७. सीलं अचेतसिकन्तिकथावण्णना
५९०-५९४. इदानि सीलं अचेतसिकन्तिकथा नाम होति. तत्थ यस्मा सीले उप्पज्जित्वा निरुद्धेपि समादानहेतुको सीलोपचयो नाम अत्थि, येन सो सीलवायेव नाम होति, तस्मा ‘‘सीलं अचेतसिक’’न्ति येसं लद्धि, सेय्यथापि महासंघिकानं, ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. सेसमेत्थ ‘‘दानं अचेतसिक’’न्तिकथायं वुत्तनयेनेव वेदितब्बं. लद्धिपतिट्ठापनम्पि अयोनिसो गहितत्ता अप्पतिट्ठापनमेवाति.
सीलं अचेतसिकन्तिकथावण्णना.