६. झानसङ्कन्तिकथावण्णना

८१३-८१६. इदानि झानसङ्कन्तिकथा नाम होति. तत्थ येसं ‘‘इध, भिक्खवे, भिक्खु विविच्चेव कामेहि पठमं झानं उपसम्पज्ज विहरति, वितक्कविचारानं वूपसमा दुतियं झानं, ततियं झानं, चतुत्थं झानं उपसम्पज्ज विहरती’’ति (सं. नि. ५.९२३-९३४) इमं पटिपाटिदेसनं निस्साय ‘‘तस्स तस्स झानस्स उपचारप्पवत्तिं विनाव झाना झानं सङ्कमती’’ति लद्धि, सेय्यथापि महिसासकानञ्चेव एकच्चानञ्च अन्धकानं; ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. अथ नं ‘‘यदि ते दुतियज्झानूपचारं अप्पत्वा उप्पटिपाटिया पठमज्झाना दुतियज्झानमेव सङ्कमति, पठमतो ततियं, दुतियतो चतुत्थम्पि सङ्कमेय्या’’ति चोदेतुं पठमा झानातिआदिमाह. या पठमस्सातिआदि ‘‘यदि पठमतो अनन्तरं दुतियं, दुतियादीहि वा ततियादीनि समापज्जति, एकावज्जनेन समापज्जेय्या’’ति चोदनत्थं वुत्तं. कामे आदीनवतोति पठमं कामे आदीनवतो मनसि करोतो पच्छा उप्पज्जति. झानक्खणे पनेस निमित्तमेव मनसि करोति. तञ्ञेव पठमन्ति ‘‘यदि पुरिमजवनतो पच्छिमजवनं विय अनन्तरं उप्पज्जेय्य, ठपेत्वा पुरिमपच्छिमभावं लक्खणतो तञ्ञेव तं भवेय्या’’ति चोदेतुं पुच्छति. इमिना उपायेन सब्बत्थ अत्थो वेदितब्बो. विविच्चेव कामेहीतिआदीहि पटिपाटिया झानानं देसितभावं दीपेति, न अनन्तरुप्पत्तिं, तस्मा असाधकन्ति.

झानसङ्कन्तिकथावण्णना.