं कारेसि. इदं किर ठानं सब्बबुद्धानं अविजहितट्ठानमेव.
इति महाबोधिमण्डे सब्बञ्ञुतप्पत्तितो याव महापरिनिब्बानमञ्चा यस्मिं यस्मिं ठाने भगवा विहासि, इदं सन्तिकेनिदानं नामाति वेदितब्बं.
सन्तिकेनिदानकथा निट्ठिता.
निदानकथा निट्ठिता.