२. अभिधम्मभाजनीयवण्णना

२०६-२१४. इदानि अभिधम्मभाजनीयं होति. तत्थ ‘‘अरियसच्चानी’’ति अवत्वा निप्पदेसतो पच्चयसङ्खातं समुदयं दस्सेतुं ‘‘चत्तारि सच्चानी’’ति वुत्तं. अरियसच्चानीति हि वुत्ते अवसेसा च किलेसा, अवसेसा च अकुसला धम्मा, तीणि च कुसलमूलानि सासवानि, अवसेसा च सासवा कुसला धम्मा न सङ्गय्हन्ति. न च केवलं तण्हाव दुक्खं समुदानेति, इमेपि अवसेसा च किलेसादयो पच्चया समुदानेन्तियेव. इति इमेपि पच्चया दुक्खं समुदानेन्तियेवाति निप्पदेसतो पच्चयसङ्खातं समुदयं दस्सेतुं ‘‘अरियसच्चानी’’ति अवत्वा ‘‘चत्तारि सच्चानी’’ति वुत्तं.

निद्देसवारे च नेसं पठमं दुक्खं अनिद्दिसित्वा तस्सेव दुक्खस्स सुखनिद्देसत्थं दुक्खसमुदयो निद्दिट्ठो. तस्मिञ्हि निद्दिट्ठे ‘‘अवसेसा च किलेसा’’तिआदिना नयेन दुक्खसच्चं सुखनिद्देसं होति. निरोधसच्चम्पेत्थ तण्हाय पहानं ‘‘तण्हाय च अवसेसानञ्च किलेसानं पहान’’न्ति एवं यथावुत्तस्स समुदयस्स पहानवसेन पञ्चहाकारेहि निद्दिट्ठं. मग्गसच्चं पनेत्थ पठमज्झानिकसोतापत्तिमग्गवसेन धम्मसङ्गणियं विभत्तस्स देसनानयस्स मुखमत्तमेव दस्सेन्तेन निद्दिट्ठं. तत्थ नयभेदो वेदितब्बो. तं उपरि पकासयिस्साम.

यस्मा पन न केवलं अट्ठङ्गिको मग्गोव पटिपदा ‘‘पुब्बेव खो पनस्स कायकम्मं वचीकम्मं आजीवो सुपरिसुद्धो होती’’ति (म. नि. ३.४३३) वचनतो पन पुग्गलज्झासयवसेन पञ्चङ्गिकोपि मग्गो पटिपदा एवाति देसितो, तस्मा तं नयं दस्सेतुं पञ्चङ्गिकवारोपि निद्दिट्ठो. यस्मा च न केवलं अट्ठङ्गिकपञ्चङ्गिकमग्गाव पटिपदा, सम्पयुत्तका पन अतिरेकपञ्ञासधम्मापि पटिपदा एव, तस्मा तं नयं दस्सेतुं ततियो सब्बसङ्गाहिकवारोपि निद्दिट्ठो. तत्थ ‘‘अवसेसा धम्मा दुक्खनिरोधगामिनिया पटिपदाय सम्पयुत्ता’’ति इदं परिहायति. सेसं सब्बत्थ सदिसमेव.

तत्थ अट्ठङ्गिकवारस्स ‘‘तण्हाय अवसेसानञ्च किलेसानं पहान’’न्तिआदीसु पञ्चसु कोट्ठासेसु पठमकोट्ठासे ताव सोतापत्तिमग्गे झानाभिनिवेसे सुद्धिकपटिपदा, सुद्धिकसुञ्ञता, सुञ्ञतपटिपदा, सुद्धिकअप्पणिहितं, अप्पणिहितपटिपदाति इमेसु पञ्चसु वारेसु द्विन्नं द्विन्नं चतुक्कपञ्चकनयानं वसेन दस नया होन्ति. एवं सेसेसुपीति वीसतिया अभिनिवेसेसु द्वे नयसतानि. तानि चतूहि अधिपतीहि चतुग्गुणितानि अट्ठ. इति सुद्धिकानि द्वे साधिपती अट्ठाति सब्बम्पि नयसहस्सं होति. यथा च सोतापत्तिमग्गे, एवं सेसमग्गेसुपीति चत्तारि नयसहस्सानि होन्ति. यथा च पठमकोट्ठासे चत्तारि, एवं सेसेसुपीति अट्ठङ्गिकवारे पञ्चसु कोट्ठासेसु वीसति नयसहस्सानि होन्ति. तथा पञ्चङ्गिकवारे सब्बसङ्गाहिकवारे चाति सब्बानिपि सट्ठि नयसहस्सानि सत्थारा विभत्तानि. पाळि पन सङ्खेपेन आगता. एवमिदं तिविधमहावारं पञ्चदसकोट्ठासं सट्ठिनयसहस्सपटिमण्डितं अभिधम्मभाजनीयं नाम निद्दिट्ठन्ति वेदितब्बं.

अभिधम्मभाजनीयवण्णना.