२. अभिधम्मभाजनीयवण्णना

१५५. अभिधम्मभाजनीये यथा हेट्ठा विपस्सकानं उपकारत्थाय ‘‘चक्खायतनं रूपायतन’’न्ति युगलतो आयतनानि वुत्तानि, तथा अवत्वा अज्झत्तिकबाहिरानं सब्बाकारतो सभावदस्सनत्थं ‘‘चक्खायतनं सोतायतन’’न्ति एवं अज्झत्तिकबाहिरववत्थाननयेन वुत्तानि.

१५६. तेसं निद्देसवारे तत्थ कतमं चक्खायतनन्तिआदीनि हेट्ठा वुत्तनयेनेव वेदितब्बानि.

१६७. यं पनेतं धम्मायतननिद्देसे ‘‘तत्थ कतमा असङ्खता धातु? रागक्खयो दोसक्खयो मोहक्खयो’’ति वुत्तं, तत्रायमत्थो – असङ्खता धातूति असङ्खतसभावं निब्बानं. यस्मा पनेतं आगम्म रागादयो खीयन्ति, तस्मा रागक्खयो दोसक्खयो मोहक्खयोति वुत्तं. अयमेत्थ आचरियानं समानत्थकथा.

वितण्डवादी पनाह – ‘पाटियेक्कं निब्बानं नाम नत्थि, किलेसक्खयोव निब्बान’न्ति. ‘सुत्तं आहरा’ति च वुत्ते ‘‘निब्बानं निब्बानन्ति खो, आवुसो सारिपुत्त, वुच्चति; कतमं नु खो, आवुसो, निब्बानन्ति? यो खो, आवुसो, रागक्खयो दोसक्खयो मोहक्खयो – इदं वुच्चति निब्बान’’न्ति एतं जम्बुखादकसुत्तं आहरित्वा ‘इमिना सुत्तेन वेदितब्बं पाटियेक्कं निब्बानं नाम नत्थि, किलेसक्खयोव निब्बान’न्ति आह. सो वत्तब्बो – ‘किं पन यथा चेतं सुत्तं तथा अत्थो’ति? अद्धा वक्खति – ‘आम, नत्थि सुत्ततो मुञ्चित्वा अत्थो’ति. ततो वत्तब्बो – ‘इदं ताव ते सुत्तं आभतं; अनन्तरसुत्तं आहरा’ति. अनन्तरसुत्तं नाम – ‘‘अरहत्तं अरहत्तन्ति, आवुसो सारिपुत्त, वुच्चति; कतमं नु खो, आवुसो, अरहत्तन्ति? यो खो, आवुसो, रागक्खयो दोसक्खयो मोहक्खयो – इदं वुच्चति अरहत्त’’न्ति (सं. नि. ४.३१५) इदं तस्सेवानन्तरं आभतसुत्तं.

इमस्मिं पन नं आभते आहंसु – ‘निब्बानं नाम धम्मायतनपरियापन्नो धम्मो, अरहत्तं चत्तारो खन्धा. निब्बानं सच्छिकत्वा विहरन्तो धम्मसेनापति निब्बानं पुच्छितोपि अरहत्तं पुच्छितोपि किलेसक्खयमेव आह. किं पन निब्बानञ्च अरहत्तञ्च एकं उदाहु नान’न्ति? ‘एकं वा होतु नानं वा. को एत्थ तया अतिबहुं चुण्णीकरणं करोन्तेन अत्थो’? ‘न त्वं एकं नानं जानासीति. ननु ञाते साधु होती’ति एवं पुनप्पुनं पुच्छितो वञ्चेतुं असक्कोन्तो आह – ‘रागादीनं खीणन्ते उप्पन्नत्ता अरहत्तं रागक्खयो दोसक्खयो मोहक्खयो’ति वुच्चतीति. ततो नं आहंसु – ‘महाकम्मं ते कतं. लञ्जं दत्वापि तं वदापेन्तो एतदेव वदापेय्य. यथेव च ते एतं विभजित्वा कथितं, एवं इदम्पि सल्लक्खेहि – निब्बानञ्हि आगम्म रागादयो खीणाति निब्बानं रागक्खयो दोसक्खयो मोहक्खयोति वुत्तं. तीणिपि हि एतानि निब्बानस्सेव अधिवचनानी’ति.

सचे एवं वुत्ते सञ्ञत्तिं गच्छति इच्चेतं कुसलं; नो चे, बहुनिब्बानताय कारेतब्बो. कथं? एवं ताव पुच्छितब्बो – ‘रागक्खयो नाम रागस्सेव खयो उदाहु दोसमोहानम्पि? दोसक्खयो नाम दोसस्सेव खयो उदाहु रागमोहानम्पि? मोहक्खयो नाम मोहस्सेव खयो उदाहु रागदोसानम्पी’ति? अद्धा वक्खति – ‘रागक्खयो नाम रागस्सेव खयो, दोसक्खयो नाम दोसस्सेव खयो, मोहक्खयो नाम मोहस्सेव खयो’ति.

ततो वत्तब्बो – ‘तव वादे रागक्खयो एकं निब्बानं होति, दोसक्खयो एकं, मोहक्खयो एकं; तिण्णं अकुसलमूलानं खये तीणि निब्बानानि होन्ति, चतुन्नं उपादानानं खये चत्तारि, पञ्चन्नं नीवरणानं खये पञ्च, छन्नं तण्हाकायानं खये छ, सत्तन्नं अनुसयानं खये सत्त, अट्ठन्नं मिच्छत्तानं खये अट्ठ, नवन्नं तण्हामूलकधम्मानं खये नव, दसन्नं संयोजनानं खये दस, दियड्ढकिलेससहस्सस्स खये पाटियेक्कं पाटियेक्कं निब्बानन्ति बहूनि निब्बानानि होन्ति. नत्थि पन ते निब्बानानं पमाणन्ति. एवं पन अग्गहेत्वा निब्बानं आगम्म रागादयो खीणाति एकमेव निब्बानं रागक्खयो दोसक्खयो मोहक्खयोति वुच्चति. तीणिपि हेतानि निब्बानस्सेव अधिवचनानीति गण्ह’.

सचे पन एवं वुत्तेपि न सल्लक्खेति, ओळारिकताय कारेतब्बो. कथं? ‘अन्धबाला हि अच्छदीपिमिगमक्कटादयोपि किलेसपरियुट्ठिता वत्थुं पटिसेवन्ति. अथ नेसं पटिसेवनपरियन्ते किलेसो वूपसम्मति. तव वादे अच्छदीपिमिगमक्कटादयो निब्बानप्पत्ता नाम होन्ति. ओळारिकं वत ते निब्बानं थूलं, कण्णेहि पिळन्धितुं न सक्काति. एवं पन अग्गहेत्वा निब्बानं आगम्म रागादयो खीणाति एकमेव निब्बानं रागक्खयो दोसक्खयो मोहक्खयोति वुच्चति. तीणिपि हेतानि निब्बानस्सेव अधिवचनानीति गण्ह’.

सचे पन एवं वुत्तेपि न सल्लक्खेति, गोत्रभुनापि कारेतब्बो. कथं? एवं ताव पुच्छितब्बो – ‘त्वं गोत्रभु नाम अत्थीति वदेसी’ति? ‘आम वदामी’ति. ‘गोत्रभुक्खणे किलेसा खीणा, खीयन्ति, खीयिस्सन्ती’ति? न खीणा, न खीयन्ति; अपिच खो खीयिस्सन्तीति. ‘गोत्रभु पन किं आरम्मणं करोती’ति? ‘निब्बानं’. ‘तव गोत्रभुक्खणे किलेसा न खीणा, न खीयन्ति; अथ खो खीयिस्सन्ति. त्वं अखीणेसुयेव किलेसेसु किलेसक्खयं निब्बानं पञ्ञपेसि, अप्पहीनेसु अनुसयेसु अनुसयप्पहानं निब्बानं पञ्ञपेसि. तं ते न समेति. एवं पन अग्गहेत्वा निब्बानं आगम्म रागादयो खीणाति एकमेव निब्बानं रागक्खयो दोसक्खयो मोहक्खयोति वुच्चति. तीणिपि हेतानि निब्बानस्सेव अधिवचनानीति गण्ह’.

सचे पन एवं वुत्तेपि न सल्लक्खेति, मग्गेन कारेतब्बो. कथं? एवं ताव पुच्छितब्बो – ‘त्वं मग्गं नाम वदेसी’ति? ‘आम वदेमी’ति. ‘मग्गक्खणे किलेसा खीणा, खीयन्ति, खियिस्सन्ती’ति? जानमानो वक्खति – ‘खीणाति वा खीयिस्सन्तीति वा वत्तुं न वट्टति, खीयन्तीति वत्तुं वट्टती’ति. ‘यदि एवं, मग्गस्स किलेसक्खयं निब्बानं कतमं? मग्गेन खीयनककिलेसा कतमे? मग्गो कतमं किलेसक्खयं निब्बानं आरम्मणं कत्वा कतमे किलेसे खेपेति? तस्मा मा एवं गण्ह. निब्बानं पन आगम्म रागादयो खीणाति एकमेव निब्बानं रागक्खयो दोसक्खयो मोहक्खयोति वुच्चति. तीणिपि हेतानि निब्बानस्सेव अधिवचनानी’ति.

एवं वुत्ते एवमाह – ‘त्वं आगम्म आगम्माति वदेसी’ति? ‘आम वदेमी’ति. ‘आगम्म नामाति इदं ते कुतो लद्ध’न्ति? ‘सुत्ततो लद्ध’न्ति. ‘आहर सुत्त’न्ति. ‘‘एवं अविज्जा च तण्हा च तं आगम्म, तम्हि खीणा, तम्हि भग्गा, न च किञ्चि कदाची’’ति. एवं वुत्ते परवादी तुण्हीभावं आपन्नोति.

इधापि दसायतनानि कामावचरानि, द्वे पन चतुभूमकानि लोकियलोकुत्तरमिस्सकानीति वेदितब्बानि.

अभिधम्मभाजनीयवण्णना.