९. ततियसञ्ञावेदयितकथावण्णना

७३२. इदानि यस्मा ‘‘असुको मरणधम्मो, असुको न मरणधम्मो’’ति सत्तानं मरणधम्मताय नियामो नत्थीति सञ्ञावेदयितनिरोधं समापन्नोपि कालं करेय्याति येसं लद्धि, सेय्यथापि राजगिरिकानं; तेसं समापन्नायपि मरणधम्मताय मरणसमयञ्च अमरणसमयञ्च दस्सेतुं पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. अथ नं यस्मा कालं करोन्तस्स नाम मरणन्तिकेहि फस्सादीहि भवितब्बं, तस्मा तेनाकारेन चोदेतुं अत्थीतिआदिमाह.

अफस्सकस्स कालकिरियातिआदीनि पुट्ठो सेससत्ते सन्धाय पटिक्खिपति विसं कमेय्यातिआदीनि पुट्ठो समापत्तिआनुभावं सन्धाय पटिक्खिपति. दुतियवारे सरीरपकतिं सन्धाय पटिजानाति. एवं सन्ते पन समापत्तिआनुभावो नाम न होति, तेनेव न निरोधसमापन्नोति अनुयुञ्जति.

७३३-७३४. न कालं करेय्याति पुच्छा परवादिस्स. अत्थि सो नियामोति परवादिस्स पञ्हे पन यस्मा एवरूपो नियामो नाम नत्थि, तस्मा पटिक्खिपति. चक्खुविञ्ञाणसमङ्गीतिआदि सकवादिना ‘‘नियामे असन्तेपि मरणसमयेनेव मरति, नासमयेना’’ति दस्सेतुं वुत्तं. तत्रायमधिप्पायो – यदि नियामाभावेन कालकिरिया भवेय्य, चक्खुविञ्ञाणसमङ्गिनोपि भवेय्य. ततो ‘‘पञ्चहि विञ्ञाणेहि न चवति, न उपपज्जती’’ति सुत्तविरोधो सिया. यथा पन चक्खुविञ्ञाणसमङ्गिस्स कालकिरिया न होति, तथा निरोधसमापन्नस्सापीति.

ततियसञ्ञावेदयितकथावण्णना.