३. कामगुणकथावण्णना
५१०. इदानि कामगुणकथा नाम होति. तत्थ सकसमये ताव कामधातूति वत्थुकामापि वुच्चन्ति – किलेसकामापि कामभवोपि. एतेसु हि वत्थुकामा कमनीयट्ठेन कामा, सभावनिस्सत्तसुञ्ञतट्ठेन धातूति कामधातु. किलेसकामा कमनीयट्ठेन चेव कमनट्ठेन च कामा, यथावुत्तेनेवत्थेन धातूति कामधातु. कामभवो कमनीयट्ठेन कमनट्ठेन वत्थुकामपवत्तिदेसट्ठेनाति तीहि कारणेहि कामो, यथावुत्तेनेवत्थेन धातूति कामधातु. परसमये पन – ‘‘पञ्चिमे, भिक्खवे, कामगुणा’’ति वचनमत्तं निस्साय पञ्चेव कामगुणा कामधातूति गहितं. तस्मा येसं अयं लद्धि, सेय्यथापि एतरहि पुब्बसेलियानं; ते सन्धाय कामधातुनानत्तं बोधेतुं पञ्चेवाति पुच्छा सकवादिस्स, लद्धिवसेन पटिञ्ञा इतरस्स. ननु अत्थीतिआदि किलेसकामदस्सनत्थं वुत्तं. तत्थ तप्पटिसंयुत्तोति कामगुणपटिसंयुत्तो, कामगुणारम्मणोति अत्थो. नो च वत रे वत्तब्बे पञ्चेवाति इमेसु तप्पटिसंयुत्तछन्दादीसु सति पञ्चेव कामगुणा कामधातूति न वत्तब्बं. एतेपि हि छन्दादयो कमनीयट्ठेन कामा च धातु चातिपि कामधातु. कमनट्ठेन कामसङ्खाता धातूतिपि कामधातूति अत्थो.
मनुस्सानं चक्खुन्तिआदि वत्थुकामदस्सनत्थं वुत्तं. तत्थ परवादी छन्नम्पि आयतनानं वत्थुकामभावेन नकामधातुभावं पटिक्खिपित्वा पुन मनोति पुट्ठो महग्गतलोकुत्तरं सन्धाय नकामधातुभावं पटिजानाति. यस्मा पन सब्बोपि तेभूमकमनो कामधातुयेव, तस्मा नं सकवादी सुत्तेन निग्गण्हाति.
५११. कामगुणा भवोतिआदि भवस्स कामधातुभावदस्सनत्थं वुत्तं. यस्मा पन कामगुणमत्ते भवोति वोहारो नत्थि, तस्मा परवादी नहेवाति पटिक्खिपति. कामगुणूपगं कम्मन्तिआदि सब्बं कामगुणमत्तस्स नकामधातुभावदस्सनत्थं वुत्तं. कामधातुसङ्खातकामभवूपगमेव हि कम्मं अत्थि, कामभवूपगा एव च सत्ता होन्ति. तत्थ जायन्ति जियन्ति मियन्ति चवन्ति उपपज्जन्ति, न कामगुणेसूति इमिना उपायेन सब्बत्थ अत्थो वेदितब्बोति.
कामगुणकथावण्णना.