२. उप्पत्तानुप्पत्तिवारवण्णना
९९१. दुतियवारे ये धम्मा कामभवे कामधातुसम्भूतानञ्च सत्तानं उप्पज्जन्ति – कामधातुयं परियापन्ना वा अपरियापन्ना वा – ते सब्बे सङ्गहेत्वा कामधातुया पञ्चक्खन्धातिआदि वुत्तं. रूपधातुआदीसुपि एसेव नयो. यस्मा पन रूपधातुपरियापन्नानं सत्तानं घानायतनादीनं अभावेन गन्धायतनादीनि आयतनादिकिच्चं न करोन्ति, तस्मा रूपधातुया छ आयतनानि, नव धातुयोतिआदि वुत्तं. यस्मा च ओकासवसेन वा सत्तुप्पत्तिवसेन वा अपरियापन्नधातु नाम नत्थि, तस्मा अपरियापन्नधातुयाति अवत्वा यं यं अपरियापन्नं तं तदेव दस्सेतुं अपरियापन्ने कति खन्धातिआदि वुत्तं.