२. अभिधम्मभाजनीयवण्णना
२४३. एवं महापथविं पत्थरन्तो विय आकासं वित्थारयन्तो विय च सब्बधम्मेसु अप्पटिहतञाणो सत्था सुत्तन्तभाजनीये निग्गण्ठिं निज्जटं पच्चयाकारं नानाचित्तवसेन दस्सेत्वा इदानि यस्मा न केवलं अयं पच्चयाकारो नानाचित्तेसुयेव होति, एकचित्तेपि होतियेव, तस्मा अभिधम्मभाजनीयवसेन एकचित्तक्खणिकं पच्चयाकारं नानप्पकारतो दस्सेतुं अविज्जापच्चया सङ्खारोतिआदिना नयेन मातिकं ताव ठपेसि. एवं ठपिताय पन मातिकाय –
अविज्जादीहि मूलेहि, नव मूलपदा नव;
नया तत्थ चतुक्कानि, वारभेदञ्च दीपये.
तत्रायं दीपना – एत्थ हि अविज्जासङ्खारविञ्ञाणनामछट्ठायतनफस्सवेदनातण्हाउपादानप्पभेदेहि अविज्जादीहि नवहि मूलपदेहि अविज्जादिको, सङ्खारादिको, विञ्ञाणादिको, नामादिको, छट्ठायतनादिको, फस्सादिको, वेदनादिको, तण्हादिको, उपादानादिकोति इमे नव मूलपदा नव नया होन्ति.
तेसु यो ताव अयं अविज्जादिको नयो, तत्थ पच्चयचतुक्कं, हेतुचतुक्कं, सम्पयुत्तचतुक्कं, अञ्ञमञ्ञचतुक्कन्ति चत्तारि चतुक्कानि होन्ति. यथा चेत्थ एवं सेसेसुपीति एकेकस्मिं नये चतुन्नं चतुन्नं चतुक्कानं वसेन छत्तिंस चतुक्कानि. तत्थ एकेकेन चतुक्केन चतुन्नं चतुन्नं वारानं सङ्गहितत्ता चतुन्नम्पि चतुक्कानं वसेन एकेकस्मिं नये सोळस सोळस वाराति चतुचत्तालीसाधिकं वारसतं होतीति वेदितब्बं.
१. पच्चयचतुक्कं
तत्थ यदेतं सब्बपठमे अविज्जामूलके नये पच्चयचतुक्कं, तस्मिं पठमो नामरूपट्ठाने नामस्स, सळायतनट्ठाने छट्ठायतनस्स च वुत्तत्ता अपरिपुण्णअङ्गद्वययुत्तो द्वादसङ्गिकवारो नाम. दुतियो नामरूपट्ठाने नामस्सेव, सळायतनट्ठाने च न कस्सचि वुत्तत्ता अपरिपुण्णएकङ्गयुत्तो एकादसङ्गिकवारो नाम. ततियो सळायतनट्ठाने छट्ठायतनस्स वुत्तत्ता परिपुण्णएकङ्गयुत्तो द्वादसङ्गिकवारो नाम. चतुत्थो पन परिपुण्णद्वादसङ्गिकोयेव.
तत्थ सिया – अयम्पि छट्ठायतनपच्चया फस्सोति वुत्तत्ता अपरिपुण्णेकङ्गयुत्तोयेवाति? न, तस्स अनङ्गत्ता. फस्सोयेव हेत्थ अङ्गं, न छट्ठायतनं. तस्मा तस्स अनङ्गत्ता नायं अपरिपुण्णेकङ्गयुत्तोति. अट्ठकथायं पन वुत्तं – ‘‘पठमो सब्बसङ्गाहिकट्ठेन, दुतियो पच्चयविसेसट्ठेन, ततियो गब्भसेय्यकसत्तानं वसेन, चतुत्थो ओपपातिकसत्तानं वसेन गहितो. तथा पठमो सब्बसङ्गाहिकट्ठेन, दुतियो पच्चयविसेसट्ठेन, ततियो अपरिपुण्णायतनवसेन, चतुत्थो परिपुण्णायतनवसेन गहितो. तथा पठमो सब्बसङ्गाहिकट्ठेन, दुतियो महानिदानसुत्तन्तवसेन (दी. नि. २.९५ आदयो), ततियो रूपभववसेन, चतुत्थो कामभववसेन गहितो’’ति.
तत्थ पठमो इमेसु दुतियादीसु तीसु वारेसु न कत्थचि न पविसतीति सब्बसङ्गाहिकोति वुत्तो. सेसानं विसेसो परतो आविभविस्सति. तस्साविभावत्थं –
यं यत्थ अञ्ञथा वुत्तं, अवुत्तञ्चापि यं यहिं;
यं यथा पच्चयो यस्स, तं सब्बमुपलक्खये.
तत्रायं नयो – अविसेसेन ताव चतूसुपि एतेसु सुत्तन्तभाजनिये विय सङ्खाराति अवत्वा सङ्खारोति वुत्तं, तं कस्माति? एकचित्तक्खणिकत्ता. तत्र हि नानाचित्तक्खणिको पच्चयाकारो विभत्तो. इध एकचित्तक्खणिको आरद्धो. एकचित्तक्खणे च बहू चेतना न सन्तीति सङ्खाराति अवत्वा सङ्खारोति वुत्तं.
पठमवारे पनेत्थ एकचित्तक्खणपरियापन्नधम्मसङ्गहणतो सब्बट्ठानसाधारणतो च रूपं छड्डेत्वा ‘‘विञ्ञाणपच्चया नाम’’न्त्वेव वुत्तं. तञ्हि एकचित्तक्खणपरियापन्नं सब्बट्ठानसाधारणञ्च, न कत्थचि विञ्ञाणप्पवत्तिट्ठाने न पवत्तति. यस्मा च एकचित्तक्खणपरियापन्नो एकोवेत्थ फस्सो, तस्मा तस्सानुरूपं पच्चयभूतं आयतनं गण्हन्तो सळायतनट्ठाने ‘‘नामपच्चया छट्ठायतन’’न्ति एकं मनायतनंयेव आह. तञ्हि एकस्स अकुसलफस्सस्स अनुरूपं पच्चयभूतं. कामञ्चेतं सङ्खारपच्चया विञ्ञाणन्ति एत्थापि वुत्तं, हेतुफलविसेसदस्सनत्थं पन अङ्गपुण्णत्थञ्च पुन इध गहितं. तत्र हि एतस्स विसेसेन सङ्खारो हेतु, अविसेसेन नामं फलं. इध पनस्स अविसेसेन नामं हेतु, विसेसेन फस्सो फलन्ति. सोकादयो पन यस्मा सब्बे एकचित्तक्खणे न सम्भवन्ति, सब्बस्मिञ्च चित्तप्पवत्तिट्ठाने चेव चित्ते च न पवत्तन्ति, तस्मा न गहिता. जातिजरामरणानि पन अचित्तक्खणमत्तानिपि समानानि चित्तक्खणे अन्तोगधत्ता अङ्गपरिपूरणत्थं गहितानि. एवं तावेत्थ ‘यं अञ्ञथा वुत्तं. यञ्च अवुत्तं’ तं वेदितब्बं.
यं पनेत्थ इतो परेसु वारेसु वुत्तं, तस्सत्थो वुत्तनयेनेव वेदितब्बो. यस्मिं यस्मिं पन वारे यो यो विसेसो आगतो, तं तं तत्थ तत्थेव पकासयिस्साम.
‘यं यथा पच्चयो यस्सा’ति एत्थ पन सङ्खारस्स अविज्जा सम्पयुत्तधम्मसाधारणेहि सहजातअञ्ञमञ्ञनिस्सयसम्पयुत्तअत्थिअविगतपच्चयेहि छहि हेतुपच्चयेन चाति सत्तधा पच्चयो. तत्थ यस्मा परतो हेतुचतुक्कादीनि तीणि चतुक्कानि अविगतसम्पयुत्तअञ्ञमञ्ञपच्चयवसेन वुत्तानि, तस्मा इध तानि अपनेत्वा अवसेसानं वसेन अविज्जा सङ्खारस्स चतुधा पच्चयोति वेदितब्बो.
सङ्खारो विञ्ञाणस्स साधारणेहि छहि, कम्माहारपच्चयेहि चाति अट्ठधा पच्चयो. इध पन तेयेव तयो अपनेत्वा पञ्चधा. विञ्ञाणं नामस्स साधारणेहि छहि, इन्द्रियाहाराधिपतीहि चाति नवधा. इध पन तयो अपनेत्वा छधा. नामं छट्ठायतनस्स साधारणेहि छहि. किञ्चि पनेत्थ अधिपतिपच्चयेन, किञ्चि आहारपच्चयादीहीति अनेकधा. इध पन तेयेव तयो अपनेत्वा तिधा चतुधा पञ्चधा वा. छट्ठायतनं फस्सस्स यथा विञ्ञाणं नामस्स. एवं फस्सो वेदनाय साधारणेहि छहि आहारपच्चयेन चाति सत्तधा. इध पन तेयेव तयो अपनेत्वा चतुधा. वेदना तण्हाय साधारणेहि छहि झानिन्द्रियपच्चयेहि चाति अट्ठधा. इध पन तेयेव तयो अपनेत्वा पञ्चधा. तण्हा उपादानस्स, यथा अविज्जा सङ्खारस्स. एवं उपादानं भवस्स साधारणेहि छहि मग्गपच्चयेन चाति सत्तधा. इध पन तेयेव तयो अपनेत्वा चतुधा. भवो जातिया, यस्मा जातीति इध सङ्खतलक्खणं अधिप्पेतं, तस्मा परियायेन उपनिस्सयपच्चयेनेव पच्चयो. तथा जाति जरामरणस्साति.
ये पन एवं वदन्ति – ‘‘इमस्मिं चतुक्के सब्बेसम्पि सङ्खारादीनं अविज्जादयो सहजातपच्चयेन पच्चया होन्ति. सहजातपच्चयवसेनेव हि पठमवारो आरद्धो’’ति, ते भवादीनं तथा अभावं सेसपच्चयानञ्च सम्भवं दस्सेत्वा पटिक्खिपितब्बा. न हि भवो जातिया सहजातपच्चयो होति, न जाति जरामरणस्स. ये चेतेसं सङ्खरादीनं अवसेसा पच्चया वुत्ता, तेपि सम्भवन्तियेव. तस्मा न सक्का छड्डेतुन्ति. एवं ताव पठमवारे यं यत्थ अञ्ञथा वुत्तं, अवुत्तञ्चापि यं यहिं, यञ्च यथा यस्स पच्चयो होति, तं वेदितब्बं. दुतियवारादीसुपि एसेव नयो.
अयं पन विसेसो – दुतियवारे ‘‘नामपच्चया फस्सो’’ति वत्वा सळायतनट्ठाने न किञ्चि वुत्तं, तं किमत्थन्ति? पच्चयविसेसदस्सनत्थञ्चेव महानिदानदेसनासङ्गहत्थञ्च. फस्सस्स हि न केवलञ्च छट्ठायतनमेव पच्चयो, वेदनाक्खन्धादयो पन तयो खन्धापि पच्चयायेव. महानिदानसुत्तन्ते चस्स ‘‘अत्थि इदप्पच्चया फस्सोति इति पुट्ठेन सता, आनन्द, अत्थीतिस्स वचनीयं. किं पच्चया फस्सोति? इति चे वदेय्य, नामपच्चया फस्सोति इच्चस्स वचनीय’’न्ति (दी. नि. २.९६). एवं सळायतनं छड्डेत्वा एकादसङ्गिको पटिच्चसमुप्पादो वुत्तो. तस्मा इमस्स पच्चयविसेसस्स दस्सनत्थं इमिस्सा च महानिदानसुत्तन्तदेसनाय परिग्गहत्थं दुतियवारे ‘‘नामपच्चया फस्सो’’ति वत्वा सळायतनट्ठाने न किञ्चि वुत्तन्ति. एस ताव दुतियवारे विसेसो.
ततियवारे पन ‘‘विञ्ञाणपच्चया नामरूप’’न्ति सुत्तन्तभाजनीये आगतमेव चतुत्थमङ्गं वुत्तं, तं एकचित्तक्खणिकत्ता पच्चयाकारस्स इध अयुत्तन्ति चे? तं नायुत्तं. कस्मा? सकक्खणे पच्चयभावतो. सचेपि हि तत्थ रूपं चित्तक्खणतो उद्धं तिट्ठति, तथापिस्स तं विञ्ञाणं सकक्खणे पच्चयो होति. कथं? पुरेजातस्स ताव चित्तसमुट्ठानस्स अञ्ञस्स वा पच्छाजातपच्चयेन. वुत्तञ्चेतं ‘‘पच्छाजाता चित्तचेतसिका धम्मा पुरेजातस्स इमस्स कायस्स पच्छाजातपच्चयेन पच्चयो’’ति (पट्ठा. १.१.११). सहजातस्स पन चित्तसमुट्ठानस्स निस्सयपच्चयेन पच्चयो. यथाह ‘‘चित्तचेतसिका धम्मा चित्तसमुट्ठानानं रूपानं निस्सयपच्चयेन पच्चयो’’ति (पट्ठा. १.१.८).
यदि एवं, पुरिमवारेसु कस्मा एवं न वुत्तन्ति? रूपप्पवत्तिदेसं सन्धाय देसितत्ता. अयञ्हि पच्चयाकारो रूपप्पवत्तिदेसे कामभवे गब्भसेय्यकानञ्चेव अपरिपुण्णायतनओपपातिकानञ्च रूपावचरदेवानञ्च वसेन देसितो. तेनेवेत्थ ‘‘नामरूपपच्चया सळायतन’’न्ति अवत्वा छट्ठायतनन्ति वुत्तं. तत्थ नामं हेट्ठा वुत्तनयमेव. रूपं पन हदयरूपं वेदितब्बं. तं पनेतस्स छट्ठायतनस्स निस्सयपच्चयेन चेव पुरेजातपच्चयेन चाति द्विधा पच्चयो होतीति एस ततियवारे विसेसो.
चतुत्थवारो पन योनिवसेन ओपपातिकानं, आयतनवसेन परिपुण्णायतनानं, भववसेन कामावचरसत्तानं वसेन वुत्तो. तेनेवेत्थ ‘‘नामरूपपच्चया सळायतन’’न्ति वुत्तं. तत्थ नामं छट्ठायतनस्स सहजातादीहि, चक्खायतनादीनं पच्छाजातपच्चयेन. रूपे हदयरूपं छट्ठायतनस्स निस्सयपच्चयपुरेजातपच्चयेहि, चत्तारि महाभूतानि चक्खायतनादीनं सहजातनिस्सयअत्थिअविगतेहि. यस्मा पनेस एकचित्तक्खणिको पच्चयाकारो, तस्मा एत्थ सळायतनपच्चयाति अवत्वा ‘‘छट्ठायतनपच्चया फस्सो’’ति वुत्तोति अयं चतुत्थवारे विसेसो.
एवमेतेसं नानाकरणं ञत्वा पुन सब्बेस्वेव तेसु विसेसेन पठमका द्वे वारा अरूपभवे पच्चयाकारदस्सनत्थं वुत्ताति वेदितब्बा. अरूपभवस्मिञ्हि रूपेन असम्मिस्सानि पटिच्चसमुप्पादङ्गानि पवत्तन्ति. ततियो रूपभवे पच्चयाकारदस्सनत्थं वुत्तो. रूपभवस्मिञ्हि सतिपि रूपसम्मिस्सत्ते सळायतनं न पवत्तति. चतुत्थो कामभवे पच्चयाकारदस्सनत्थं वुत्तो. कामभवस्मिञ्हि सकलं सळायतनं पवत्तति. ततियो वा रूपभवे चेव कामभवे च अपरिपुण्णायतनानं अकुसलप्पवत्तिक्खणं सन्धाय वुत्तो. चतुत्थो वा कामभवे परिपुण्णायतनानं. पठमो वा सब्बत्थगामितं सन्धाय वुत्तो. सो हि न कत्थचि चित्तप्पवत्तिदेसे न पवत्तति. दुतियो पच्चयविसेसं सन्धाय वुत्तो. एकादसङ्गिकत्तञ्हेत्थ फस्सस्स च नामपच्चयत्तं पच्चयविसेसो. ततियो पुरिमयोनिद्वयं सन्धाय वुत्तो. पुरिमासु हि द्वीसु योनीसु सो सम्भवति, तत्थ सदा सळायतनस्स असम्भवतो. चतुत्थो पच्छिमयोनिद्वयं सन्धाय वुत्तो. पच्छिमासु हि सो द्वीसु योनीसु सम्भवति, तत्थ सदा सळायतनस्स सम्भवतोति.
एत्तावता च यं वुत्तं चतूसुपि वारेसु –
यं यत्थ अञ्ञथा वुत्तं, अवुत्तञ्चापि यं यहिं;
यं यथा पच्चयो यस्स, तं सब्बमुपलक्खयेति.
गाथाय अत्थदीपना कता होति.
एतेनेवानुसारेन, सब्बमेतं नयं इतो;
विसेसो यो च तं जञ्ञा, चतुक्केसु परेसुपि.
२. हेतुचतुक्कं
२४४. तत्थ यो ताव इध वुत्तो नयो, सो सब्बत्थ पाकटोयेव. विसेसो पन एवं वेदितब्बो – हेतुचतुक्के ताव अविज्जा हेतु अस्साति अविज्जाहेतुको. अविज्जा अस्स सहवत्तनतो यावभङ्गा पवत्तिका गमिकाति वुत्तं होति. ‘‘अविज्जापच्चया’’ति च एत्तावता सहजातादिपच्चयवसेन साधारणतो सङ्खारस्स अविज्जा पच्चयोति दस्सेत्वा, पुन ‘‘अविज्जाहेतुको’’ति एतेनेव विसेसतो अविगतपच्चयता दस्सिता. सङ्खारपच्चया विञ्ञाणं सङ्खारहेतुकन्तिआदीसुपि एसेव नयो.
कस्मा पन भवादीसु हेतुकग्गहणं न कतन्ति? अविगतपच्चयनियमाभावतो अभावतो च अविगतपच्चयस्स. ‘‘तत्थ कतमो उपादानपच्चया भवो? ठपेत्वा उपादानं वेदनाक्खन्धो सञ्ञाक्खन्धो सङ्खारक्खन्धो विञ्ञाणक्खन्धो – अयं वुच्चति उपादानपच्चया भवो’’ति वचनतो उपादानपच्चया चतुन्नं खन्धानं इध भवोति नामं. सङ्खारक्खन्धे च ‘‘जाति द्वीहि खन्धेहि सङ्गहिता’’तिआदिवचनतो (धातु. ७१) जातिजरामरणानि अन्तोगधानि.
तत्थ याव उपादानं ताव जातिजरामरणानं अनुपलब्भनतो उपादानं भवस्स न नियमतो अविगतपच्चयो होति. ‘‘या तेसं तेसं धम्मानं जाती’’ति आदिवचनतो सङ्खतलक्खणेसु जातिया जरामरणसङ्खातस्स भवस्स जातिक्खणमत्तेयेव अभावतो अविगतपच्चयभावो न सम्भवति. तथा जातिया जरामरणक्खणे अभावतो. उपनिस्सयपच्चयेनेव पन भवो जातिया. जाति जरामरणस्स पच्चयोति सब्बथापि अविगतपच्चयनियमाभावतो अभावतो च अविगतपच्चयस्स भवादीसु हेतुकग्गहणं न कतन्ति वेदितब्बं.
केचि पनाहु – ‘‘भवो दुविधेना’’ति वचनतो उपपत्तिमिस्सको भवो, न च उपपत्तिभवस्स उपादानं अविगतपच्चयो होतीति ‘‘उपादानपच्चया भवो उपादानहेतुको’’ति अवत्वा ‘‘उपादानपच्चया भवो’’ति वुत्तो. इध पच्छिन्नत्ता परतोपि न वुत्तन्ति. तं इध उपपत्तिमिस्सकस्स भवस्स अनधिप्पेतत्ता अयुत्तं. अरूपक्खन्धा हि इध भवोति आगता.
भवपच्चया जातीति एत्थ च ठपेत्वा जातिजरामरणानि अवसेसो भवो जातिया पच्चयोति वेदितब्बो. कस्मा? जातिआदीनं जातिया अप्पच्चयत्ता. यदि एवं, ठपेत्वा जातिजरामरणानि भवो जातिया पच्चयोति वत्तब्बोति? आम वत्तब्बो, वत्तब्बपदेसाभावतो पन न वुत्तो. दसमङ्गनिद्देसे हि उपादानपच्चयसम्भूतो भवो वत्तब्बो. एकादसमङ्गनिद्देसे जाति वत्तब्बा. यो पन भवो जातिया पच्चयो, तस्स वत्तब्बपदेसो नत्थीति वत्तब्बपदेसाभावतो न वुत्तो. अवुत्तोपि पन युत्तितो गहेतब्बोति. विञ्ञाणपच्चया नामरूपन्तिआदीसु च विञ्ञाणादीनं अविगतपच्चयभावसम्भवतो विञ्ञाणहेतुकादिवचनं कतन्ति एस हेतुचतुक्के विसेसो.
३. सम्पयुत्तचतुक्कं
२४५. सम्पयुत्तचतुक्केपि अविज्जापच्चयाति एत्तावता सहजातादिपच्चयवसेन सङ्खारस्स अविज्जापच्चयतं दस्सेत्वा पुन ‘‘अविज्जासम्पयुत्तो’’ति सम्पयुत्तपच्चयता दस्सिता. सेसपदेसुपि एसेव नयो. यस्मा पन अरूपीनं धम्मानं रूपधम्मेहि सम्पयोगो नत्थि, तस्मा विञ्ञाणपच्चया नामरूपन्तिआदीसु ततियचतुत्थवारपदेसु ‘‘विञ्ञाणसम्पयुत्तं नाम’’न्तिआदिना नयेन यं लब्भति, तदेव गहितन्ति एस सम्पयुत्तचतुक्के विसेसो.
४. अञ्ञमञ्ञचतुक्कं
२४६. अञ्ञमञ्ञचतुक्केपि अविज्जापच्चयाति सहजातादिपच्चयवसेन सङ्खारस्स अविज्जापच्चयतं दस्सेत्वा ‘‘सङ्खारपच्चयापि अविज्जा’’ति अञ्ञमञ्ञपच्चयता दस्सिता. सेसपदेसुपि एसेव नयो. यस्मा पन भवो निप्पदेसो, उपादानं सप्पदेसं, सप्पदेसधम्मो च निप्पदेसधम्मस्स पच्चयो होति, न निप्पदेसधम्मो सप्पदेसधम्मस्स, तस्मा एत्थ ‘‘भवपच्चयापि उपादान’’न्ति न वुत्तं; हेट्ठा वा देसनाय पच्छिन्नत्ता एवं न वुत्तं. यस्मा च नामरूपपच्चया सळायतनं अत्थि, सळायतनपच्चया एकचित्तक्खणे नामरूपं नत्थि, यस्स सळायतनं अञ्ञमञ्ञपच्चयो भवेय्य, तस्मा चतुत्थवारे ‘‘छट्ठायतनपच्चयापि नामरूप’’न्ति यं लब्भति तदेव गहितन्ति एस अञ्ञमञ्ञचतुक्के विसेसो.
अविज्जामूलकनयमातिका.
सङ्खारादिमूलकनयमातिका
२४७. इदानि सङ्खारपच्चया अविज्जाति सङ्खारमूलकनयो आरद्धो. तत्थापि यथा अविज्जामूलके एवं चत्तारि चतुक्कानि सोळस च वारा वेदितब्बा. पठमचतुक्के पन पठमवारमेव दस्सेत्वा देसना संखित्ता. यथा चेत्थ एवं विञ्ञाणमूलकादीसुपि. तत्थ सब्बेस्वेव तेसु सङ्खारमूलकादीसु अट्ठसु नयेसु ‘‘सङ्खारपच्चया अविज्जा’’तिआदिना नयेन सहजातादिपच्चयवसेन अविज्जाय सङ्खारादिपच्चयतं दस्सेत्वा पुन ‘‘अविज्जापच्चया सङ्खारा’’तिआदिना नयेन एकचित्तक्खणेपि पच्चयाकारचक्कस्स पवत्ति दस्सिता.
कस्मा पन भवमूलका जातिजरामरणमूलका वा नया न वुत्ता? किं भवपच्चया अविज्जा न होतीति? नो न होति. ‘‘सङ्खारपच्चया अविज्जा’’ति एवमादीसु पन वुच्चमानेसु न कोचि भवपरियापन्नो धम्मो अविज्जाय पच्चयो न वुत्तो. तस्मा अपुब्बस्स अञ्ञस्स अविज्जापच्चयस्स वत्तब्बस्स अभावतो भवमूलको नयो न वुत्तो. भवग्गहणेन च अविज्जापि सङ्गहं गच्छति. तस्मा ‘‘भवपच्चया अविज्जा’’ति वुच्चमाने ‘‘अविज्जापच्चया अविज्जा’’तिपि वुत्तं सिया. न च एकचित्तक्खणे अविज्जा अविज्जाय पच्चयो नाम होति. तत्थ पच्छिन्नत्ताव जातिजरामरणमूलकापि नया न गहिता. अपिच भवे जातिजरामरणानिपि अन्तोगधानि. न चेतानि एकचित्तक्खणे अविज्जाय पच्चया होन्तीति भवमूलका जातिजरामरणमूलका वा नया न वुत्ताति.
मातिकावण्णना.
अकुसलनिद्देसवण्णना
२४८-२४९. इदानि यथा हेट्ठा चित्तुप्पादकण्डे कुसलत्तिकं आदिं कत्वा निक्खित्तमातिकाय पटिपाटिया पठमं कुसलं भाजितं, तथा इध मातिकाय अनिक्खित्तत्ता पठमं कुसलं अनामसित्वा ‘‘अविज्जापच्चया सङ्खारो’’ति अकुसलधम्मवसेन मातिकाय निक्खित्तत्ता निक्खेपपटिपाटियाव अविज्जादीनि पटिच्चसमुप्पादङ्गानि भाजेत्वा दस्सेतुं कतमे धम्मा अकुसलातिआदिमाह. तस्सत्थो हेट्ठा चित्तुप्पादकण्डे (ध. स. अट्ठ. ३६५) वुत्तनयेनेव वेदितब्बो. यस्मा पन एकचित्तक्खणे तण्हाय च कामुपादानस्स च सम्भवो नत्थि, तस्मा यं एत्थ तण्हापच्चया उपादानं लब्भति, तदेव दस्सेतुं दिट्ठि दिट्ठिगतन्तिआदि वुत्तं.
भवनिद्देसे च यस्मा उपादानं सङ्खारक्खन्धे सङ्गहं गच्छति, तस्मा ‘‘ठपेत्वा उपादानं वेदनाक्खन्धो सञ्ञाक्खन्धो सङ्खारक्खन्धो विञ्ञाणक्खन्धो’’ति वुत्तं. एवञ्हि वुच्चमाने उपादानस्स उपादानपच्चयत्तं आपज्जेय्य. न च तदेव तस्स पच्चयो होति. जातिआदिनिद्देसेसु यस्मा एते अरूपधम्मानं जातिआदयो, तस्मा ‘‘खण्डिच्चं, पालिच्चं, वलित्तचता, चुति, चवनता’’ति न वुत्तं.
२५०. एवं पठमवारं निट्ठपेत्वा पुन दुतियवारे यस्मिं समये पठमवारेन पच्चयाकारो दस्सितो, तस्मिंयेव समये अपरेनपि नयेन पच्चयाकारं दस्सेतुं विसुं समयववत्थानवारं अवत्वा तस्मिं समये अविज्जापच्चया सङ्खारोतिआदिनाव नयेन देसना कता. तत्थ ठपेत्वा फस्सन्ति इदं यस्मा फस्सोपि नामपरियापन्नो, तस्मा फस्सस्स नामतो नीहरणत्थं वुत्तं.
२५२. ततियवारे यस्स चित्तसमुट्ठानरूपस्स विञ्ञाणं पच्चयो, तस्मिं पवत्तमाने यस्मा तेनुपत्थद्धानं चक्खायतनादीनं उपचितत्तं पञ्ञायति, तस्मा चक्खायतनस्स उपचयोतिआदि वुत्तं. यस्मा च कम्मजरूपस्सपि तस्मिं समये वत्तमानस्स विञ्ञाणं पच्छाजातपच्चयेन पच्चयो होति, तस्मापि एवं वुत्तं. तत्थ किञ्चापि कम्मजं चित्तसमुट्ठानन्ति द्वेव सन्ततियो गहिता, इतरापि पन द्वे सन्ततियो गहेतब्बा. तासम्पि हि विञ्ञाणं पच्चयो होतियेव.
२५४. चतुत्थवारे पन यस्मा एकचित्तक्खणेपि महाभूतरूपपच्चया चक्खायतनादीनि, हदयरूपपच्चया छट्ठायतनं, नामपच्चया च पच्छाजातसहजातादिवसेन यथानुरूपं सब्बानिपि पवत्तन्ति, तस्मा तत्थ कतमं नामरूपपच्चया सळायतनं? चक्खायतनन्तिआदि वुत्तं.
२५६. दुतियचतुक्के सब्बं उत्तानमेव.
२६४. ततियचतुक्के यस्स सम्पयुत्तपच्चयभावो न होति, यस्स च होति, तं विसुं विसुं दस्सेतुं इदं वुच्चति विञ्ञाणपच्चया नामरूपं विञ्ञाणसम्पयुत्तं नामन्तिआदि वुत्तं.
२७२. चतुत्थचतुक्के फस्सपच्चया नामनिद्देसे किञ्चापि ‘‘ठपेत्वा फस्सं वेदनाक्खन्धो…पे… विञ्ञाणक्खन्धो – इदं वुच्चति फस्सपच्चया नाम’’न्ति न वुत्तं, तथापि अनन्तरातीतपदनिद्देसे ‘‘ठपेत्वा फस्सं वेदनाक्खन्धो…पे… विञ्ञाणक्खन्धो’’ति वुत्तत्ता अवुत्तम्पि तं वुत्तमेव होति. यदेव हि नामं फस्सस्स पच्चयो, फस्सोपि तस्सेव पच्चयोति.
यथा चायं चतुचतुक्को सोळसवारप्पभेदो अविज्जामूलको पठमनयो एतस्मिं पठमाकुसलचित्ते पकासितो, एवं सङ्खारमूलकादयो अट्ठ नयापि वेदितब्बा. पाळि पन संखित्ता. एवमेव तस्मिं पठमाकुसलचित्तेयेव नव नया, छत्तिंस चतुक्कानि, चतुचत्तालीसाधिकञ्च वारसतं होतीति वेदितब्बं.
२८०. इदानि इमिनाव नयेन सेसाकुसलचित्तेसुपि पच्चयाकारं दस्सेतुं कतमे धम्मा अकुसलातिआदि आरद्धं. तत्थ यस्मा दिट्ठिविप्पयुत्तेसु तण्हापच्चया उपादानं नत्थि, तस्मा उपादानट्ठाने उपादानं विय दळ्हनिपातिना अधिमोक्खेन पदं पूरितं. दोमनस्ससहगतेसु च यस्मा वेदनापच्चया तण्हापि नत्थि, तस्मा तण्हाट्ठाने तण्हा विय बलवकिलेसेन पटिघेन पदं पूरितं. उपादानट्ठाने अधिमोक्खेनेव. विचिकिच्छासम्पयुत्ते पन यस्मा सन्निट्ठानाभावतो अधिमोक्खोपि नत्थि, तस्मा तण्हाट्ठाने बलवकिलेसभूताय विचिकिच्छाय पदं पूरितं. उपादानट्ठानं परिहीनमेव. उद्धच्चसम्पयुत्ते पन यस्मा अधिमोक्खो अत्थि, तस्मा तण्हाट्ठाने बलवकिलेसेन उद्धच्चेन पदं पूरितं. उपादानट्ठाने अधिमोक्खेनेव. सब्बत्थेव च विसेसमत्तं दस्सेत्वा पाळि संखित्ता. यो चायं विसेसो दस्सितो, तत्थ केवलं अधिमोक्खनिद्देसोव अपुब्बो. सेसं हेट्ठा आगतमेव.
अधिमोक्खनिद्देसे पन अधिमुच्चनवसेन अधिमोक्खो. अधिमुच्चति वा तेन आरम्मणे चित्तं निब्बिचिकिच्छताय सन्निट्ठानं गच्छतीति अधिमोक्खो. अधिमुच्चनाकारो अधिमुच्चना. तस्स चित्तस्स, तस्मिं वा आरम्मणे अधिमुत्तत्ताति तदधिमुत्तता. सब्बचित्तेसु च पठमचित्ते वुत्तनयेनेव नयचतुक्कवारप्पभेदो वेदितब्बो. केवलञ्हि विचिकिच्छासम्पयुत्ते उपादानमूलकस्स नयस्स अभावा अट्ठ नया, द्वत्तिंस चतुक्कानि, अट्ठवीसाधिकञ्च वारसतं होतीति.
अकुसलनिद्देसवण्णना.
कुसलनिद्देसवण्णना
२९२. इदानि इमिनाव नयेन कुसलचित्तादीसुपि पच्चयाकारं दस्सेतुं कतमे धम्मा कुसलातिआदि आरद्धं. यथा पन अकुसले पठमं मातिकं निक्खिपित्वा पच्छा निद्देसो कतो, न तथा इध. कस्मा? अप्पनावारे नानत्तसम्भवतो. लोकियकुसलादीसु हि तेसं धम्मानं दुक्खसच्चपरियापन्नत्ता ‘‘एवमेतस्स केवलस्स दुक्खक्खन्धस्सा’’ति अप्पना होति, लोकुत्तरकुसलादीसु ‘‘एवमेतेसं धम्मान’’न्ति. तस्मा एत्थ साधारणतो मातिकं ठपेतुं न सक्काति पाटियेक्कं तेसं तेसं कुसलादीनं मातिकं उद्दिसित्वाव निद्देसो कतोति.
तत्थ यस्मा एकचित्तक्खणे कुसलसङ्खारेन सद्धिं अविज्जा नत्थि, तस्मा तं अवत्वा, अविज्जा विय अकुसलानं, कुसलानं मूलतो कुसलमूलं, तण्हुपादानानञ्च अभावतो तण्हाट्ठाने तण्हा विय आरम्मणे अज्झोगाळ्हो पसादो, उपादानट्ठाने उपादानं विय दळ्हनिपाती नाम अधिमोक्खो वुत्तो. सेसं हेट्ठा वुत्तनयेनेव वेदितब्बन्ति.
कुसलनिद्देसवण्णना.
अब्याकतनिद्देसवण्णना
३०६. अब्याकतं हेट्ठा चित्तुप्पादकण्डे आगतपटिपाटियाव विभत्तं. सब्बवारेसु च अविज्जामूलका नया परिहीना. कस्मा? अविज्जाट्ठाने ठपेतब्बस्स अभावतो. कुसलचित्तेसु हि अविज्जाट्ठाने ठपेतब्बं कुसलमूलं अत्थि, चक्खुविञ्ञाणादीसु नत्थि. सहेतुकेसु पन किञ्चापि अत्थि, एवं सन्तेपि इध पच्छिन्नत्ता तत्थ न गहितं. पञ्चविञ्ञाणसोते सोतपतिताव हुत्वा देसना कताति वेदितब्बा.
विसेसतो पनेत्थ चक्खुविञ्ञाणादीसु तण्हाट्ठानं उपादानट्ठानञ्च परिहीनं. कस्मा? तण्हाट्ठानारहस्स बलवधम्मस्स अभावा अधिमोक्खरहितत्ता च. सेसाहेतुकेसु तण्हाट्ठानमेव परिहीनं. सहेतुकेसु पसादसब्भावतो तण्हाट्ठाने पसादेन पदं पूरितं. एवमेत्थ कुसलाकुसलविपाकेसु चक्खुविञ्ञाणादीसु सङ्खारविञ्ञाणनामछट्ठायतनफस्सवेदनामूलका छ छ, सेसाहेतुकेसु अधिमोक्खमूलकेन सद्धिं सत्त सत्त, सहेतुकेसु पसादमूलकेन सद्धिं अट्ठ अट्ठ नया वेदितब्बा.
तत्थ चक्खुविञ्ञाणादीसुपि चतुन्नम्पि चतुक्कानं आदिवारोव वुत्तो. दुतियवारो पच्चयविसेसट्ठेन लब्भमानोपि न वुत्तो. ततियचतुत्थवारा असम्भवतोयेव. रूपमिस्सका हि ते, न च चक्खुविञ्ञाणादीनि रूपं समुट्ठापेन्ति. यथा च पठमचतुक्के द्वे वारा लब्भन्ति, एवं सेसचतुक्केसुपि. तस्मा पठमचतुक्के दुतियवारो, सेसचतुक्केसु च द्वे द्वे वारा अवुत्तापि वुत्ताव होन्तीति वेदितब्बा. सेसाहेतुकाब्याकते सब्बचतुक्केसु सब्बेपि वारा लब्भन्ति. इध पच्छिन्नत्ता पन परतो न गहिता. सोतपतिताव हुत्वा देसना कताति. सेससहेतुकविपाकेसुपि एसेव नयो अञ्ञत्र अरूपावचरविपाका. अरूपावचरविपाकस्मिञ्हि वारद्वयमेव लब्भतीति.
अब्याकतनिद्देसवण्णना.
अविज्जामूलककुसलनिद्देसवण्णना
३३४. इदानि अपरेन परियायेन एकचित्तक्खणे पच्चयाकारं दस्सेतुं पुन कतमे धम्मा कुसलातिआदि आरद्धं. तत्थ अविज्जापच्चयाति उपनिस्सयपच्चयतं सन्धाय वुत्तं. तेनेव निद्देसवारे ‘‘तत्थ कतमा अविज्जा’’ति अविभजित्वा ‘‘तत्थ कतमो अविज्जापच्चया सङ्खारो’’ति विभत्तं. कुसलचेतनासङ्खातो हि सङ्खारोयेव तस्मिं समये चित्तेन सहजातो होति, न अविज्जा.
तत्थ लोकियकुसलस्स हेट्ठा सुत्तन्तभाजनीये वुत्तनयेनेव अविज्जा पच्चयो होति. यस्मा पन अप्पहीनाविज्जो अविज्जाय पहानत्थं लोकुत्तरं भावेति, तस्मा तस्सापि समतिक्कमवसेन पच्चयो होति. अविज्जावतोयेव हि कुसलायूहनं होति, न इतरस्स. तत्थ तेभूमककुसले सम्मोहवसेनपि समतिक्कमभावनावसेनपि आयूहनं लब्भति; लोकुत्तरे समुच्छेदभावनावसेनाति. सेसं वुत्तनयमेव.
अयं पन विसेसो – यथा हेट्ठा एकेककुसले चतुन्नं चतुक्कानं वसेन नव सोळसका लद्धा, तथा इध न लब्भन्ति. कस्मा? अविज्जाय अविगतसम्पयुत्तअञ्ञमञ्ञपच्चयाभावतो. उपनिस्सयवसेन पनेत्थ पठमचतुक्कमेव लब्भति. तम्पि पठमवारमेव दस्सेत्वा संखित्तं. नीहरित्वा पन दस्सेतब्बन्ति.
अविज्जामूलककुसलनिद्देसवण्णना.
कुसलमूलकविपाकनिद्देसवण्णना
३४३. इदानि अब्याकतेसुपि अपरेनेव नयेन पच्चयाकारं दस्सेतुं कतमे धम्मा अब्याकतातिआदि आरद्धं. तत्थ कुसलमूलपच्चयाति इदम्पि उपनिस्सयपच्चयतं सन्धाय वुत्तं. कुसलविपाकस्स हि कुसलमूलं, अकुसलविपाकस्स च अकुसलमूलं उपनिस्सयपच्चयो होति; नानाक्खणिककम्मपच्चये पन वत्तब्बमेव नत्थि. तस्मा एस उपनिस्सयपच्चयेन चेव नानाक्खणिककम्मपच्चयेन च पच्चयो होति. तेनेव निद्देसवारे ‘‘तत्थ कतमं कुसलमूल’’न्ति अविभजित्वा ‘‘तत्थ कतमो कुसलमूलपच्चया सङ्खारो’’ति विभत्तं. अकुसलविपाकेपि एसेव नयो.
अविज्जामूलककुसलनिद्देसे विय च इमस्मिम्पि विपाकनिद्देसे पठमं पच्चयचतुक्कमेव लब्भति. तम्पि पठमवारं दस्सेत्वा संखित्तं. तस्मा एकेकस्मिं विपाकचित्ते एकमेकस्सेव चतुक्कस्स वसेन कुसलमूलमूलके अकुसलमूलमूलके च नये वारप्पभेदो वेदितब्बो. किरियाधम्मानं पन यस्मा नेव अविज्जा न कुसलाकुसलमूलानि उपनिस्सयपच्चयतं लभन्ति, तस्मा किरियवसेन पच्चयाकारो न वुत्तोति.
एवमेस –
अकुसलकुसलाब्याकत-धम्मेसु अनेकभेदतो वत्वा;
कुसलाकुसलानं पन, विपाके च उपनिस्सयवसेन.
पुन एकधाव वुत्तो, वादिप्पवरेन पच्चयाकारो;
धम्मप्पच्चयभेदे, ञाणस्स पभेदजननत्थं.
परियत्तिसवनचिन्तन-पटिपत्तिक्कमविवज्जितानञ्च;
यस्मा ञाणपभेदो, न कदाचिपि होति एतस्मिं.
परियत्तिसवनचिन्तन-पटिपत्तिक्कमतो सदा धीरो;
तत्थ कयिरा न हञ्ञं, करणीयतरं ततो अत्थीति.
अयं पन पच्चयाकारो सुत्तन्तअभिधम्मभाजनीयवसेन द्वेपरिवट्टमेव नीहरित्वा भाजेत्वा दस्सितो होति.
अभिधम्मभाजनीयवण्णना.
सम्मोहविनोदनिया विभङ्गट्ठकथाय
पटिच्चसमुप्पादविभङ्गवण्णना निट्ठिता.