१४. अभिञ्ञानुयोगवण्णना

१९३. इतो परं अभिञ्ञानुयोगादिवसेन अरहत्तसाधना होति. तत्थ आमन्ताति सकवादिना पटिञ्ञाते परवादी ‘‘बहिद्धा अनिन्द्रियबद्धरूपे इद्धिविधादिविसेसाधिगमो नत्थि, अज्झत्तं अत्थि, तस्मा इद्धादिनिब्बत्तकेन पुग्गलेन भवितब्ब’’न्ति मञ्ञमानो ननु अत्थि कोचि इद्धिं विकुब्बतीतिआदिमाह. तं सब्बं उत्तानत्थमेव.

अभिञ्ञानुयोगवण्णना.