१. नियामकथावण्णना
४४५-४४७. इदानि नियामकथा नाम होति. तत्थ नियामोति ‘‘भब्बो नियामं ओक्कमितुं कुसलेसु धम्मेसु सम्मत्त’’न्ति (पु. प. १३) वचनतो अरियमग्गो वुच्चति. यस्मा पन तस्मिं उप्पज्जित्वा निरुद्धेपि पुग्गलो अनियतो नाम न होति, तस्मा ‘‘सो नियामो निच्चट्ठेन असङ्खतो’’ति येसं लद्धि, सेय्यथापि अन्धकानं; ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. ततो ‘‘यदि सो असङ्खतो, एवरूपेन तेन भवितब्ब’’न्ति दीपेन्तो निब्बानन्तिआदिमाह. संसन्दनपुच्छा उत्तानत्थायेव.
अत्थि केचीतिआदि नियामस्स सङ्खतभावदीपनत्थं वुत्तं. मग्गो असङ्खतोतिपञ्हे तस्स उप्पादनिरोधभावतो पटिक्खिपतीति. नियामो सङ्खतोतिपञ्हे निरुद्धेपि मग्गे नियामस्स अत्थितं सन्धाय पटिक्खिपति. सोतापत्तिनियामोतिआदिपञ्हेसुपि अनुलोमतो च पटिलोमतो च इमिनाव नयेन अत्थो वेदितब्बो. पञ्च असङ्खतानीति पुट्ठो पञ्चन्नं असङ्खतानं आगतट्ठानं अपस्सन्तो पटिक्खिपति. दुतियं पुट्ठो चतुन्नं सम्मत्तनियामानं नियामवचनतो निब्बानस्स च असङ्खतभावतो पटिजानाति. मिच्छत्तनियामपञ्हो नियामवचनमत्तेन असङ्खतताय अयुत्तभावदीपनत्थं वुत्तोति.
नियामकथावण्णना.