१. सब्बसङ्गाहिकवारवण्णना
९७८. इदानि तदनन्तरे धम्महदयविभङ्गे पाळिपरिच्छेदो ताव एवं वेदितब्बो – एत्थ हि आदितोव खन्धादीनं द्वादसन्नं कोट्ठासानं वसेन सब्बसङ्गाहिकवारो नाम वुत्तो. दुतियो तेसंयेव धम्मानं कामधातुआदीसु उप्पत्तानुप्पत्तिदस्सनवारो नाम. ततियो तत्थेव परियापन्नापरियापन्नदस्सनवारो नाम. चतुत्थो तीसु भूमीसु उप्पत्तिक्खणे विज्जमानाविज्जमानधम्मदस्सनवारो नाम. पञ्चमो तेसं धम्मानं भूमन्तरवसेन दस्सनवारो नाम. छट्ठो गतीसु उप्पादककम्मआयुप्पमाणदस्सनवारो नाम. सत्तमो अभिञ्ञेय्यादिवारो नाम. अट्ठमो सारम्मणानारम्मणवारो नाम. नवमो तेसं खन्धादिधम्मानं दिट्ठसुतादिवसेन सङ्गहेत्वा दस्सनवारो नाम. दसमो कुसलत्तिकादिवसेन सङ्गहेत्वा दस्सनवारो नाम.
९७९. एवं दसहि वारेहि परिच्छिन्नाय पाळिया पठमे ताव सब्बसङ्गाहिकवारे ‘‘अवीचितो याव भवग्गं एत्थन्तरे कति खन्धा’’ति पुच्छिते ‘‘एकोति वा…पे… चत्तारोति वा छाति वा अवत्वा पञ्चाति वत्तुं समत्थो अञ्ञो नत्थी’’ति अत्तनो ञाणबलं दीपेन्तो पञ्चक्खन्धाति पुच्छानुरूपं विस्सज्जनं आह. यथापुच्छं विस्सज्जनञ्हि सब्बञ्ञुब्याकरणं नामाति वुच्चति. द्वादसायतनानीतिआदीसुपि एसेव नयो. रूपक्खन्धादीनं पभेदो खन्धविभङ्गादीसु वुत्तनयेनेव वेदितब्बो.