७. समापन्नो अस्सादेतीतिकथावण्णना

६७१-६७३. इदानि समापन्नो अस्सादेतीतिकथा नाम होति. तत्थ ‘‘पठमं झानं उपसम्पज्ज विहरति, सो तदस्सादेती’’तिआदिवचनं (अ. नि. ४.१२३) निस्साय ‘‘समापन्नो अस्सादेति, सा चस्स झाननिकन्ति झानारम्मणा होती’’ति येसं लद्धि, सेय्यथापि अन्धकानं, ते सन्धाय समापन्नोति पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. तं झानं तस्स झानस्स आरम्मणन्ति पञ्हेसु तस्सेव तदारम्मणतं अपस्सन्तो सुत्तविरोधभयेन पटिक्खिपति, ‘‘तदस्सादेती’’तिवचनमत्तेन पटिजानाति. सो तदस्सादेतीति सुत्तं झानलाभिनो झाना वुट्ठाय झानस्सादं साधेति, न अन्तोसमापत्तियंयेव झाननिकन्तिया झानारम्मणतं, तस्मा असाधकन्ति.

समापन्नो अस्सादेतीतिकथावण्णना.