७. रूपधातुया आयतनकथावण्णना
५१९. इदानि रूपधातुया आयतनकथा नाम होति. तत्थ येसं ‘‘रूपी मनोमयो सब्बङ्गपच्चङ्गी अहीनिन्द्रियो’’ति (दी. नि. १.८७) सुत्तं निस्साय ब्रह्मकायिकानं घानादिनिमित्तानिपि आयतनानेवाति कप्पेत्वा सळायतनिको तेसं अत्तभावोति लद्धि, सेय्यथापि अन्धकानञ्चेव सम्मितियानञ्च; ते सन्धाय सळायतनिकोति पुच्छा सकवादिस्स, लद्धिवसेन पटिञ्ञा इतरस्स. अथ नं यं तत्थ आयतनं नत्थि, तस्स वसेन चोदेतुं अत्थि तत्थ घानायतनन्तिआदि आरद्धं. ततो परवादी यं तत्थ अज्झत्तिकानं तिण्णं आयतनानं घानादिकं सण्ठाननिमित्तं तदेव आयतनन्ति लद्धिया पटिजानाति. बाहिरानं गन्धायतनादीनं वसेन पुट्ठो घानप्पसादादयो तत्थ न इच्छति, तस्मा तेसं गोचरं पटिसेधेन्तो पटिक्खिपति. पटिलोमपञ्हसंसन्दनपञ्हेसुपि इमिनावुपायेन अत्थो वेदितब्बो.
५२१. अत्थि तत्थ घानायतनं अत्थि गन्धायतनं तेन घानेन तं गन्धं घायतीति तस्मिंयेव परसमये एकच्चे आचरिये सन्धाय वुत्तं. ते किर तत्थ छ अज्झत्तिकानि आयतनानि परिपुण्णानि इच्छन्ति, आयतनेन च नाम सकिच्चकेन भवितब्बन्ति तेहि घानादीहि ते गन्धादयो घायन्ति सायन्ति फुसन्तीतिपि इच्छन्ति. तं लद्धिं सन्धाय परवादी आमन्ताति पटिजानाति.
५२२. अत्थि तत्थ मूलगन्धोतिआदीनि पन पुट्ठो अत्थिभावं साधेतुं असक्कोन्तो पटिक्खिपति. ननु अत्थि तत्थ घाननिमित्तन्तिआदि सण्ठानमत्तस्सेव साधकं, न आयतनस्स, तस्मा उदाहटम्पि अनुदाहटसदिसमेवाति.
रूपधातुया आयतनकथावण्णना.