४. दानकथावण्णना
४७८. इदानि दानकथा नाम होति. तत्थ दानं नाम तिविधं – चागचेतनापि, विरतिपि, देय्यधम्मोपि. ‘‘सद्धा हिरियं कुसलञ्च दान’’न्ति (अ. नि. ८.३०) आगतट्ठाने चागचेतना दानं. ‘‘अभयं देती’’ति (अ. नि. ८.३९) आगतट्ठाने विरति. ‘‘दानं देति अन्नं पान’’न्ति आगतट्ठाने देय्यधम्मो. तत्थ चागचेतना ‘‘देति वा देय्यधम्मं, देन्ति वा एताय देय्यधम्म’’न्ति दानं. विरति अवखण्डनट्ठेन लवनट्ठेन वा दानं. सा हि उप्पज्जमाना भयभेरवादिसङ्खातं दुस्सील्यचेतनं दाति खण्डेति लुनाति वाति दानं. देय्यधम्मो दिय्यतीति दानं. एवमेतं तिविधम्पि अत्थतो चेतसिको चेव धम्मो देय्यधम्मो चाति दुविधं होति. तत्थ येसं ‘‘चेतसिकोव धम्मो दानं, न देय्यधम्मो’’ति लद्धि, सेय्यथापि राजगिरिकसिद्धत्थिकानं; ते सन्धाय चेतसिकोति पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. अथ नं देय्यधम्मवसेन चोदेतुं लब्भाति पुच्छा सकवादिस्स, अन्नादीनि विय सो न सक्का दातुन्ति पटिक्खेपो इतरस्स. पुन दळ्हं कत्वा पुट्ठे ‘‘अभयं देती’’ति सुत्तवसेन पटिञ्ञा तस्सेव. फस्सपञ्हादीसु पन फस्सं देतीतिआदिवोहारं अपस्सन्तो पटिक्खिपतेव.
४७९. अनिट्ठफलन्तिआदि अचेतसिकस्स धम्मस्स दानभावदीपनत्थं वुत्तं. न हि अचेतसिको अन्नादिधम्मो आयतिं विपाकं देति, इट्ठफलभावनियमनत्थं पनेतं वुत्तन्ति वेदितब्बं. अयम्पि हेत्थ अधिप्पायो – यदि अचेतसिको अन्नादिधम्मो दानं भवेय्य, हितचित्तेन अनिट्ठं अकन्तं भेसज्जं देन्तस्स निम्बबीजादीहि विय निम्बादयो अनिट्ठमेव फलं निब्बत्तेय्य. यस्मा पनेत्थ हितफरणचागचेतना दानं, तस्मा अनिट्ठेपि देय्यधम्मे दानं इट्ठफलमेव होतीति.
एवं परवादिना चेतसिकधम्मस्स दानभावे पतिट्ठापिते सकवादी इतरेन परियायेन देय्यधम्मस्स दानभावं साधेतुं दानं इट्ठफलं वुत्तं भगवतातिआदिमाह. परवादी पन चीवरादीनं इट्ठविपाकतं अपस्सन्तो पटिक्खिपति. सुत्तसाधनं परवादीवादेपि युज्जति सकवादीवादेपि, न पन एकेनत्थेन. देय्यधम्मो इट्ठफलोति इट्ठफलभावमत्तमेव पटिक्खित्तं. तस्मा तेन हि न वत्तब्बन्ति इट्ठफलभावेनेव न वत्तब्बता युज्जति. दातब्बट्ठेन पन देय्यधम्मो दानमेव. दिन्नञ्हि दानानं सङ्करभावमोचनत्थमेव अयं कथाति.
दानकथावण्णना.