२. धम्मदेसनाकथावण्णना

८०४-८०६. इदानि धम्मदेसनाकथा नाम होति. तत्थ ‘‘तुसितपुरे ठितो भगवा धम्मदेसनत्थाय अभिनिम्मितं पेसेसि, तेन चेव तस्स च देसनं सम्पटिच्छित्वा आयस्मता आनन्देन धम्मो देसितो, न बुद्धेन भगवता’’ति येसं लद्धि, सेय्यथापि वेतुल्लकानञ्ञेव; ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. अथ नं ‘‘यदि तेन धम्मो देसितो, स्वेव सत्था भवेय्या’’ति चोदेतुं अभिनिम्मितो जिनोतिआदिमाह. इतरो तथा असम्पटिच्छन्तो पटिक्खिपति. सेसमेत्थ उत्तानत्थमेवाति.

धम्मदेसनाकथावण्णना.