(८.) अट्ठकनिद्देसवण्णना

९५२. अट्ठकनिद्देसे किलेसायेव किलेसवत्थूनि. कुसीतवत्थूनीति कुसीतस्स अलसस्स वत्थूनि, पतिट्ठा, कोसज्जकारणानीति अत्थो. कम्मं कातब्बं होतीति चीवरविचारणादिकम्मं कातब्बं होति. न वीरियं आरभतीति दुविधम्पि वीरियं नारभति. अप्पत्तस्साति झानविपस्सनामग्गफलधम्मस्स अप्पत्तस्स पत्तिया. अनधिगतस्साति तस्सेव अनधिगतस्स अधिगमत्थाय. असच्छिकतस्साति तस्सेव असच्छिकतस्स सच्छिकरणत्थाय. इदं पठमन्ति ‘इदं हन्दाहं निपज्जामी’ति एवं ओसीदनं पठमं कुसीतवत्थु. इमिना नयेन सब्बत्थ अत्थो वेदितब्बो.

मासाचितं मञ्ञेति एत्थ पन मासाचितं नाम तिन्तमासो; यथा तिन्तमासो गरुको होति, एवं गरुकोति अधिप्पायो. गिलाना वुट्ठितो होतीति गिलानो हुत्वा पच्छा वुट्ठितो होति.

९५४. अट्ठसु लोकधम्मेसूति एत्थ लोकस्स धम्माति लोकधम्मा. एतेहि विमुत्तो नाम नत्थि, बुद्धानम्पि होन्ति एव. तस्मा ‘लोकधम्मा’ति वुच्चन्ति. पटिघातोति पटिहञ्ञनाकारो. लाभे सारागोति ‘अहं लाभं लभामी’ति एवं गेहसितसोमनस्सवसेन उप्पन्नो सारागो; सो चित्तं पटिहनति. अलाभे पटिविरोधोति ‘अहं लाभं न लभामी’ति दोमनस्सवसेन उप्पन्नविरोधो; सोपि चित्तं पटिहनति. तस्मा ‘पटिघातो’ति वुत्तो. यसादीसुपि ‘अहं महापरिवारो, अहं अप्पपरिवारो, अहं पसंसप्पत्तो, अहं गरहप्पत्तो, अहं सुखप्पत्तो, अहं दुक्खप्पतो’ति एवमेतेसं उप्पत्ति वेदितब्बा. अनरियवोहाराति अनरियानं वोहारा.

९५७. पुरिसदोसाति पुरिसानं दोसा. न सरामीति ‘मया एतस्स कम्मस्स कतट्ठानं न सरामि न सल्लक्खेमी’ति एवं अस्सतिभावेन निब्बेठेति मोचेति. चोदकंयेव पटिप्फरतीति पटिविरुद्धो हुत्वा फरति, पटिभाणितभावेन तिट्ठति. किं नु खो तुय्हन्ति ‘तुय्हं बालस्स अब्यत्तस्स भणितेन नाम किं’ यो त्वं नेव वत्थुना आपत्तिं, न चोदनं जानासी’ति दीपेति; ‘त्वं पि नाम एवं किञ्चि अजानन्तो भणितब्बं मञ्ञिस्ससी’ति अज्झोत्थरति. पच्चारोपेतीति ‘त्वं पि खोसी’तिआदीनि वदन्तो पटिआरोपेति. पटिकरोहीति देसनागामिनिं देसेहि, वुट्ठानगामिनितो वुट्ठाहि ततो सुद्धन्ते पतिट्ठितो अञ्ञं चोदेस्ससी’ति दीपेति.

अञ्ञेनाञ्ञं पटिचरतीति अञ्ञेन कारणेन वचनेन वा अञ्ञं कारणं वचनं वा पटिच्छादेति. ‘आपत्तिं आपन्नोसी’ति वुत्तो ‘को आपन्नो? किं आपन्नो? कथं आपन्नो? किस्मिं आपन्नो? कं भणथ? किं भणथा’ति वदति. ‘एवरूपं किञ्चि तया दिट्ठ’न्ति वुत्ते ‘न सुणामी’ति सोतं वा उपनेति. बहिद्धा कथं अपनामेतीति ‘इत्थन्नामं आपत्तिं आपन्नोसी’ति पुट्ठो ‘पाटलिपुत्तं गतोम्ही’ति वत्वा पुन ‘तव पाटलिपुत्तगमनं न पुच्छामा’ति वुत्ते ‘ततो राजगहं गतोम्ही’ति ‘राजगहं वा याहि, ब्राह्मणगेहं वा; आपत्तिं आपन्नोसी’ति? ‘तत्थ मे सूकरमंसं लद्ध’न्तिआदीनि वदन्तो कथं बहिद्धा विक्खिपति. कोपन्ति कुपितभावं. दोसन्ति दुट्ठभावं. उभयम्पेतं कोधस्सेव नामं. अप्पच्चयन्ति असन्तुट्ठाकारं; दोमनस्सस्सेतं नामं. पातुकरोतीति दस्सेति पकासेति. बाहाविक्खेपकं भणतीति बाहा विक्खिपित्वा अलज्जिवचनं वदति. विहेसेतीति विहेठेति बाधति. अनादियित्वाति चित्तीकारेन अग्गहेत्वा अवजानित्वा; अनादरो हुत्वाति अत्थो.

अतिबाळ्हन्ति अतिदळ्हं अतिप्पमाणं. मयि ब्यावटाति मयि ब्यापारं आपन्ना. हीनायावत्तित्वाति हीनस्स गिहिभावस्स अत्थाय आवत्तित्वा; गिही हुत्वाति अत्थो. अत्तमना होथाति तुट्ठचित्ता होथ, ‘मया लभितब्बं लभथ, मया वसितब्बट्ठाने वसथ, फासुविहारो वो मया कतो’ति अधिप्पायेन वदति.

९५८. असञ्ञीति पवत्तो वादो असञ्ञीवादो; सो तेसं अत्थीति असञ्ञीवादा. रूपी अत्तातिआदीसु लाभिनो कसिणरूपं अत्ताति गहेत्वा रूपीति दिट्ठि उप्पज्जति; अलाभिनो तक्कमत्तेनेव, आजीवकानं विय. लाभिनोयेव च पन अरूपसमापत्तिनिमित्तं अत्ताति गहेत्वा अरूपीति दिट्ठि उप्पज्जति; अलाभिनो तक्कमत्तेनेव, निगण्ठानं विय. असञ्ञीभावे पनेत्थ एकन्तेनेव कारणं न परियेसितब्बं. दिट्ठिगतिको हि उम्मत्तको विय यं वा तं वा गण्हाति. रूपी च अरूपी चाति रूपारूपमिस्सकगाहवसेन वुत्तं. अयं दिट्ठि रूपावचरारूपावचरसमापत्तिलाभिनोपि तक्किकस्सापि उप्पज्जति. नेव रूपी नारूपीति पन एकन्ततो तक्किकदिट्ठियेव. अन्तवाति परित्तकसिणं अत्ततो गण्हन्तस्स दिट्ठि. अनन्तवाति अप्पमाणकसिणं. अन्तवा च अनन्तवा चाति उद्धमधो सपरियन्तं तिरियं अपरियन्तं कसिणं अत्ताति गहेत्वा उप्पन्नदिट्ठि. नेवन्तवा नानन्तवाति तक्किकदिट्ठियेव. सेसं सब्बत्थ उत्तानत्थमेवाति.

अट्ठकनिद्देसवण्णना.