(१०.) दसकनिद्देसवण्णना

९६६. दसकनिद्देसे किलेसा एव किलेसवत्थूनि. आघातवत्थूनि पनेत्थ ‘‘अनत्थं मे अचरी’’तिआदीनं वसेन अविकोपेतब्बे खाणुकण्टकादिम्हिपि अट्ठाने उप्पन्नाघातेन सद्धिं वुत्तानि.

९७०. मिच्छत्तेसु मिच्छाञाणन्ति पापकिरियासु उपायचिन्तावसेन पापं कत्वा ‘सुकतं मया’ति पच्चवेक्खणाकारेन उप्पन्नो मोहो. मिच्छाविमुत्तीति अविमुत्तस्सेव सतो विमुत्तसञ्ञिता. सेसं सब्बत्थ उत्तानत्थमेवाति.

दसकनिद्देसवण्णना.

तण्हाविचरितनिद्देसवण्णना

९७३. तण्हाविचरितनिद्देसे तण्हाविचरितानीति तण्हासमुदाचारा तण्हापवत्तियो. अज्झत्तिकस्स उपादायाति अज्झत्तिकं खन्धपञ्चकं उपादाय. इदञ्हि उपयोगत्थे सामिवचनं. अस्मीति होतीति यदेतं अज्झत्तं खन्धपञ्चकं उपादाय तण्हामानदिट्ठिवसेन समूहगाहतो ‘अस्मी’ति होति, तस्मिं सतीति अत्थो. इत्थस्मीति होतीतिआदीसु पन एवं समूहतो ‘अह’न्ति गहणे सति ततो अनुपनिधाय च उपनिधाय चाति द्विधा गहणं होति. तत्थ अनुपनिधायाति अञ्ञं आकारं अनुपगम्म सकभावमेव आरम्मणं कत्वा ‘इत्थस्मी’ति होति; खत्तियादीसु ‘इदंपकारो अह’न्ति एवं तण्हामानदिट्ठिवसेन होतीति अत्थो. इदं ताव अनुपनिधाय गहणं. उपनिधाय गहणं पन दुविधं होति – समतो च असमतो च. तं दस्सेतुं एवस्मीति च अञ्ञथास्मीति च वुत्तं. तत्थ एवस्मीति इदं समतो उपनिधाय गहणं; यथा अयं खत्तियो, यथा अयं ब्राह्मणो, एवं अहम्पीति अत्थो. अञ्ञथास्मीति इदं पन असमतो गहणं; यथायं खत्तियो, यथायं ब्राह्मणो, ततो अञ्ञथा अहं हीनो वा अधिको वाति अत्थो. इमानि ताव पच्चुप्पन्नवसेन चत्तारि तण्हाविचरितानि. भविस्सन्तिआदीनि पन चत्तारि अनागतवसेन वुत्तानि. सेसं पुरिमचतुक्के वुत्तनयेनेव अत्थो वेदितब्बो. अस्मीति सस्सतो अस्मि. सातस्मीति असस्सतो अस्मि. असस्मीति सतस्मीति वा पाठो. तत्थ अत्थीति असं; निच्चस्सेतं अधिवचनं. सीदतीति सतं; अनिच्चस्सेतं अधिवचनं. इति इमानि द्वे सस्सतुच्छेदवसेन वुत्तानीति वेदितब्बानि. इतो परानि सियन्तिआदीनि चत्तारि संसयपरिवितक्कवसेन वुत्तानि. तानि पुरिमचतुक्के वुत्तनयेनेव अत्थतो वेदितब्बानि. अपाहं सियन्तिआदीनि पन चत्तारि ‘‘अपि नामाहं भवेय्य’’न्ति एवं पत्थनाकप्पनवसेन वुत्तानि. तानि पुरिमचतुक्के वुत्तनयेनेव वेदितब्बानि. एवमेतेसु –

द्वे दिट्ठिसीसा चत्तारो, सुद्धसीसा सीसमूलका;

तयो तयोति एतानि, अट्ठारस विभावये.

एतेसु हि सस्सतुच्छेदवसेन वुत्ता द्वे दिट्ठिसीसा नाम. अस्मीति, भविस्सन्ति, सियन्ति, अपाहं सियन्ति एते चत्तारो सुद्धसीसाएव. इत्थस्मीति आदयो तयो तयोति द्वादस सीसमूलका नामाति. एवमेते द्वे दिट्ठिसीसा, चत्तारो सुद्धसीसा, द्वादस सीसमूलकाति अट्ठारस तण्हाविचरितधम्मा वेदितब्बा.

९७४. इदानि पटिपाटियाव ते धम्मे भाजेत्वा दस्सेतुं कथञ्च अस्मीति होतीतिआदि आरद्धं. तत्थ कञ्चि धम्मं अनवकारिं करित्वाति रूपवेदनादीसु कञ्चि एकधम्मम्पि अविनिब्भोगं कत्वा, एकेकतो अग्गहेत्वा, समूहतोव गहेत्वाति अत्थो. अस्मीति छन्दं पटिलभतीति पञ्चक्खन्धे निरवसेसतो गहेत्वा ‘अह’न्ति तण्हं पटिलभति. मानदिट्ठीसुपि एसेव नयो. तत्थ किञ्चापि अयं तण्हाविचरितनिद्देसो, मानदिट्ठियो पन न विना तण्हाय, तस्मा तदेकट्ठवसेन इध वुत्ता. तण्हासीसेन वा पपञ्चत्तयम्पि उद्दिट्ठं. तं उद्देसानुरूपेनेव निद्दिसितुम्पि मानदिट्ठियो गहिता. तण्हापपञ्चं वा दस्सेन्तो तेनेव सद्धिं सेसपपञ्चेपि दस्सेतुं एवमाह.

तस्मिं सति इमानि पपञ्चितानीति तस्मिं ‘‘अस्मीति छन्दं पटिलभती’’तिआदिना नयेन वुत्ते पपञ्चत्तये सति पुन इमानि ‘‘इत्थस्मीति वा’’तिआदीनि पपञ्चितानि होन्तीति अत्थो.

खत्तियोस्मीतिआदीसु अभिसेकसेनामच्चादिना ‘खत्तियो अहं’, मन्तज्झेन पोरोहिच्चादिना ‘ब्राह्मणो अहं’, कसिगोरक्खादिना ‘वेस्सो अहं’, असितब्याभङ्गिताय ‘सुद्दो अहं’, गिहिब्यञ्जनेन ‘गहट्ठो अह’न्ति इमिना नयेन अत्थो वेदितब्बो. एवं इत्थस्मीति होतीति एवं खत्तियादीसु खत्तियादिप्पकारं अत्तनि उप्पादयित्वा ‘इत्थंपकारो अह’न्ति होति.

यथा सो खत्तियोतिआदीसु ‘यथा सो अभिसेकसेनामच्चादिना खत्तियो, तथा ‘अहम्पि खत्तियो’ति इमिना नयेन अत्थो वेदितब्बो. दुतियनये ‘यथा सो अभिसेकसेनामच्चादिना खत्तियो, नाहं तथा खत्तियो; अहं पन ततो हीनो वा सेट्ठो वा’ति इमिना नयेन अत्थो वेदितब्बो. भविस्सन्तिआदिनिद्देसादीसुपि एसेव नयो.

९७५. एवं अज्झत्तिकस्स उपादाय तण्हाविचरितानि भाजेत्वा इदानि बाहिरस्स उपादाय तण्हाविचरितानि भाजेतुं तत्थ कतमानीतिआदिमाह. तत्थ बाहिरस्स उपादायाति बाहिरं खन्धपञ्चकं उपादाय. इदम्पि हि उपयोगत्थे सामिवचनं. इमिनाति इमिना रूपेन वा…पे… विञ्ञाणेन वा. अवसेसं पन उद्देसवारे ताव वुत्तनयेनेव वेदितब्बं.

९७६. निद्देसवारे पन अवकारिं करित्वाति विनिब्भोगं कत्वा. इमिना अस्मीति छन्दं पटिलभतीतिआदीसु इमिना रूपेन वा…पे… विञ्ञाणेन वाति एवं पञ्चक्खन्धे एकदेसतो गहेत्वा इमिना ‘अह’न्ति छन्दादीनि पटिलभतीति एवमत्थो वेदितब्बो.

इमिना खत्तियोस्मीतिआदीसु ‘इमिना छत्तेन वा खग्गेन वा अभिसेकसेनामच्चादिना वा खत्तियो अह’न्ति एवं पुरिमनयेनेव अत्थो वेदितब्बो. इमिनाति पदमत्तमेव हेत्थ विसेसो.

यथा सो खत्तियोतिआदीसुपि इमिनाति वुत्तपदमेव विसेसो. तस्मा तस्स वसेन यथा खत्तियो, एवं अहम्पि इमिना खग्गेन वा छत्तेन वा अभिसेकसेनामच्चादिना वा खत्तियोति एवं योजेत्वा सब्बपदेसु अत्थो वेदितब्बो. इमिना निच्चोस्मीति पञ्चक्खन्धे अनवकारिं कत्वा रूपादीसु एकमेव धम्मं ‘अह’न्ति गहेत्वा ‘इमिना खग्गेन वा छत्तेन वा अहं निच्चो धुवो’ति मञ्ञति. उच्छेददिट्ठियम्पि एसेव नयो. सेसं सब्बत्थ वुत्तनयेनेव वेदितब्बं.

इति एवरूपानि अतीतानि छत्तिंसाति एकेकस्स पुग्गलस्स अतीते छत्तिंस. अनागतानि छत्तिंसाति एकेकस्सेव अनागते छत्तिंस. पच्चुप्पन्नानि छत्तिंसाति एकेकस्स वा पुग्गलस्स यथालाभवसेन बहुनं वा पच्चुप्पन्ने छत्तिंस. सब्बसत्तानं पन एकंसेनेव अतीते छत्तिंस, अनागते छत्तिंस, पच्चुप्पन्ने छत्तिंसाति वेदितब्बानि. अनन्ता हि असदिसतण्हामानदिट्ठिभेदा सत्ता. अट्ठतण्हाविचरितसतं होतीति एत्थ पन अट्ठसतसङ्खातं तण्हाविचरितं होतीति एवमत्थो दट्ठब्बो. सेसं सब्बत्थ उत्तानत्थमेवाति.

तण्हाविचरितनिद्देसवण्णना.

दिट्ठिगतनिद्देसवण्णना

९७७. दिट्ठिगतनिद्देसे ब्रह्मजाले वेय्याकरणेति ब्रह्मजालनामके वेय्याकरणे, दीघनिकायस्स पठमसुत्तन्ते. वुत्तानि भगवताति सत्थारा सयं आहच्च भासितानि. चत्तारो सस्सतवादातिआदीसु ‘‘ते च भोन्तो समणब्राह्मणा किमागम्म किमारब्भ सस्सतवादा सस्सतं अत्तानञ्च लोकञ्च पञ्ञापेन्ति चतूहि वत्थूही’’तिआदिना (दी. नि. १.२९-३०) ब्रह्मजाले वुत्तनयेनेव पभेदो च अत्थो च वेदितब्बोति.

सम्मोहविनोदनिया विभङ्गट्ठकथाय

खुद्दकवत्थुविभङ्गवण्णना निट्ठिता.