९. न वत्तब्बं सङ्घस्स दिन्नं महप्फलन्तिकथावण्णना

७९७-७९८. इदानि न वत्तब्बं सङ्घस्स दिन्नं महप्फलन्तिकथा नाम होति. तत्रापि ‘‘मग्गफलानेव सङ्घो नाम, न च सक्का तेसं किञ्चि दातुं, न च तेहि पटिग्गण्हितुं, नापि तेसं दानेन कोचि उपकारो इज्झति, तस्मा न वत्तब्बं सङ्घस्स दिन्नं महप्फल’’न्ति येसं लद्धि, सेय्यथापि तेसंयेव; ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. आहुनेय्योतिआदि ‘‘यदि सङ्घस्स दिन्नं महप्फलं न भवेय्य, न नं सत्था एवं थोमेय्या’’ति दस्सनत्थं वुत्तं. सेसं यथापाळिमेव निय्यातीति.

न वत्तब्बं सङ्घस्स दिन्नं महप्फलन्तिकथावण्णना.