३. पञ्हापुच्छकवण्णना

२१५. पञ्हापुच्छके चतुन्नम्पि सच्चानं खन्धविभङ्गे वुत्तनयानुसारेनेव कुसलादिभावो वेदितब्बो. आरम्मणत्तिकेसु पन समुदयसच्चं कामावचरधम्मे अस्सादेन्तस्स परित्तारम्मणं होति, महग्गतधम्मे अस्सादेन्तस्स महग्गतारम्मणं, पञ्ञत्तिं अस्सादेन्तस्स नवत्तब्बारम्मणं. दुक्खसच्चं कामावचरधम्मे आरब्भ उप्पन्नं परित्तारम्मणं, रूपारूपावचरधम्मे आरब्भ उप्पत्तिकाले महग्गतारम्मणं, नव लोकुत्तरधम्मे पच्चवेक्खणकाले अप्पमाणारम्मणं, पण्णत्तिं पच्चवेक्खणकाले नवत्तब्बारम्मणं. मग्गसच्चं सहजातहेतुवसेन सब्बदापि मग्गहेतुकं वीरियं वा वीमंसं वा जेट्ठकं कत्वा मग्गभावनाकाले मग्गाधिपति, छन्दचित्तेसु अञ्ञतराधिपतिकाले नवत्तब्बं नाम होति. दुक्खसच्चं अरियानं मग्गपच्चवेक्खणकाले मग्गारम्मणं, तेसंयेव मग्गं गरुं कत्वा पच्चवेक्खणकाले मग्गाधिपति, सेसधम्मपच्चवेक्खणकाले नवत्तब्बं होति.

द्वे सच्चानीति दुक्खसमुदयसच्चानि. एतानि हि अतीतादिभेदे धम्मे आरब्भ उप्पत्तिकाले अतीतादिआरम्मणानि होन्ति. समुदयसच्चं अज्झत्तादिभेदे धम्मे अस्सादेन्तस्स अज्झत्तादिआरम्मणं होति, दुक्खसच्चं आकिञ्चञ्ञायतनकाले नवत्तब्बारम्मणम्पीति वेदितब्बं. इति इमस्मिं पञ्हापुच्छके द्वे सच्चानि लोकियानि होन्ति, द्वे लोकुत्तरानि. यथा च इमस्मिं, एवं पुरिमेसुपि द्वीसु. सम्मासम्बुद्धेन हि तीसुपि सुत्तन्तभाजनीयादीसु लोकियलोकुत्तरानेव सच्चानि कथितानि. एवमयं सच्चविभङ्गोपि तेपरिवट्टं नीहरित्वाव भाजेत्वा दस्सितोति.

सम्मोहविनोदनीया विभङ्गट्ठकथाय

सच्चविभङ्गवण्णना निट्ठिता.