(३.) तिकनिद्देसवण्णना
७६८. तिविधेन ञाणवत्थुनिद्देसे योगविहितेसूति योगो वुच्चति पञ्ञा; पञ्ञाविहितेसु पञ्ञापरिणामितेसूति अत्थो. कम्मायतनेसूति एत्थ कम्ममेव कम्मायतनं; अथ वा कम्मञ्च तं आयतनञ्च आजीवादीनन्तिपि कम्मायतनं. सिप्पायतनेसुपि एसेव नयो. तत्थ दुविधं कम्मं – हीनञ्च उक्कट्ठञ्च. तत्थ हीनं नाम वड्ढकीकम्मं, पुप्फछड्डककम्मन्ति एवमादि. उक्कट्ठं नाम कसि, वणिज्जा, गोरक्खन्ति एवमादि. सिप्पम्पि दुविधं हीनञ्च उक्कट्ठञ्च. तत्थ हीनं सिप्पं नाम नळकारसिप्पं, पेसकारसिप्पं, कुम्भकारसिप्पं, चम्मकारसिप्पं, न्हापितसिप्पन्ति एवमादि. उक्कट्ठं नाम सिप्पं मुद्दा, गणना, लेखञ्चाति एवमादि विज्जाव विज्जाट्ठानं. तं धम्मिकमेव गहितं. नागमण्डलपरित्तसदिसं, फुधमनकमन्तसदिसं, सालाकियं, सल्लकत्तियन्तिआदीनि पन वेज्जसत्थानि ‘‘इच्छामहं, आचरिय, सिप्पं सिक्खितु’’न्ति (महाव. ३२९) सिप्पायतने पविट्ठत्ता न गहितानि.
तत्थ एको पण्डितो मनुस्सानं फासुविहारत्थाय अत्तनो च धम्मताय गेहपासादयाननावादीनि उप्पादेति. सो हि ‘इमे मनुस्सा वसनट्ठानेन विना दुक्खिता’ति हितकिरियाय ठत्वा दीघचतुरस्सादिभेदं गेहं उप्पादेति, सीतुण्हपटिघातत्थाय एकभूमिकद्विभूमिकादिभेदे पासादे करोति, ‘याने असति अनुसञ्चरणं नाम दुक्ख’न्ति जङ्घाकिलमथपटिविनोदनत्थाय वय्हसकटसन्दमानिकादीनि उप्पादेति, ‘नावाय असति समुद्दादीसु सञ्चारो नाम नत्थी’ति नानप्पकारं नावं उप्पादेति. सो सब्बम्पेतं नेव अञ्ञेहि कयिरमानं पस्सति, न कतं उग्गण्हाति, न कथेन्तानं सुणाति, अत्तनो पन धम्मताय चिन्ताय करोति. पञ्ञवता हि अत्तनो धम्मताय कतम्पि अञ्ञेहि उग्गण्हित्वा करोन्तेहि कतसदिसमेव होति. अयं ताव हीनकम्मे नयो.
उक्कट्ठकम्मेपि ‘कसिकम्मे असति मनुस्सानं जीवितं न पवत्तती’ति एको पण्डितो मनुस्सानं फासुविहारत्थाय युगनङ्गलादीनि कसिभण्डानि उप्पादेति; तथा नानप्पकारं वाणिजकम्मं गोरक्खञ्च उप्पादेति. सो सब्बम्पेतं नेव अञ्ञेहि करियमानं पस्सति…पे… कतसदिसमेव होति. अयं उक्कट्ठकम्मे नयो.
दुविधेपि पन सिप्पायतने एको पण्डितो मनुस्सानं फासुविहारत्थाय नळकारसिप्पादीनि हीनसिप्पानि, हत्थमुद्दाय गणनसङ्खातं मुद्दं, अच्छिन्नकसङ्खातं गणनं, मातिकाप्पभेदकादिभेदञ्च लेखं उप्पादेति. सो सब्बम्पेतं नेव अञ्ञेहि करियमानं पस्सति…पे… कतसदिसमेव होति. अयं सिप्पायतने नयो.
एकच्चो पन पण्डितो अमनुस्ससरीसपादीहि उपद्दुतानं मनुस्सानं तिकिच्छनत्थाय धम्मिकानि नागमण्डलमन्तादीनि विज्जाट्ठानानि उप्पादेति, तानि नेव अञ्ञेहि करियमानानि पस्सति, न कतानि उग्गण्हाति, न कथेन्तानं सुणाति, अत्तनो पन धम्मताय चिन्ताय करोति. पञ्ञवता हि अत्तनो धम्मताय कतम्पि अञ्ञेहि उग्गण्हित्वा करोन्तेहि कतसदिसमेव होति.
कम्मस्सकतं वाति ‘‘इदं कम्मं सत्तानं सकं, इदं नो सक’’न्ति एवं जाननञाणं. सच्चानुलोमिकं वाति विपस्सनाञाणं. तञ्हि चतुन्नं सच्चानं अनुलोमनतो सच्चानुलोमिकन्ति वुच्चति. इदानिस्स पवत्तनाकारं दस्सेतुं रूपं अनिच्चन्ति वातिआदि वुत्तं. एत्थ च अनिच्चलक्खणमेव आगतं, न दुक्खलक्खणअनत्तलक्खणानि, अत्थवसेन पन आगतानेवाति दट्ठब्बानि – यञ्हि अनिच्चं तं दुक्खं, यं दुक्खं तदनत्ताति.
यं एवरूपिन्ति यं एवं हेट्ठा निद्दिट्ठसभावं अनुलोमिकं. खन्तिन्तिआदीनि सब्बानि पञ्ञावेवचनानेव. सा हि हेट्ठा वुत्तानं कम्मायतनादीनं पञ्चन्नं कारणानं अपच्चनीकदस्सनेन अनुलोमेतीति अनुलोमिका. तथा सत्तानं हितचरियाय अनुलोमेति, मग्गसच्चस्स अनुलोमेति, परमत्थसच्चस्स निब्बानस्स अनुलोमनतो अनुलोमेतीतिपि अनुलोमिका. सब्बानिपि एतानि कारणानि खमति सहति दट्ठुं सक्कोतीति खन्ति, पस्सतीति दिट्ठि, रोचेतीति रुचि, मुदतीति मुदि, पेक्खतीति पेक्खा. सब्बेपिस्सा ते कम्मायतनादयो धम्मा निज्झानं खमन्ति, विसेसतो च पञ्चक्खन्धसङ्खाता धम्मा पुनप्पुनं अनिच्चदुक्खानत्तवसेन निज्झायमाना तं निज्झानं खमन्तीति धम्मनिज्झानखन्ती.
परतो अस्सुत्वा पटिलभतीति अञ्ञस्स उपदेसवचनं अस्सुत्वा सयमेव चिन्तेन्तो पटिलभति. अयं वुच्चतीति अयं चिन्तामया पञ्ञा नाम वुच्चति. सा पनेसा न येसं केसञ्चि उप्पज्जति, अभिञ्ञातानं पन महासत्तानमेव उप्पज्जति. तत्थापि सच्चानुलोमिकञाणं द्विन्नंयेव बोधिसत्तानं उप्पज्जति. सेसपञ्ञा सब्बेसम्पि पूरितपारमीनं महापञ्ञानं उप्पज्जतीति वेदितब्बा.
परतो सुत्वा पटिलभतीति एत्थ कम्मायतनादीनि परेन करियमानानि वा कतानि वा दिस्वापि यस्स कस्सचि कथयमानस्स वचनं सुत्वापि आचरियस्स सन्तिके उग्गहेत्वापि पटिलद्धा सब्बा परतो सुत्वायेव पटिलद्धा नामाति वेदितब्बा.
समापन्नस्साति समापत्तिसमङ्गिस्स; अन्तोसमापत्तियं पवत्ता पञ्ञा भावनामया नामाति अत्थो.
७६९. दानं आरब्भाति दानं पटिच्च; दानचेतनापच्चयाति अत्थो. दानाधिगच्छाति दानं अधिगच्छन्तस्स; पापुणन्तस्साति अत्थो. या उप्पज्जतीति या एवं दानचेतनासम्पयुत्ता पञ्ञा उप्पज्जति, अयं दानमया पञ्ञा नाम. सा पनेसा ‘दानं दस्सामी’ति चिन्तेन्तस्स, दानं देन्तस्स, दानं दत्वा तं पच्चवेक्खन्तस्स पुब्बचेतना, मुञ्चचेतना, अपरचेतनाति तिविधेन उप्पज्जति.
सीलं आरब्भ सीलाधिगच्छाति इधापि सीलचेतनासम्पयुत्ताव सीलमया पञ्ञाति अधिप्पेता. अयम्पि ‘सीलं पूरेस्सामी’ति चिन्तेन्तस्स, सीलं पूरेन्तस्स, सीलं पूरेत्वा तं पच्चवेक्खन्तस्स पुब्बचेतना, मुञ्चचेतना, अपरचेतनाति तिविधेनेव उप्पज्जति. भावनामया हेट्ठा वुत्तायेव.
७७०. अधिसीलपञ्ञादीसु सीलादीनि दुविधेन वेदितब्बानि – सीलं, अधिसीलं; चित्तं, अधिचित्तं; पञ्ञा, अधिपञ्ञाति. तत्थ ‘‘उप्पादा वा तथागतानं अनुप्पादा वा तथागतानं ठिताव सा धातु धम्मट्ठितता धम्मनियामता’’ति (सं. नि. २.२०; अ. नि. ३.१३७) इमाय तन्तिया सङ्गहितवसेन पञ्चपि सीलानि दसपि सीलानि सीलं नाम. तञ्हि तथागते उप्पन्नेपि अनुप्पन्नेपि होति. अनुप्पन्ने के पञ्ञापेन्तीति? तापसपरिब्बाजका, सब्बञ्ञुबोधिसत्ता, चक्कवत्तिराजानो च पञ्ञापेन्ति. उप्पन्ने सम्मासम्बुद्धे भिक्खुसङ्घो, भिक्खुनीसङ्घो, उपासका, उपासिकायो च पञ्ञापेन्ति. पातिमोक्खसंवरसीलं पन सब्बसीलेहि अधिकं उप्पन्नेयेव तथागते उप्पज्जति, नो अनुप्पन्ने. सब्बञ्ञुबुद्धायेव च नं पञ्ञापेन्ति. ‘‘इमस्मिं वत्थुस्मिं वीतिक्कमे इदं नाम होती’’ति पञ्ञापनञ्हि अञ्ञेसं अविसयो, बुद्धानंयेव एस विसयो, बुद्धानं बलं. इति यस्मा पातिमोक्खसंवरो अधिसीलं, तस्मा तं अधिसीलपञ्ञं दस्सेतुं पातिमोक्खसंवरं संवरन्तस्सातिआदि वुत्तं.
हेट्ठा वुत्ताय एव पन तन्तिया सङ्गहितवसेन वट्टपादिका अट्ठ समापत्तियो चित्तं नाम. तञ्हि तथागते उप्पन्नेपि होति अनुप्पन्नेपि. अनुप्पन्ने के निब्बत्तेन्तीति? तापसपरिब्बाजका चेव सब्बञ्ञुबोधिसत्ता च चक्कवत्तिराजानो च. उप्पन्ने भगवति विसेसत्थिका भिक्खुआदयोपि निब्बत्तेन्तियेव. विपस्सनापादिका पन अट्ठ समापत्तियो सब्बचित्तेहि अधिका, उप्पन्नेयेव तथागते उप्पज्जन्ति, नो अनुप्पन्ने. सब्बञ्ञुबुद्धा एव च एता पञ्ञापेन्ति. इति यस्मा अट्ठ समापत्तियो अधिचित्तं, तस्मा अधिचित्तपञ्ञं दस्सेतुं रूपावचरारूपावचरसमापत्तिं समापज्जन्तस्सातिआदि वुत्तं.
हेट्ठा वुत्ताय एव पन तन्तिया सङ्गहितवसेन कम्मस्सकतञाणं पञ्ञा नाम. तञ्हि तथागते उप्पन्नेपि होति अनुप्पन्नेपि. अनुप्पन्ने वेलामदानवेस्सन्तरदानादिवसेन उप्पज्जति; उप्पन्ने तेन ञाणेन महादानं पवत्तेन्तानं पमाणं नत्थि. मग्गफलपञ्ञा पन सब्बपञ्ञाहि अधिका, उप्पन्नेयेव तथागते वित्थारिका हुत्वा पवत्तति, नो अनुप्पन्ने. इति यस्मा मग्गफलपञ्ञा अधिपञ्ञा, तस्मा अतिरेकपञ्ञाय पञ्ञं दस्सेतुं चतूसु मग्गेसूतिआदि वुत्तं.
तत्थ सिया – सीलं, अधिसीलं; चित्तं, अधिचित्तं; पञ्ञा, अधिपञ्ञाति इमेसु छसु कोट्ठासेसु विपस्सना पञ्ञा कतरसन्निस्सिताति? अधिपञ्ञासन्निस्सिता. तस्मा यथा ओमकतरप्पमाणं छत्तं वा धजं वा उपादाय अतिरेकप्पमाणं अतिछत्तं अतिधजोति वुच्चति, एवमिदम्पि पञ्चसीलं दससीलं उपादाय पातिमोक्खसंवरसीलं ‘अधिसीलं’ नाम; वट्टपादिका अट्ठ समापत्तियो उपादाय विपस्सनापादिका अट्ठ समापत्तियो ‘अधिचित्तं’ नाम, कम्मस्सकतपञ्ञं उपादाय विपस्सनापञ्ञा च मग्गपञ्ञा च फलपञ्ञा च ‘अधिपञ्ञा’ नामाति वेदितब्बा.
७७१. आयकोसल्लादिनिद्देसे यस्मा आयोति वुड्ढि, सा अनत्थहानितो अत्थुप्पत्तितो च दुविधा; अपायोति अवुड्ढि, सापि अत्थहानितो अनत्थुप्पत्तितो च दुविधा; तस्मा तं दस्सेतुं इमे धम्मे मनसिकरोतोतिआदि वुत्तं. इदं वुच्चतीति या इमेसं अकुसलधम्मानं अनुप्पत्तिप्पहानेसु कुसलधम्मानञ्च उप्पत्तिट्ठितीसु पञ्ञा – इदं आयकोसल्लं नाम वुच्चति. या पनेसा कुसलधम्मानं अनुप्पज्जननिरुज्झनेसु अकुसलधम्मानञ्च उप्पत्तिट्ठितीसु पञ्ञा – इदं अपायकोसल्लं नामाति अत्थो. आयकोसल्लं ताव पञ्ञा होतु; अपायकोसल्लं कथं पञ्ञा नाम जाताति? पञ्ञवायेव हि ‘मय्हं एवं मनसिकरोतो अनुप्पन्ना कुसला धम्मा नुप्पज्जन्ति उप्पन्ना च निरुज्झन्ति; अनुप्पन्ना अकुसला धम्मा उप्पज्जन्ति, उप्पन्ना पवड्ढन्ती’ति पजानाति. सो एवं ञत्वा अनुप्पन्नानं अकुसलानं धम्मानं उप्पज्जितुं न देति, उप्पन्ने पजहति; अनुप्पन्ने कुसले उप्पादेति, उप्पन्ने भावनापारिपूरिं पापेति. एवं अपायकोसल्लम्पि पञ्ञा एवाति वेदितब्बं. सब्बापि तत्रूपाया पञ्ञा उपायकोसल्लन्ति इदं पन अच्चायिककिच्चे वा भये वा उप्पन्ने तस्स तिकिच्छनत्थं ठानुप्पत्तियकारणजाननवसेनेव वेदितब्बं. सेसं सब्बत्थ उत्तानत्थमेवाति.
तिकनिद्देसवण्णना.