९. चक्खुनारूपंपस्सतीतिकथावण्णना

८२६-८२७. इदानि चक्खुना रूपं पस्सतीतिकथा नाम होति. तत्थ ‘‘चक्खुना रूपं दिस्वा’’ति वचनं निस्साय ‘‘पसादचक्खुमेव रूपं पस्सती’’ति येसं लद्धि, सेय्यथापि महासङ्घिकानं, ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. अथ नं ‘‘यदि चक्खुना रूपं पस्सेय्य, रूपेन रूपं पस्सेय्याती’’ति चोदेतुं रूपेन रूपं पस्सतीति आह. इतरो रूपायतनं सन्धाय पटिक्खिपित्वा पुन पुट्ठो चक्खुमेव सन्धाय पटिजानाति. पटिविजानातीति एत्थ अयमधिप्पायो – पस्सतीति हि मयं पटिजाननं सन्धाय पुच्छाम, न चक्खूपसंहारमत्तं. तस्मा वदेहि ताव ‘‘किं ते चक्खुमा रूपेन रूपं पटिविजानाती’’ति. इतरो पुरिमनयेनेव पटिक्खिपति चेव पटिजानाति च. अथ नं ‘‘एवं सन्ते रूपं मनोविञ्ञाणं आपज्जति, तञ्हि पटिविजानाति नामा’’ति चोदेतुं रूपं मनोविञ्ञाणन्ति आह. इतरो लेसं अलभन्तो पटिक्खिपतेव. अत्थि चक्खुस्स आवट्टनातिआदि ‘‘यदि चक्खु पटिविजाननट्ठेन पस्सति, चक्खुविञ्ञाणस्स विय तस्सापि आवज्जनाय भवितब्ब’’न्ति चोदेतुं पुच्छति. इतरो यस्मा न आवज्जनपटिबद्धं चक्खु, न तं आवज्जनानन्तरं उप्पज्जति, तस्मा न हेवन्ति पटिक्खिपति. सोतेन सद्दन्तिआदीसुपि एसेव नयो. इध, भिक्खवे, भिक्खु चक्खुना रूपं पस्सतीति ससम्भारकथानयेन वुत्तं. यथा हि उसुना विज्झन्तोपि ‘‘धनुना विज्झती’’ति वुच्चति, एवं चक्खुविञ्ञाणेन पस्सन्तोपि ‘‘चक्खुना पस्सती’’ति वुत्तो, तस्मा असाधकमेतं. सेसेसुपि एसेव नयोपि.

चक्खुना रूपं पस्सतीतिकथावण्णना.

अट्ठारसमो वग्गो.