३. पञ्हापुच्छकवण्णना
१६८. इधापि पञ्हापुच्छके यं लब्भति यञ्च न लब्भति, तं सब्बं पुच्छित्वा लब्भमानवसेनेव विस्सज्जनं वुत्तं; न केवलञ्च इध, सब्बेसुपि पञ्हापुच्छकेसु एसेव नयो. इध पन दसन्नं आयतनानं रूपभावेन अब्याकतता वेदितब्बा. द्विन्नं आयतनानं खन्धविभङ्गे चतुन्नं खन्धानं विय कुसलादिभावो वेदितब्बो. केवलञ्हि चत्तारो खन्धा सप्पच्चयाव सङ्खताव धम्मायतनं पन ‘‘सिया अप्पच्चयं, सिया असङ्खत’’न्ति आगतं. आरम्मणत्तिकेसु च अनारम्मणं सुखुमरूपसङ्खातं धम्मायतनं न-वत्तब्बकोट्ठासं भजति. तञ्च खो अनारम्मणत्ता न परित्तादिभावेन नवत्तब्बधम्मारम्मणत्ताति अयमेत्थ विसेसो. सेसं तादिसमेव. इधापि हि चत्तारो खन्धा विय द्वायतना पञ्चपण्णास कामावचरधम्मे आरब्भ रज्जन्तस्स दुस्सन्तस्स मुय्हन्तस्स संवरन्तस्स सम्मसन्तस्स पच्चवेक्खन्तस्स च परित्तारम्मणाति सब्बं खन्धेसु वुत्तसदिसमेवाति.
सम्मोहविनोदनिया विभङ्गट्ठकथाय
आयतनविभङ्गवण्णना निट्ठिता.