३. सुत्तसाधनपरिहानिवण्णना

२६५. इदानि सुत्तसाधना होति. तत्थ उच्चावचाति उत्तमहीनभेदतो उच्चा च अवचा च. पटिपादाति पटिपदा. समणेन पकासिताति बुद्धसमणेन जोतिता. सुखापटिपदा हि खिप्पाभिञ्ञा उच्चा. दुक्खापटिपदा दन्धाभिञ्ञा अवचा. इतरा द्वे एकेनङ्गेन उच्चा, एकेन अवचा. पठमं वुत्ता एव वा उच्चा, इतरो तिस्सोपि अवचा. ताय चेताय उच्चावचाय पटिपदाय न पारं दिगुणं यन्ति, एकमग्गेन द्विक्खत्तुं निब्बानं न गच्छन्तीति अत्थो. कस्मा? येन मग्गेन ये किलेसा पहीना, तेन तेसं पुन अप्पहातब्बतो. एतेन परिहानिधम्माभावं दीपेति. नयिदं एकगुणं मुतन्ति तञ्च इदं पारं एकवारंयेव फुसनारहं न होति. कस्मा? एकेन मग्गेन सब्बकिलेसानं अप्पहानतो. एतेन एकमग्गेनेव अरहत्ताभावं दीपेति.

अत्थि छिन्नस्स छेदियन्ति छिन्नस्स किलेसवट्टस्स पुन छिन्दितब्बं किञ्चि अत्थीति पुच्छति. इतरो तिक्खिन्द्रियं सन्धाय पटिक्खिपित्वा पुन पुट्ठो मुदिन्द्रियं सन्धाय पटिजानाति. सकवादी सुत्तं आहरित्वा नत्थिभावं दस्सेति. तत्थ ओघपासोति किलेसोघो चेव किलेसपासो च.

२६६. कतस्स पटिचयोति भावितस्स मग्गस्स पुन भावना. इधापि पटिक्खेपपटिजाननानि पुरिमनयेनेव वेदितब्बानि.

२६७. परिहानाय संवत्तन्तीति परवादिना आभते सुत्ते पञ्च धम्मा अप्पत्तपरिहानाय चेव लोकियसमापत्तिपरिहानाय च संवत्तन्ति. सो पन पत्तस्स अरहत्तफलस्स परिहानाय सल्लक्खेति. तेनेव अत्थि अरहतो कम्मारामताति आह. इतरोपि असमयविमुत्तं सन्धाय पटिक्खिपित्वा इतरं सन्धाय पटिजानाति. कामरागवसेन वा पवत्तमानं तं पटिक्खिपित्वा इतरथा पवत्तमानं पटिजानाति. रागादीनं पन अत्थितं पुट्ठो पटिजानितुं न सक्कोति.

२६८. किं परियुट्ठितोति केन परियुट्ठितो अनुबद्धो अज्झोत्थतो वा हुत्वाति अत्थो. अनुसयपुच्छायपि तिक्खिन्द्रियमुदिन्द्रियवसेनेव पटिक्खेपपटिजाननानि वेदितब्बानि. कल्याणानुसयोति वचनमत्तसामञ्ञेन वा पटिजानाति. रागो उपचयं गच्छतीति भावनाय पहीनं सन्धायाह. परतो दोसमोहेसुपि एसेव नयो. सक्कायदिट्ठिआदीनं पन दस्सनेन पहीनत्ता उपचयं न इच्छति. सेसं सब्बत्थ उत्तानत्थमेवाति.

सुत्तसाधना.

परिहानिकथा निट्ठिता.