१. पुग्गलवारवण्णना

६३. इदानि ठपितानुक्कमेन मातिकं विस्सज्जेतुं यस्स चित्तं उप्पज्जति न निरुज्झतीतिआदि आरद्धं. तत्थ उप्पज्जतीति उप्पादक्खणसमङ्गिताय उप्पज्जति न निरुज्झतीति निरोधक्खणं अप्पत्तताय न निरुज्झति. तस्स चित्तन्ति तस्स पुग्गलस्स ततो पट्ठाय चित्तं निरुज्झिस्सति नुप्पज्जिस्सतीति पुच्छति. तेसं चित्तन्ति येसं परिच्छिन्नवट्टदुक्खानं खीणासवानं सब्बपच्छिमस्स चुतिचित्तस्स उप्पादक्खणो वत्तति, एतेसं तदेव चुतिचित्तं उप्पादप्पत्तताय उप्पज्जति नाम, भङ्गं अप्पत्तताय न निरुज्झति. इदानि पन भङ्गं पत्वा तं तेसं चित्तं निरुज्झिस्सति, ततो अप्पटिसन्धिकत्ता अञ्ञं नुप्पज्जिस्सति. इतरेसन्ति पच्छिमचित्तसमङ्गिं खीणासवं ठपेत्वा अवसेसानं सेक्खासेक्खपुथुज्जनानं निरुज्झिस्सति चेव उप्पज्जिस्सति चाति यं तं उप्पादक्खणप्पत्तं तं निरुज्झिस्सतेव. अञ्ञं पन तस्मिं वा अञ्ञस्मिं वा अत्तभावे उप्पज्जिस्सति चेव निरुज्झिस्सति च. दुतियपुच्छाविस्सज्जनेपि तथारूपस्सेव खीणासवस्स चित्तं सन्धाय ‘आमन्ता’ति वुत्तं. नुप्पज्जति निरुज्झतीति भङ्गक्खणे अरहतो पच्छिमचित्तम्पि सेसानं भिज्जमानचित्तम्पि. ततो पट्ठाय पन अरहतो चित्तं न निरुज्झिस्सतीति सक्का वत्तुं उप्पज्जिस्सतीति पन न सक्का. सेसानं उप्पज्जिस्सतीति सक्का वत्तुं, न निरुज्झिस्सतीति न सक्का. तस्मा ‘नो’ति पटिसेधो कतो. दुतियपञ्हे यस्स चित्तं न निरुज्झिस्सति, उप्पज्जिस्सतीति सो पुग्गलोयेव नत्थि, तस्मा नत्थीति पटिक्खेपो कतो.

६५-८२. उप्पन्नन्ति उप्पादसमङ्गिनोपेतं नामं. उप्पादं पत्वा अनिरुद्धस्सापि. तत्थ उप्पादसमङ्गितं सन्धाय ‘आमन्ता’ति, उप्पादं पत्वा अनिरुद्धभावं सन्धाय ‘‘तेसं चित्तं उप्पन्न’’न्ति वुत्तं. अनुप्पन्नन्ति उप्पादं अप्पत्तं. तेसं चित्तं उप्पज्जित्थाति एत्थापि सब्बेसं ताव चित्तं खणपच्चुप्पन्नमेव हुत्वा उप्पादक्खणं अतीतत्ता उप्पज्जित्थ नाम, निरोधसमापन्नानं निरोधतो पुब्बे उप्पन्नपुब्बत्ता, असञ्ञसत्तानं सञ्ञीभवे उप्पन्नपुब्बत्ता. उप्पज्जित्थ चेव उप्पज्जति चाति उप्पादं पत्तत्ता उप्पज्जित्थ, अनतीतत्ता उप्पज्जति नामाति अत्थो.

उप्पादक्खणे अनागतञ्चाति उप्पादक्खणे च चित्तं अनागतञ्च चित्तन्ति अत्थो.

८३. अतिक्कन्तकालवारे उप्पज्जमानं खणन्ति उप्पादक्खणं. तत्थ किञ्चापि उप्पादक्खणो उप्पज्जमानो नाम न होति, उप्पज्जमानस्स पन खणत्ता एवं वुत्तो. खणं वीतिक्कन्तं अतिक्कन्तकालन्ति न चिरं वीतिक्कन्तं तमेव पन उप्पादक्खणं वीतिक्कन्तं हुत्वा अतिक्कन्तकालन्ति सङ्खं गच्छति. निरुज्झमानं खणन्ति निरोधक्खणं. तत्थ किञ्चापि निरोधक्खणो निरुज्झमानो नाम न होति, निरुज्झमानस्स पन खणत्ता एवं वुत्तो. खणं वीतिक्कन्तं अतिक्कन्तकालन्ति किं तस्स चित्तं एवं निरोधक्खणम्पि वीतिक्कन्तं हुत्वा अतिक्कन्तकालं नाम होतीति पुच्छति. तत्थ यस्मा भङ्गक्खणे चित्तं उप्पादक्खणं खणं वीतिक्कन्तं हुत्वा अतिक्कन्तकालं होति, निरोधक्खणं खणं वीतिक्कन्तं हुत्वा अतिक्कन्तकालं नाम न होति. अतीतं पन चित्तं उभोपि खणे खणं वीतिक्कन्तं हुत्वा अतिक्कन्तकालं नाम, तस्मा ‘‘भङ्गक्खणे चित्तं उप्पादक्खणं वीतिक्कन्तं, भङ्गक्खणं अवीतिक्कन्तं, अतीतं चित्तं उप्पादक्खणञ्च वीतिक्कन्तं भङ्गक्खणञ्च वीतिक्कन्तन्ति विस्सज्जनमाह. दुतियपञ्हस्स विस्सज्जने यस्मा अतीतं चित्तं उभोपि खणे वीतिक्कन्तं हुत्वा अतिक्कन्तकालं नाम होति, तस्मा अतीतं चित्तन्ति वुत्तं. पटिलोमपञ्हस्स विस्सज्जने यस्मा उप्पादक्खणे च चित्तं अनागतञ्च चित्तं उभोपि खणे खणं वीतिक्कन्तं हुत्वा अतिक्कन्तकालं नाम न होति, तेसं खणानं अवीतिक्कन्तत्ता. तस्मा ‘‘उप्पादक्खणे चित्तं अनागतं चित्त’’न्ति वुत्तं. दुतियविस्सज्जनं पाकटमेव.

८४-११३. धम्मवारेपि इमिनावुपायेन सब्बविस्सज्जनेसु अत्थो वेदितब्बो. पुग्गलधम्मवारो धम्मवारगतिकोयेव.

११४-११६. सब्बेपि मिस्सकवारा यस्स सरागं चित्तन्तिआदिना नयेन मुखमत्तं दस्सेत्वा सङ्खित्ता. वित्थारो पन नेसं हेट्ठा वुत्तनयेनेव वेदितब्बो. तेसु पन ‘‘यस्स सरागं चित्तं उप्पज्जति, न निरुज्झति; तस्स चित्तं निरुज्झिस्सति, नुप्पज्जिस्सती’’ति एवं वित्थारेतब्बताय पुच्छाव सदिसा होति. यस्मा पन सरागं चित्तं पच्छिमचित्तं न होति, तस्मा ‘‘यस्स सरागं चित्तं उप्पज्जति, न निरुज्झति; तस्स चित्तं निरुज्झिस्सति, नुप्पज्जिस्सतीति नो’’ति एवं विस्सज्जितब्बत्ता विस्सज्जनं असदिसं होति. तं तं तस्सा तस्सा पुच्छाय अनुरूपवसेन वेदितब्बन्ति.

चित्तयमकवण्णना निट्ठिता.