(६.) छक्कनिद्देसवण्णना

९४४. छक्कनिद्देसे यस्मा कुद्धो वा कोधवसेन, सन्दिट्ठिपरामासी वा सन्दिट्ठिपरामासिताय कलहं विग्गहं विवादं आपज्जति, तस्मा कोधादयो ‘विवादमूलानी’ति वुत्ता.

छन्दरागनिद्देसे कामगेहसितत्ता छन्दरागा गेहस्सिता धम्माति सङ्गहतो वत्वा पुन पभेदतो दस्सेतुं मनापियेसु रूपेसूतिआदि वुत्तं. तत्थ मनापियेसूति मनवड्ढनकेसु इट्ठेसु. विरोधा एव विरोधवत्थूनि. अमनापियेसूति अनिट्ठेसु.

९४५. अगारवेसु अगारवोति गारवविरहितो. अप्पतिस्सोति अप्पतिस्सयो अनीचवुत्ति. एत्थ पन यो भिक्खु सत्थरि धरमाने तीसु कालेसु उपट्ठानं न याति, सत्थरि अनुपाहने चङ्कमन्ते सउपाहनो चङ्कमति, नीचे चङ्कमे चङ्कमन्ते उच्चे चङ्कमे चङ्कमति, हेट्ठा वसन्ते उपरि वसति, सत्थुदस्सनट्ठाने उभो अंसे पारुपति, छत्तं धारेति, उपाहनं धारेति, न्हायति, उच्चारं वा पस्सावं वा करोति, परिनिब्बुते वा पन चेतियं वन्दितुं न गच्छति, चेतियस्स पञ्ञायनट्ठाने सत्थुदस्सनट्ठाने वुत्तं सब्बं करोति – अयं सत्थरि अगारवो नाम. यो पन धम्मसवने सङ्घुट्ठे सक्कच्चं न गच्छति, सक्कच्चं धम्मं न सुणाति, समुल्लपन्तो निसीदति, न सक्कच्चं गण्हाति, न सक्कच्चं वाचेति – ‘अयं धम्मे अगारवो नाम. यो पन थेरेन भिक्खुना अनज्झिट्ठो धम्मं देसेति, पञ्हं कथेति, वुड्ढे भिक्खू घट्टेन्तो गच्छति, तिट्ठति, निसीदति, दुस्सपल्लत्थिकं वा हत्थपल्लत्थिकं वा करोति, सङ्घमज्झे उभो अंसे पारुपति, छत्तुपाहनं धारेति – अयं सङ्घे अगारवो नाम. एकभिक्खुस्मिम्पि हि अगारवे कते सङ्घे अगारवो कतोव होति. तिस्सो सिक्खा पन अपूरयमानोव सिक्खाय अगारवो नाम. अप्पमादलक्खणं अननुब्रूहयमानो अप्पमादे अगारवो नाम. दुविधं पटिसन्थारं अकरोन्तो पटिसन्थारे अगारवो नाम.

परिहानिया धम्माति परिहानकरा धम्मा. कम्मारामताति नवकम्मे वा चीवरविचारणादीसु वा कम्मेसु अभिरति युत्तपयुत्तता. भस्सारामताति तिरच्छानकथावसेन भस्से युत्तपयुत्तता. निद्दारामताति निद्दाय युत्तपयुत्तता. सङ्गणिकारामताति सङ्गणिकाय युत्तपयुत्तता. संसग्गारामताति सवनसंसग्गे, दस्सनसंसग्गे, समुल्लापसंसग्गे, परिभोगसंसग्गे, कायसंसग्गेति पञ्चविधे संसग्गे युत्तपयुत्तता. पपञ्चारामताति तण्हामानदिट्ठिपपञ्चेसु युत्तपयुत्तता.

९४६. सोमनस्सुपविचारादीसु सोमनस्सेन सद्धिं उपविचरन्तीति सोमनस्सुपविचारा. चक्खुना रूपं दिस्वाति चक्खुविञ्ञाणेन रूपं पस्सित्वा. सोमनस्सट्ठानियन्ति सोमनस्सस्स आरम्मणवसेन कारणभूतं. उपविचरतीति तत्थ विचारप्पवत्तनेन उपविचरति. वितक्को पन तंसम्पयुत्तो वाति इमिना नयेन तीसुपि छक्केसु अत्थो वेदितब्बो.

९४७. गेहसितानीति कामगुणनिस्सितानि. सोमनस्सानीति चेतसिकसुखानि. दोमनस्सानीति चेतसिकदुक्खानि. उपेक्खाति अञ्ञाणसम्पयुत्ता उपेक्खा वेदना, अञ्ञाणुपेक्खातिपि एतासंयेव नामं.

९४८. अत्थि मे अत्ताति वाति सब्बपदेसु वा-सद्दो विकप्पत्थो; एवं वा दिट्ठि उप्पज्जतीति वुत्तं होति. अत्थि मे अत्ताति चेत्थ सस्सतदिट्ठि सब्बकालेसु अत्तनो अत्थितं गण्हाति. सच्चतो थेततोति भूततो च थिरतो च; इदं सच्चन्ति सुट्ठु दळ्हभावेनाति वुत्तं होति. नत्थि मे अत्ताति अयं पन उच्छेददिट्ठि, सतो सत्तस्स तत्थ तत्थ विभवग्गहणतो. अथ वा पुरिमापि तीसु कालेसु अत्थीति गहणतो सस्सतदिट्ठि, पच्चुप्पन्नमेव अत्थीति गण्हन्ती उच्छेददिट्ठि. पच्छिमापि अतीतानागतेसु नत्थीति गहणतो ‘भस्मन्ता आहुतियो’ति गहितदिट्ठिकानं विय उच्छेददिट्ठि, अतीतेयेव नत्थीति गण्हन्ती अधिच्चसमुप्पन्निकस्सेव सस्सतदिट्ठि. अत्तना वा अत्तानं सञ्जानामीति सञ्ञाक्खन्धसीसेन खन्धे अत्ताति गहेत्वा सञ्ञाय अवसेसक्खन्धे सञ्जाननतो ‘इमिना अत्तना इमं अत्तानं सञ्जानामी’ति एवं होति. अत्तना वा अनत्तानन्ति सञ्ञाक्खन्धंयेव अत्ताति गहेत्वा इतरे चत्तारो खन्धे अनत्ताति गहेत्वा सञ्ञाय तेसं जाननतो एवं होति. अनत्तना वा अत्तानन्ति सञ्ञाक्खन्धं अनत्ताति इतरे च चत्तारो खन्धे अत्ताति गहेत्वा सञ्ञाय तेसं जाननतो एवं होति. सब्बापि सस्सतुच्छेददिट्ठियोव.

वदो वेदेय्योति आदयो पन सस्सतदिट्ठिया एव अभिनिवेसाकारा. तत्थ वदतीति वदो; वचीकम्मस्स कारकोति वुत्तं होति. वेदयतीति वेदेय्यो; जानाति अनुभवति चाति वुत्तं होति. इदानि यं सो वेदेति तं दस्सेतुं तत्र तत्र दीघरत्तं कल्याणपापकानन्तिआदि वुत्तं. तत्थ तत्र तत्राति तेसु तेसु योनिगतिठितिनिवासनिकायेसु आरम्मणेसु वा. दीघरत्तन्ति चिररत्तं. पच्चनुभोतीति पटिसंवेदयति. न सो जातो नाहोसीति सो अत्ता अजातिधम्मतो न जातो नाम; सदा विज्जमानो येवाति अत्थो. तेनेव अतीते नाहोसि, अनागतेपि न भविस्सति. यो हि जातो सो अहोसि, यो च जायिस्सति सो भविस्सतीति. अथवा ‘न सो जातो नाहोसी’ति सो सदा विज्जमानत्ता अतीतेपि न जातु नाहोसि, अनागतेपि न जातु न भविस्सति. निच्चोति उप्पादवयरहितो. धुवोति थिरो सारभूतो. सस्सतोति सब्बकालिको. अविपरिणामधम्मोति अत्तनो पकतिभावं अविजहनधम्मो ककण्टको विय नानप्पकारत्तं नापज्जति. एवमयं सब्बासवदिट्ठि (म. नि. १.१७ आदयो) नाम कथिता. सेसं सब्बत्थ उत्तानत्थमेवाति.

छक्कनिद्देसवण्णना.