६. इतोदिन्नकथावण्णना
४८८-४९१. इदानि इतो दिन्नकथा नाम होति. तत्थ येसं ‘‘इतो दिन्नेन यापेन्ति, पेता कालङ्कता तहि’’न्ति (पे. व. १९) वचनं निस्साय ‘‘यं इतो चीवरादि दिन्नं तेनेव यापेन्ती’’ति लद्धि, सेय्यथापि राजगिरिकसिद्धत्थिकानं; ते सन्धाय इतो दिन्नेनाति पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. पुन चीवरादिवसेन अनुयुत्तो पटिक्खिपति. अञ्ञो अञ्ञस्स कारकोति अञ्ञस्स विपाकदायकानं कम्मानं अञ्ञो कारको, न अत्तनाव अत्तनो कम्मं करोतीति वुत्तं होति. एवं पुट्ठो पन इतरो सुत्तविरोधभयेन पटिक्खिपति. दानं देन्तन्ति दानं ददमानं दिस्वाति अत्थो. तत्थ यस्मा अत्तनो अनुमोदितत्ता च तेसं तत्थ भोगा उप्पज्जन्ति, तस्मास्स इमिना कारणेन लद्धिं पतिट्ठपेन्तस्सापि अप्पतिट्ठिताव होति. न हि ते इतो दिन्नेनेव वत्थुना यापेन्ति. सेसेसुपि सुत्तसाधनेसु एसेव नयोति.
इतो दिन्नकथावण्णना.