९. अपरिनिप्फन्नकथावण्णना
९१७-९१८. इदानि अपरिनिप्फन्नकथा नाम होति. तत्थ –
‘‘दुक्खमेव हि सम्भोति, दुक्खं तिट्ठति वेति च;
नाञ्ञत्र दुक्खा सम्भोति, नाञ्ञं दुक्खा निरुज्झती’’ति. (सं. नि. १.१७१) –
वचनं निस्साय दुक्खञ्ञेव परिनिप्फन्नं, सेसा खन्धायतनधातुइन्द्रियधम्मा अपरिनिप्फन्नाति येसं लद्धि, सेय्यथापि एकच्चानं उत्तरपथकानञ्चेव हेतुवादानञ्च; ते सन्धाय रूपं अपरिनिप्फन्नन्ति पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. अथ नं ‘‘सचे रूपं अपरिनिप्फन्नं, न अनिच्चादिसभावं सिया’’ति चोदेतुं रूपं न अनिच्चन्तिआदिमाह. इतरो तथारूपं रूपं अपस्सन्तो पटिक्खिपति. सकवादी ननु रूपं अनिच्चन्तिआदि वचनेन तस्स एकं लद्धिं पटिसेधेत्वा दुतियं पुच्छन्तो दुक्खञ्ञेव परिनिप्फन्नन्तिआदिमाह. अथस्स तम्पि लद्धिं पटिसेधेतुं न यदनिच्चन्तिआदिमाह. तत्रायं अधिप्पायो – न केवलञ्हि पठमसच्चमेव दुक्खं. यं पन किञ्चि अनिच्चं, तं दुक्खमेव. रूपञ्च अनिच्चं, तस्मा तम्पि परिनिप्फन्नं. इति यं त्वं वदेसि ‘‘रूपं अपरिनिप्फन्नं, दुक्खञ्ञेव परिनिप्फन्न’’न्ति, तं नो वत रे वत्तब्बे ‘‘दुक्खञ्ञेव परिनिप्फन्न’’न्ति. वेदनादिमूलिकादीसुपि योजनासु एसेव नयो. धम्मायतनधम्मधातूसु पन ठपेत्वा निब्बानं सेसधम्मानं वसेन अनिच्चता वेदितब्बा. इन्द्रियानि अनिच्चानेवाति.
अपरिनिप्फन्नकथावण्णना.
तेवीसतिमो वग्गो.
निगमनकथा
एत्तावता च –
पण्णासकेहि चतूहि, तीहि वग्गेहि चेव च;
सङ्गहेत्वा कथा सब्बा, ऊनतिसतभेदना.
कथावत्थुप्पकरणं, कथामग्गेसु कोविदो;
यं जिनो देसयि तस्स, निट्ठिता अत्थवण्णना.
इमं तेरसमत्तेहि, भाणवारेहि तन्तिया;
चिरट्ठितत्थं धम्मस्स, सङ्खरोन्तेन यं मया.
यं पत्तं कुसलं तेन, लोकोयं सनरामरो;
धम्मराजस्स सद्धम्म-रसमेवाधिगच्छतूति.
कथावत्थु-अट्ठकथा निट्ठिता.
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स