२. अमतारम्मणकथावण्णना
५४९. इदानि अमतारम्मणकथा नाम होति. तत्थ येसं ‘‘निब्बानं मञ्ञती’’तिआदीनं अयोनिसो अत्थं गहेत्वा अमतारम्मणं संयोजनं होतीति लद्धि, सेय्यथापि पुब्बसेलियानं, ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. अथ नं सचे अमतारम्मणं संयोजनं, अमतस्स संयोजनियादिभावो आपज्जतीति चोदेतुं अमतं संयोजनियन्तिआदिमाह. इतरो सुत्तविरोधभयेन सब्बं पटिक्खिपति. इमिना उपायेन सब्बवारेसु अत्थो वेदितब्बो. निब्बानं निब्बानतोति आहटसुत्तं पन दिट्ठधम्मनिब्बानं सन्धाय भासितं, तस्मा असाधकन्ति.
अमतारम्मणकथावण्णना.