६. इदं दुक्खन्तिकथावण्णना
६१८-८२०. इदानि इदं दुक्खन्तिकथा नाम होति. तत्थ येसं ‘‘लोकुत्तरमग्गक्खणे योगावचरो इदं दुक्खन्ति वाचं भासति, एवमस्स इदं दुक्खन्ति वाचं भासतो च इदं दुक्खन्ति ञाणं पवत्तती’’ति लद्धि, सेय्यथापि अन्धकानं; ते सन्धाय पुच्छा सकवादिस्स, मग्गक्खणे तथा वाचाभासनं ञाणप्पवत्तिञ्च सन्धाय पटिञ्ञा इतरस्स. यस्मा पन सो सेससच्चपटिसंयुत्तं वाचं पुथुज्जनोव भासति, न च तस्स तथा ञाणप्पवत्तीति इच्छति, तस्मा समुदयादिपञ्हेसु पटिक्खिपति. रूपं अनिच्चन्तिआदि दुक्खपरियायदस्सनवसेन वुत्तं. इतरो पन सकसमये तादिसं वोहारं अपस्सन्तो पटिक्खिपति. इति च दन्ति चातिआदि यदि तस्स दुक्खे ञाणं पवत्तति, इ-कार दं-कार दु-कार ख-कारेसु पटिपाटिया चतूहि ञाणेहि पवत्तितब्बन्ति दस्सेतुं वुत्तं. इतरो पन तथा न इच्छति, तस्मा पटिक्खिपति.
इदं दुक्खन्तिकथावण्णना.