२. पवत्तिवारवण्णना
२७-१६४. पवत्तिवारे पनेत्थ पच्चुप्पन्नकाले पुग्गलवारस्स अनुलोमनये ‘‘यस्स दुक्खसच्चं उप्पज्जति, तस्स समुदयसच्चं उप्पज्जति; यस्स वा पन समुदयसच्चं उप्पज्जति, तस्स दुक्खसच्चं उप्पज्जती’’ति दुक्खसच्चमूलकेहि तीहि, समुदयसच्चमूलकेहि द्वीहि, निरोधसच्चमूलकेन एकेनाति लब्भमानञ्च अलब्भमानञ्च गहेत्वा पाळिवसेन छहि यमकेहि भवितब्बं. तेसु यस्मा निरोधस्स नेव उप्पादो, न निरोधो युज्जति, तस्मा दुक्खसच्चमूलकानि समुदयसच्चमग्गसच्चेहि सद्धिं द्वे, समुदयसच्चमूलकं मग्गसच्चेन सद्धिं एकन्ति तीणि यमकानि आगतानि. तस्स पटिलोमनयेपि ओकासवारादीसुपि एसेव नयो. एवमेत्थ सब्बवारेसु तिण्णं तिण्णं यमकानं वसेन यमकगणना वेदितब्बा. अत्थविनिच्छये पनेत्थ इदं लक्खणं – इमस्स हि सच्चयमकस्स पवत्तिवारे निरोधसच्चं ताव न लब्भतेव. सेसेसु पन तीसु समुदयसच्चमग्गसच्चानि एकन्तेन पवत्तियंयेव लब्भन्ति. दुक्खसच्चं चुतिपटिसन्धीसुपि पवत्तेपि लब्भति. पच्चुप्पन्नादयो पन तयो काला चुतिपटिसन्धीनम्पि पवत्तियापि वसेन लब्भन्ति. एवमेत्थ यं यं लब्भति, तस्स तस्स वसेन अत्थविनिच्छयो वेदितब्बो.
तत्रिदं नयमुखं – सब्बेसं उपपज्जन्तानन्ति अन्तमसो सुद्धावासानम्पि. तेपि हि दुक्खसच्चेनेव उपपज्जन्ति. तण्हाविप्पयुत्तचित्तस्साति इदं दुक्खसच्चसमुदयसच्चेसु एककोट्ठासस्स उप्पत्तिदस्सनत्थं वुत्तं. तस्मा पञ्चवोकारवसेनेव गहेतब्बं. चतुवोकारे पन तण्हाविप्पयुत्तस्स फलसमापत्तिचित्तस्स उप्पादक्खणे एकम्पि सच्चं नुप्पज्जति. इदं इध न गहेतब्बं. तेसं दुक्खसच्चञ्चाति तस्मिञ्हि खणे तण्हं ठपेत्वा सेसं दुक्खसच्चं नाम होतीति सन्धायेतं वुत्तं. मग्गस्स उप्पादक्खणेपि एसेव नयो. तत्थ पन रूपमेव दुक्खसच्चं नाम. सेसा मग्गसम्पयुत्तका धम्मा सच्चविनिमुत्ता. तेनेव कारणेन ‘‘अरूपे मग्गस्स उप्पादक्खणे तेसं मग्गसच्चं उप्पज्जति, नो च तेसं दुक्खसच्चं उप्पज्जती’’ति वुत्तं. सब्बेसं उपपज्जन्तानं पवत्ते तण्हाविप्पयुत्तचित्तस्स उप्पादक्खणे तेसं तत्थाति तेसं तस्मिं उपपत्तिक्खणे तण्हाविप्पयुत्तचित्तुप्पत्तिक्खणे चाति एवमेत्थ खणवसेन ओकासो वेदितब्बो. अञ्ञेसुपि एवरूपेसु एसेव नयो. अनभिसमेतावीनन्ति चतुसच्चपटिवेधसङ्खातं अभिसमयं अप्पत्तसत्तानं. अभिसमेतावीनन्ति अभिसमितसच्चानन्ति. इमिना नयमुखेन सब्बत्थ अत्थविनिच्छयो वेदितब्बो.
पवत्तिवारवण्णना.