२. पवत्तिवारवण्णना

१९. पवत्तिवारे पनेत्थ पच्चुप्पन्नकाले पुग्गलवारस्स अनुलोमनये ‘‘यस्स कायसङ्खारो उप्पज्जति, तस्स वचीसङ्खारो उप्पज्जती’’ति कायसङ्खारमूलकानि द्वे, वचीसङ्खारमूलकं एकन्ति तीणेव यमकानि लब्भन्ति; तानि गहितानेव. तस्स पटिलोमनयेपि ओकासवारादीसुपि एसेव नयो. एवमेत्थ सब्बवारेसु तिण्णं तिण्णं यमकानं वसेन यमकगणना वेदितब्बा.

अत्थविनिच्छये पनेत्थ इदं लक्खणं – इमस्मिञ्हि सङ्खारयमके ‘‘अस्सासपस्सासानं उप्पादक्खणे वितक्कविचारानं उप्पादक्खणे’’तिआदिवचनतो पच्चुप्पन्नादिकालभेदो पवत्तिवसेनापि गहेतब्बो, न चुतिपटिसन्धिवसेनेव. ‘‘दुतियज्झाने ततियज्झाने तत्थ कायसङ्खारो उप्पज्जती’’तिआदिवचनतो च झानम्पि ओकासवसेन गहितन्ति वेदितब्बं. एवमेत्थ यं यं लब्भति, तस्स तस्स वसेन अत्थविनिच्छयो वेदितब्बो.

तत्रिदं नयमुखं – विना वितक्कविचारेहीति दुतियततियज्झानवसेन वुत्तं. तेसन्ति तेसं दुतियततियज्झानसमङ्गीनं. कामावचरानन्ति कामावचरे उप्पन्नसत्तानं. रूपावचरदेवानं पन अस्सासपस्सासा नत्थि. अरूपावचरानं रूपमेव नत्थि. विना अस्सासपस्सासेहीति रूपारूपभवेसु निब्बत्तसत्तानं वितक्कविचारुप्पत्तिं सन्धाय वुत्तं.

२१. पठमज्झाने कामावचरेति कामावचरभूमियं उप्पन्ने पठमज्झाने. अङ्गमत्तवसेन चेत्थ पठमज्झानं गहेतब्बं, न अप्पनावसेनेव. अनप्पनापत्तेपि हि सवितक्कसविचारचित्ते इदं सङ्खारद्वयं उप्पज्जतेव.

२४. चित्तस्स भङ्गक्खणेति इदं कायसङ्खारस्स एकन्तचित्तसमुट्ठानत्ता वुत्तं. उप्पज्जमानमेव हि चित्तं रूपं वा अरूपं वा समुट्ठापेति, न भिज्जमानं.

३७. सुद्धावासानं दुतिये चित्ते वत्तमानेति पटिसन्धितो दुतिये भवङ्गचित्ते. कामञ्चेतं पटिसन्धिचित्तेपि वत्तमाने तेसं तत्थ नुप्पज्जित्थेव. याव पन अब्बोकिण्णं विपाकचित्तं वत्तति, ताव नुप्पज्जित्थेव नामाति दस्सनत्थमेतं वुत्तं. यस्स वा झानस्स विपाकचित्तेन ते निब्बत्ता, तं सतसोपि सहस्ससोपि उप्पज्जमानं पठमचित्तमेव. विपाकचित्तेन पन विसदिसं भवनिकन्तिया आवज्जनचित्तं दुतियचित्तं नाम. तं सन्धायेतं वुत्तन्ति वेदितब्बं.

४४. पच्छिमचित्तसमङ्गीनन्ति सब्बपच्छिमेन अप्पटिसन्धिकचित्तेन समङ्गीभूतानं खीणासवानं. अवितक्कअविचारं पच्छिमचित्तन्ति रूपावचरानं दुतियज्झानिकादिचुतिचित्तवसेन, अरूपावचरानञ्च चतुत्थज्झानिकचुतिचित्तवसेनेतं वुत्तं. तेसन्ति तेसं पच्छिमचित्तसमङ्गीआदीनं.

७९. यस्स कायसङ्खारो निरुज्झति, तस्स चित्तसङ्खारो निरुज्झतीति एत्थ नियमतो कायसङ्खारस्स चित्तसङ्खारेन सद्धिं एकक्खणे निरुज्झनतो आमन्ताति पटिवचनं दिन्नं. न चित्तसङ्खारस्स कायसङ्खारेन सद्धिं. किं कारणा? चित्तसङ्खारो हि कायसङ्खारेन विनापि उप्पज्जति च निरुज्झति च. कायसङ्खारो पन चित्तसमुट्ठानो अस्सासपस्सासवातो. चित्तसमुट्ठानरूपञ्च चित्तस्स उप्पादक्खणे उप्पज्जित्वा याव अञ्ञानि सोळसचित्तानि उप्पज्जन्ति, ताव तिट्ठति. तेसं सोळसन्नं सब्बपच्छिमेन सद्धिं निरुज्झतीति येन चित्तेन सद्धिं उप्पज्जति, ततो पट्ठाय सत्तरसमेन सद्धिं निरुज्झति. न कस्सचि चित्तस्स उप्पादक्खणे वा ठितिक्खणे वा निरुज्झति, नापि ठितिक्खणे वा भङ्गक्खणे वा उप्पज्जति. एसा चित्तसमुट्ठानरूपस्स धम्मताति नियमतो चित्तसङ्खारेन सद्धिं एकक्खणे निरुज्झनतो आमन्ताति वुत्तं. यं पन विभङ्गप्पकरणस्स सीहळट्ठकथायं ‘‘चित्तसमुट्ठानं रूपं सत्तरसमस्स चित्तस्स उप्पादक्खणे निरुज्झती’’ति वुत्तं, तं इमाय पाळिया विरूज्झति. अट्ठकथातो च पाळियेव बलवतराति पाळियं वुत्तमेव पमाणं.

१२८. यस्स कायसङ्खारो उप्पज्जति, तस्स वचीसङ्खारो निरुज्झतीति एत्थ यस्मा कायसङ्खारो चित्तस्स उप्पादक्खणे उप्पज्जति, न च तस्मिं खणे वितक्कविचारा निरुज्झन्ति, तस्मा नोति पटिसेधो कतोति. इमिना नयमुखेन सब्बत्थ अत्थविनिच्छयो वेदितब्बो. परिञ्ञावारो पाकतिकोयेवाति.

पवत्तिवारवण्णना.

सङ्खारयमकवण्णना निट्ठिता.