(९.) नवकनिद्देसवण्णना

९६०. नवकनिद्देसे नव आघातवत्थूनीति सत्तेसु उप्पत्तिवसेनेव कथितानि. पुरिसानं मलानीति पुरिसमलानि. नवविधाति नवकोट्ठासा नवप्पभेदा वा.

९६३. तण्हं पटिच्चाति तण्हं निस्साय. परियेसनाति रूपादिआरम्मणपरियेसना. सा हि तण्हाय सति होति. लाभोति रूपादिआरम्मणपटिलाभो. सो हि परियेसनाय सति होति. विनिच्छयो पन ञाणतण्हादिट्ठिवितक्कवसेन चतुब्बिधो. तत्थ ‘‘सुखविनिच्छयं जञ्ञा, सुखविनिच्छयं ञत्वा अज्झत्तं सुखमनुयुञ्जेय्या’’ति (म. नि. ३.३२३) अयं ञाणविनिच्छयो. ‘‘विनिच्छयोति द्वे विनिच्छया – तण्हाविनिच्छयो च दिट्ठिविनिच्छयो चा’’ति (महानि. १०२) एवं आगतानि अट्ठसततण्हाविचरितानि तण्हाविनिच्छयो. द्वासट्ठि दिट्ठियो दिट्ठिविनिच्छयो. ‘‘छन्दो खो, देवानमिन्द, वितक्कनिदानो’’ति (दी. नि. २.३५८) इमस्मिं पन सुत्ते इध विनिच्छयोति वुत्तो वितक्कोयेव आगतो. लाभं लभित्वा हि इट्ठानिट्ठं सुन्दरासुन्दरञ्च वितक्केनेव विनिच्छिनाति – ‘एत्तकं मे रूपारम्मणत्थाय भविस्सति, एत्तकं सद्दादिआरम्मणत्थाय, एत्तकं मय्हं भविस्सति, एत्तकं परस्स, एत्तकं परिभुञ्जिस्सामि, एत्तकं निदहिस्सामी’ति. तेन वुत्तं ‘‘लाभं पटिच्च विनिच्छयो’’ति.

छन्दरागोति एवं अकुसलवितक्केन वितक्किते वत्थुस्मिं दुब्बलरागो च बलवरागो च उप्पज्जति. इदञ्हि इध छन्दोति दुब्बलरागस्साधिवचनं. अज्झोसानन्ति अहं ममन्ति बलवसन्निट्ठानं. परिग्गहोति तण्हादिट्ठिवसेन परिग्गहकरणं. मच्छरियन्ति परेहि साधारणभावस्स असहनता. तेनेवस्स पोराणा एवं वचनत्थं वदन्ति – ‘‘इदं अच्छरियं मय्हमेव होतु, मा अञ्ञस्स अच्छरियं होतूति पवत्तत्ता मच्छरियन्ति वुच्चती’’ति. आरक्खोति द्वारपिदहनमञ्जुसगोपनादिवसेन सुट्ठु रक्खणं. अधिकरोतीति अधिकरणं; कारणस्सेतं नामं. आरक्खाधिकरणन्ति भावनपुंसकं; आरक्खहेतूति अत्थो. दण्डादानादीसु परनिसेधनत्थं दण्डस्स आदानं दण्डादानं. एकतोधारादिनो सत्थस्स आदानं सत्थादानं. कलहोति कायकलहोपि वाचाकलहोपि. पुरिमो पुरिमो विरोधो विग्गहो, पच्छिमो पच्छिमो विवादो. तुवं तुवन्ति अगारववचनं, त्वं त्वन्ति अत्थो.

९६४. इञ्जितानीति इञ्जनानि चलनानि. अस्मीति इञ्जितमेतन्तिआदीहि सब्बपदेहि मानोव कथितो. अहन्ति पवत्तोपि हि मानो इञ्जितमेव, अयमहन्ति पवत्तोपि, नेवसञ्ञीनासञ्ञी भविस्सन्ति पवत्तोपि. सेसनवकेहिपि मानोव कथितो. मानो हि इञ्जनतो इञ्जितं, मञ्ञनतो मञ्ञितं, फन्दनतो फन्दितं, पपञ्चनतो पपञ्चितं. तेहि तेहि कारणेहि सङ्खतत्ता सङ्खतन्ति च वुच्चति. सेसं सब्बत्थ उत्तानत्थमेवाति.

नवकनिद्देसवण्णना.